|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
अष्टादशोऽध्यायः ॥
शिवसतीविवाहः
नारद उवाच
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः । का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १ ॥ ब्रह्मोवाच अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् । आसन्दं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २ ॥ मां वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः । मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३ ॥ अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया । सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४ ॥ ईश्वर उवाच किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतः स माम् । कथयस्व यथा स्वान्तं न दीर्येन्मन्मथेन हि ॥ ५ ॥ धावमानो विप्रयोगो मामेव च सतीं प्रति । अभिहन्ति सुरज्येष्ठ त्यक्त्वाऽन्यां प्राणधारिणीम् ॥ ६ ॥ सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् । अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७ ॥ ब्रह्मोवाच इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् । श्रुत्वाहं नारदमुने सान्त्वयन्नगदं शिवम् ॥ ८ ॥ सत्यर्थं यन्मम सुतो वदतिस्म वृषध्वज । तच्छ्रणुष्व निजासाध्यं सिद्धमित्यवधारय ॥ ९ ॥ देया तस्मै मया पुत्री तदर्थं परिकल्पिता । ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ १० ॥ मत्पुत्र्याराधितः शम्भुरेतदर्थं स्वयं पुनः । सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११ ॥ शुभे लग्न सुमुहूर्ते समागच्छतु सेति किम् । तदा दास्यामि तनयां भिक्षार्थं शम्भवे विधे ॥ १२ ॥ इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज । शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १ ३ ॥ इति श्रुत्वा मम वचो लौकिकीं गतिमाश्रितः । उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः ॥ १४ ॥ रुद्र उवाच गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् । अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५ ॥ मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर । तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६ ॥ ब्रह्मोवाच इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह । संस्मरं नारदं त्वां च मरीच्यादीन्सुतांस्तथा ॥ १७ ॥ ततःसमागताःसर्वे मानसास्तनयास्त्वया । मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८ ॥
विष्णुः समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् । सस्वसैन्यः कमलया गरुडारूढं एव च ॥ १९ ॥ अध चैत्रसिते पक्षे नक्षत्रे भगदैवते । त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ॥ २० ॥ सर्वैः सुरगणैः सार्द्धं ब्रह्मविष्णुपुरःसरैः । तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शङ्करः ॥ २१ ॥ मार्गे समुत्सवो जातो देवादीनां च गच्छताम् । तथा हरगणानां च सानन्दमनसामति ॥ २२ ॥ गजगोव्याघ्रसर्पाश्च जटा चन्द्रकला तथा । जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २३ ॥ ततः क्षणेन बलिना बलीवर्देन योगिना । स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४ ॥ ततो दक्षो विनीतात्मा सम्प्रहृष्टतनूरुहः । प्रययौ सम्मुखं तस्य संयुक्तःसकलैर्निजैः ॥ २५ ॥ सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः । पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६ ॥ परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा । दक्षः समानयामास गृहाभ्यन्तरतः शिवम् ॥ २७ ॥ अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् । समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८ ॥ ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा । पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९ ॥ कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा । चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ३० ॥ ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः । प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१ ॥ बाढमित्यहमप्युक्त्वा प्रहृष्टैनान्तरात्मना । समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२ ॥ ततः शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते । सती निजसुतां दक्षो ददौ हर्षेण शम्भवे ॥ ३३ ॥ उद्वाहविधिना सोऽपि पाणिं जग्राह हर्षितः । दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४ ॥ अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः । नेमुः सर्वे संस्तुतिभिस्तोषयामासुरीश्वरम् ॥ ३५ ॥ समुत्सवो महानासीन्नृत्यगानपुरःसरः । आनन्दं परमं जग्मुः सर्वे मुनिगणाः सुराः ॥ ३६ ॥ कन्या दत्त्वा कृतार्थोऽभूत्तदा दक्षो हि मत्सुतः । शिवाशिवौ प्रसन्नौ च निखिलं मङ्गलालयम् ॥ ३७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥ श्रीगौरीशंकरार्पणमस्तु |