|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
सप्तदशोऽध्यायः ॥
सतीवरलाभकथनम्
ब्रह्मोवाच
इत्युक्त्वा सर्वदेवैश्च कृता शम्भोर्नुतिः परा । शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने ॥ १ ॥ अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता । आश्विने मासि सर्वेशं पूजयामास भक्तितः ॥ २ ॥ इति नन्दाव्रते पूर्णे नवम्यां दिनभागतः । तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद्धरः ॥ ३ ॥ सर्वाङ्गसुन्दरो गौरः पञ्चवक्त्रस्त्रिलोचनः । चन्द्रभालः प्रसन्नात्मा शितिकण्ठश्चतुर्भुजः ॥ ४ ॥ त्रिशूलब्रह्मकवराभयधृग् भस्मभास्वरः । स्वर्धुन्या विलसच्छीर्षः सकलाङ्गमनोहरः ॥ ५ ॥ महालावण्यधामा च कोटिचन्द्रसमाननः । कोटिस्मरसमा कान्तिः सर्वथा स्त्रीप्रियाकृतिः ॥ ६ ॥ प्रत्यक्षतो हरं वीक्ष्य सती सेदृविधं प्रभुम् । ववन्दे चरणौ तस्य सुलज्जावनतानना ॥ ७ ॥ अथ प्राह महादेवः सतीं तद्व्रतधारिणीम् । तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः ॥ ८ ॥ महादेव उवाच दक्षनन्दिनि प्रीतोऽस्मि व्रतेनानेन सुव्रते । वरं वरय सन्दास्ये यत्तवाभिमतं भवेत् ॥ ९ ॥ ब्रह्मोवाच जानन्नपीह तद्भावं महादेवो जगत्पतिः । जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया ॥ १० ॥ सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् । शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः ॥ ११ ॥ प्रेममग्नाऽभवत्साति श्रुत्वा शिववचः प्रियम् । तज्ज्ञात्वा सुप्रसन्नोऽभूच्छङ्करो भक्तवत्सलः ॥ १२ ॥ वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् । सतीभक्तिवशः शम्भुरन्तर्यामी सतां गतिः ॥ १३ ॥ अथ त्रपां स्वां सन्धाय यदा प्राह हरं सती । यथेष्टं देहि वरद वरमित्यनिवारकम् ॥ १४ ॥ तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः । भव त्वं मम भार्येति प्राह तां भक्तवत्सलः ॥ १५ ॥ एतच्छ्रुत्वा वचस्तस्य साऽभीष्टफलभावनम् । तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥ १६ ॥ सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी । अकरोन्निजभावांश्च हावान्कामविवर्द्धनान् ॥ १७ ॥ ततो भावान्समादाय शृङ्गाराख्यो रसस्तदा । तयोश्चित्ते विवेशाशु कला हावा यथोदितम् ॥ १८ ॥ तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणीः । काऽप्यभिख्या तयोरासीच्चित्राचन्द्रमसोर्यथा ॥ १९ ॥ रेजे सती हरं प्राप्य स्निग्धभिन्नाञ्जनप्रभा । चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥ २० ॥ अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः । सुप्रसन्ना करौ बद्ध्वाऽऽनतका भक्तवत्सलम् ॥ २१ ॥ सत्युवाच देवदेव महादेव विवाहविधिना प्रभौ । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ २२ ॥ ब्रह्मोवाच एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः । तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम् ॥ २३ ॥ दाक्षायण्यपि तं नत्वा शम्भुं विज्ञाप्य भक्तितः । प्राप्ताज्ञा मातुरभ्याशमयान्मोहमुदान्विता ॥ २४ ॥ हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् । दाक्षायणीवियोगाद्वै कृच्छ्रध्यानपरोऽभवत् ॥ २५ ॥ समाधाय मनः शम्भुर्लौकिकीं गतिमाश्रितः । चिन्तयामास देवर्षे मनसा मां वृषध्वजः ॥ २६ ॥ ततःसञ्चिन्त्यमानोहं महेशेन त्रिशूलिना । पुरस्तात्प्राविशत्तूर्णं हरसिद्धिप्रचोदितः ॥ २७ ॥ यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः । सरस्वतीयुतस्तात तत्रैव समुपस्थितः ॥ २८ ॥ सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः । उत्सुकः प्रेमबद्धश्च सत्या शम्भुरुवाच ह ॥ २९ ॥ शम्भुरुवाच अहं ब्रह्मन् स्वार्थपरः परिग्रहकृतौ च यत् । तदा स्वत्वमिव स्वार्थे प्रतिभाति ममाधुना ॥ ३० ॥ अहमाराधितः सत्याद्दाक्षायण्याथ भक्तितः । तस्यै वरो मया दत्तो नन्दाव्रतप्रभावतः ॥ ३१ ॥ भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः । मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा ॥ ३२ ॥ अथावदत्तदा मां सा सती दाक्षायणी त्विति । पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ ३३ ॥ तदप्यङ्गीकृतं ब्रह्मन्मया तद्भक्तितुष्टितः । सा गता भवनं मातुरहमत्रागतो विधे ॥ ३४ ॥ तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् । तां दक्षोपि यथा कन्यां दद्यान्मेऽरं तथा वद ॥ ३५ ॥ सतीवियोगभङ्गः स्याद्यथा मे त्वं तथा कुरु । समाश्वासय तं दक्षं सर्वविद्याविशारदः ॥ ३६ ॥ ब्रह्मोवाच इत्युदीर्य महादेवः सकाशे मे प्रजापतेः । सरस्वतीं विलोक्याशु वियोगवशगोभवत् ॥ ३७ ॥
तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः । प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम् ॥ ३८ ॥ यदात्थ भगवञ्शम्भो तद्विचार्य सुनिश्चितम् । मुख्यः स्वार्थो देवानां हि ममापि वृषभध्वज ॥ ३९ ॥ दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति । अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ ४० ॥ इत्युदीर्य्य महादेवमहं सर्वेश्वरं प्रभुम् । अगमं दक्षनिलयं स्यन्दनेनातिवेगिना ॥ ४१ ॥ नारद उवाच विधे प्राज्ञ महाभाग वद नो वदतां वर । सत्यै गृहागतायै स दक्षः किमकरोत्ततः ॥ ४२ ॥ ब्रह्मोवाच तपस्तप्त्वा वरं प्राप्य मनोभिलषितं सती । गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा ॥ ४३ ॥ मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् । वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टस्तु भक्तितः ॥ ४४ ॥ माता पिता च वृत्तान्तं सर्वं श्रुत्वा सखीमुखात् । आनन्दं परमं लेभे चक्रे च परमोत्सवम् ॥ ४५ ॥ द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः । अन्येभ्यश्चान्धदीनेभ्यो वीरिणी च महामनाः ॥ ४६ ॥ वीरिणी तां समालिङ्ग्य स्वसुतां प्रीतिवर्द्धिनीम् । मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः ॥ ४७ ॥ अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः । चिन्तयामास देयेयं स्वसुता शम्भवे कथम् ॥ ४८ ॥ आगतोपि महादेवः प्रसन्नः स जगाम ह । पुनरेव कथं सोऽपि सुतार्थेऽत्रागमिष्यति ॥ ४९ ॥ प्रास्थाप्योऽथ मया कश्चिच्छम्भोर्निकटमञ्जसा । नैतद्योग्यं निगृह्णीयाद्यद्येवं विफलार्दना ॥ ५० ॥ अथवा पूजयिष्यामि तमेव वृषभध्वजम् । मदीयतनयायुक्तः स्वयमेव यथा भवेत् ॥ ५१ ॥ तथैव पूजितः सोऽपि वाञ्छत्यार्यप्रयत्नतः । शम्भुर्भवतु मद्भर्त्तेत्येवं दत्तवरेण तत् ॥ ५२ ॥ इति चिन्तयतस्तस्य दक्षस्य पुरतोऽन्वहम् । उपस्थितोहं सहसा सरस्वत्यन्वितस्तदा ॥ ५३ ॥ मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः । आसनं च ददौ मह्यं स्वभवाय यथोचितम् ॥ ५४ ॥ ततो मां सर्वलोकेशं तत्रागमनकारणम् । दक्षः पप्रच्छ स क्षिप्रं चिन्ताविष्टोऽपि हर्षितः ॥ ५५ ॥ दक्ष उवाच तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् । ममोपरि सुप्रसादं कृत्वाऽऽचक्ष्व जगद्गुरो ॥ ५६ ॥ पुत्रस्नेहात्कार्यवशादथवा लोककारक । ममाश्रमं समायातो रुष्टस्य तव दर्शनात् ॥ ५७ ॥ ब्रह्मोवाच इति पृष्टः स्वपुत्रेण दक्षेण मुनिसत्तम । विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम् ॥ ५८ ॥ शृणु दक्ष यदर्थं त्वत्समीपमहमागतः । त्वत्तोकस्य हितं मेपि भवतोऽपि तदीप्सितम् ॥ ५९ ॥ तव पुत्री समाराध्य महादेवं जगत्पतिम् । यो वरः प्रार्थितस्तस्य समयोऽयमुपागतः ॥ ६० ॥ शम्भुना तव पुत्र्यर्थं त्वत्सकाशमहं धुवम् । प्रस्थापितोऽस्मि यत्कृत्यं श्रेयस्तदवधारय ॥ ६१ ॥ वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शङ्करः । त्वत्सुताया वियोगेन न शर्म लभतेऽञ्जसा ॥ ६२ ॥ अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् । सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः ॥ ६३ ॥ स कामबाणविद्धोऽपि परित्यज्यात्मचिन्तनम् । सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ॥ ६४ ॥ विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः । क्व सतीत्येवमभितो भाषते निकृतावपि ॥ ६५ ॥ मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च । मरीच्याद्यैमुनिवरैस्तत्सिद्धमधुना सुत ॥ ६६ ॥ त्वत्पुत्र्याराधितः शम्भुःसोपि तस्या विचिन्तनात् । अनुशोधयितुं प्रेप्सुर्वर्त्तते हिमवद्गिरौ ॥ ६७ ॥ यथा नानाविधैर्भावैः सत्त्वात्तेन व्रतेन च । शम्भुराराधितस्तेन तथैवाराध्यते सती ॥ ६८ ॥ तस्मात्तु दक्षतनयां शम्भ्वर्थं परिकल्पिताम् । तस्मै देह्यविलम्बेन कृता ते कृतकृत्यता ॥ ६९ ॥ अहं तमानयिष्यामि नारदेन त्वदालयम् । तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ॥ ७० ॥ श्रुत्वा मम वचश्चेति स मे पुत्रोतिहर्षितः । एवमेवेति मां दक्ष उवाच परिहर्षितः ॥ ७१ ॥ ततः सोऽहं मुने तत्रागममत्यन्तहर्षितः । उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः ॥ ७२ ॥ गते नारद दक्षोऽपि सदारतनयो ह्यपि । अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः ॥ ७३ ॥ इति श्रीशैवे महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥ १७ ॥ श्रीगौरीशंकरार्पणमस्तु |