|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
षोडशोऽध्यायः ॥
ब्रह्मविष्णुकृता शिवप्रार्थना
ब्रह्मोवाच
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शङ्करः । बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १ ॥ ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ सङ्गतौ हरः । यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २ ॥ रुद्र उवाच हे हरे हे विधे देवा मुनयश्चाद्य निर्भयाः । निजागमनहेतुं हि कथयस्व सुतत्त्वतः ॥ ३ ॥ किमर्थमागता यूयं किं कार्यं चेह विद्यते । तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४ ॥ ब्रह्मोवाच इति पृष्टे हरेणाऽहं सर्वलोकपितामहः । मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५ ॥ देवदेव महादेव करुणासागर प्रभो । यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६ ॥ विशेषतस्तवैवार्थमागता वृषभध्वज । सहार्थिनःसदायोग्यमन्यथा न जगद्भवेत् ॥ ७ ॥ केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर । हरेर्वध्यास्तथा केचिद्भवन्तश्चापि केचन ॥ ८ ॥ केचित् त्वद्वीर्यजातस्य तनयस्य महाप्रभो । मायावध्याः प्रभो केचिद्भविष्यन्त्यसुराः सदा ॥ ९ ॥ तवैव कृपया शम्भोः सुराणां सुखमुत्तमम् । नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ १ ० ॥ योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते । दयापात्रैकनिरते न वध्या ह्यथवा तव ॥ ११ ॥ अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः । अतश्च भविता युक्तं नित्यं नित्यं वृषध्वज ॥ १२ ॥ सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा तदा । शरीरभेदश्चास्माकं मायायाश्च न युज्यते ॥ १ ३ ॥ वयंएकस्वरूपा हि भिन्नाः कार्यस्य भेदतः । कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ॥ १४ ॥ एक एव त्रिधा भिन्नः परमात्मा महेश्वरः । मायायाः कारणादेव स्वतन्त्रो लीलया प्रभुः ॥ १५ ॥ वामाङ्गजो हरिस्तस्य दक्षिणाङ्गभवो ह्यहम् । शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुः शिवः ॥ १६ ॥ इत्थं वयं त्रिधाभूता प्रभो भिन्नस्वरूपिणः । शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७ ॥ अहं विष्णुश्च सस्त्रीकौ सञ्जातौ कार्यहेतुतः । लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८ ॥ तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे । परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९ ॥ अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया । यन्नः पुरः पुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ २० ॥ मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्गतः । प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१ ॥ सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः । लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२ ॥ स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् । इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३ ॥ निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः । पालको लयहेतुस्त्वमाविर्भूतः स्वयं शिवः ॥ २४ ॥ त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि । लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५ ॥ यथा पद्मालया विष्णोः सावित्री च यथा मम । तथा सहचरीं शम्भो कान्तां गृह्णीष्व सम्प्रति ॥ २६ ॥ ब्रह्मोवाच इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः । स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७ ॥ ईश्वर उवाच हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा । दृष्ट्वा त्वां च ममानन्दो भवत्यतितरां खलु ॥ २८ ॥ युवां सुरविशिष्टौ हि त्रिभुवस्वामिनौ किल । कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९ ॥
उचितं न सुरश्रेष्ठौ विवाहकरणं मम । तपोरतविरक्तस्य सदा विदितयोगिनः ॥ ३० ॥ यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरञ्जनः । अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१ ॥ अविकारी ह्यभोगी च सदाशुचिरमङ्गलः । तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२ ॥ केवलं योगलग्नस्य ममानन्दःसदास्ति वै । ज्ञानहीनस्तु पुरुषो मनुते बहुकामकम् ॥ ३३ ॥ विवाहकरणं लोके विज्ञेयं परबन्धनम् । तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४ ॥ न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिन्तनात् । तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५ ॥ मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये । करिष्यामि विवाहं वै भक्तवश्यः सदा ह्यहम् ॥ ३६ ॥ परन्तु यादृशीं कान्तां ग्रहीष्यामि तथापणम् । तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७ ॥ या मे तेजः समर्था हि ग्रहीतुं स्याद्विभागशः । तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८ ॥ योगयुक्ते मयि तथा योगिन्येव भविष्यति । कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९ ॥ यमक्षरं वेदविदो निगदन्ति मनीषिणः । ज्योतीरूपं शिवं ते च चिन्तयिष्ये सनातनम् ॥ ४० ॥ तच्चिन्तायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् । तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१ ॥ त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः । अंशभूता महाभागा योग्यं तदनुचिन्तनम् ॥ ४२ ॥ तच्चिन्तया विनोद्वाहं स्थास्यामि कमलासन । तस्माज्जायां प्रादिशं त्वं मत्कर्मानुगतां सदा ॥ ४३ ॥ तत्राप्येकं पणं मे त्वं वृणु ब्रह्मांश्च मां प्रति । अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४ ॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वाहं स विष्णुर्हरस्य च । सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५ ॥ शृणु नाथ महेशान मार्गिता यादृशी त्वया । निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६ ॥ उमा सा भिन्नरूपेण सञ्जाता कार्यसाधिनी । सरस्वती तथा लक्ष्मी द्विधा रूपा पुरा प्रभो ॥ ४७ ॥ पाद्मा कान्ताऽभवद्विष्णोस्तथा मम सरस्वती । तृतीयरूपा सा नोऽभूल्लोककार्यहितैषिणी ॥ ४८ ॥ दक्षस्य तनया याऽभूत्सती नाम्ना तु सा विभो । सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९ ॥ सा तपस्यति देवेश त्वदर्थं हि दृढव्रता । त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ ५० ॥ दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर । तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१ ॥ हरेर्मम च देवानामियं वाञ्छास्ति शङ्कर । परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२ ॥ मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् । सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ॥ ५३ ॥ अथवास्मद्वचः शेषे वदन्तं मधुसूदनः । लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४ ॥ विष्णुरुवाच देवदेव महादेव करुणाकर शङ्कर । यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५ ॥ तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि । सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्य ताम् ॥ ५६ ॥ ब्रह्मोवाच इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः । तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७ ॥ ततस्त्वावां च सम्प्राप्य चाज्ञां स मुनिभिः सुरैः । अगच्छाव स्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८ ॥ इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुब्रह्मकृतशिवप्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥ श्रीगौरीशंकरार्पणमस्तु |