॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

पञ्चदशोऽध्यायः ॥

नन्दाव्रतविधानं शिवस्तुतिकथनञ्च


ब्रह्मोवाच
अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीमहम् ।
त्वया सह मुनेऽद्राक्षं सारभूतां त्रिलोकके ॥ १ ॥
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।
प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २ ॥
प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ।
स्थितोहं नारद त्वं च विनतामहमागदम् ॥ ३ ॥
त्वामेव यः कामयते यन्तु कामयसे सति ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४ ॥
यो नान्या जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ॥ ५ ॥
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६ ॥
दक्षोऽभवच्च सुप्रीतस्तदाकर्ण्य गतज्वरः ।
आददे तनयां स्वां तां मत्वा हि परमेश्वरीम् ॥ ७ ॥
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।
जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८ ॥
बाल्यं व्यतीत्य स्म प्राप्य किञ्चिद्यौवनतां सती ।
अतीव तपसाङ्‌गेन सर्वाङ्‌गेषु मनोहरा ॥ ९ ॥
दक्षस्तां वीक्ष्य लोकेशः प्रोद्‌भिन्नान्तर्वयः स्थिताम् ।
चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ॥ १ ० ॥
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।
पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागता ॥ ११ ॥
पप्रच्छाज्ञां तपोहेतोः शङ्‌करस्य विशालधीः ।
मातुः शिवाय वीरिण्याः सा सती परमेश्वरी ॥ १२ ॥
ततः सती महेशानं पतिं प्राप्तुं दृढव्रता ।
सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १ ३ ॥
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।
गुडौदनैः सलवणैर्हरं नत्वा निनाय तम् ॥ १४ ॥
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।
समाकीर्णैः समाराध्य सस्मार परमेश्वरम् ॥ १५ ॥
मार्गशीर्षेऽसिताष्टम्यां सतिलैः सयवौदनैः ।
पूजयित्वा हरं काली निनाय दिवसान् सती ॥ १६ ॥
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।
अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७ ॥
माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरेऽकरोच्छङ्‌करपूजनम् ॥ १८ ॥
तपस्यसितभूतायां कृत्वा जागरणं निशि ।
विशेषतः समानर्च शैलूषैः सर्वयामसु ॥ १९ ॥
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।
अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम् ॥ २० ॥
माघशुक्लतृतीयायां तिलाहारयवौदनैः ।
पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ॥ २१ ॥
ज्येष्ठस्य पूर्णिमायां वै रात्रै सम्पूज्य शङ्‌करम् ।
वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२ ॥
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा ।
बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तथा ॥ २३ ॥
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४ ॥
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।
सम्पूज्य च चतुर्दश्यां चकार जलभोजनम् ॥ २५ ॥
नानाविधैः फलैः पुष्पैः सस्यैस्तत्कालसम्भवैः ।
चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६ ॥
सर्वमासे सर्वदिने शिवार्चनरता सती ।
दृढव्रताऽभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७ ॥
इत्थं नन्दाव्रतं कृत्स्नं समाप्य सुसमाहिता ।
दध्यौ शिवं सती प्रेम्णा निश्चलाऽभूदनन्यधीः ॥ २८ ॥
एतस्मिन्नन्तरे देवा मुनयश्चाखिला मुने ।
विष्णुना च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ २९ ॥
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ।
शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ ३० ॥
चक्रुः सर्वे सुराः सत्यै मुदा साञ्जलयो नतिम् ।
मुनयश्च नतस्कन्धा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१ ॥
अथ सर्वे सुप्रसन्नाः विष्ण्वाद्याश्च सुरर्षयः ।
प्रशशंसुस्तपस्तस्याः सत्यास्तस्मात्सविस्मयाः ॥ ३२ ॥
ततः प्रणम्य तां देवीं पुनस्ते मुनयः सुराः ।
जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३ ॥
सावित्री सहितश्चाहं सह लक्ष्म्या मुदान्वितः ।
वासुदेवोपि भगवाञ्जगामाथ हरान्तिकम् ॥ ३४ ॥
गत्वा तत्र प्रभुं दृष्ट्‍वा सुप्रणम्य सुसम्भ्रमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५ ॥
देवा ऊचुः
नमो भगवते तुभ्यं यत एतच्चराचरम् ।
पुरुषाय महेशाय परेशाय महात्मने ॥ ३६ ॥
आदिबीजाय सर्वेषां चिद्‌रूपाय पराय च ।
ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७ ॥
य इदं प्रतिपच्येदं येनेदं विचकास्ति हि ।
यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८ ॥
योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।
ईक्षते यः स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९ ॥
अविद्धदृक् परः साक्षी सर्वात्माऽनेकरूपधृक् ।
आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ ४० ॥
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।
कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१ ॥
दिदृक्षवो यस्य पदं मुक्तसङ्‌गाः सुसाधवः ।
चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२ ॥
मज्जन्मादि विकारा नो विद्यन्ते केऽपि दुःखदा ।
तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३ ॥
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।
नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४ ॥
अरूपायोरुरूपाय परायानन्तशक्तये ।
त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५ ॥
नम आत्मप्रदीपाय निर्वाणसुखसम्पदे ।
ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६ ॥
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७ ॥
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८ ॥
सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९ ॥
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।
सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ॥ ५० ॥
त्रिलोककारणायाथापवर्गाय नमो नमः ।
अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१ ॥
सर्वाम्नायागमानां चोदधये परमेष्ठिने ।
परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२ ॥
नमो गुणारणिच्छन्नचिदूष्माथ महेश्वर ।
मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३ ॥
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।
स्वप्रकाशाय नित्यायाव्ययायाजस्रसंविदे ॥ ५४ ॥
प्रत्यग्द्रष्टेऽविकाराय परमैश्वर्य धारिणे ।
यं भजन्ति चतुर्वर्गं कामयन्तीष्टसद्‌गतिम् ॥
सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५ ॥
एकान्ततः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न ।
केवलं चरितं ते ते गायन्ति परमङ्‌गलम् ॥ ५६ ॥
अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ।
अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७ ॥
अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् ।
अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८ ॥
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९ ॥
यथार्चिषोऽग्नेः सवितुर्यान्ति निर्यान्ति वाऽसकृत् ।
गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ ६० ॥
न त्वं देवोऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ।
न स्त्री न षण्ढो न पुमानकुर्याः सदसन्न किञ्चन ॥ ६१ ॥
निषेधशेषःसर्वं त्वं विश्वकृद्विश्वपालकः ।
विश्वात्मा विश्वलयकृत् प्रणताः स्मस्तमीश्वरम् ॥ ६२ ॥
योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः ।
योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३ ॥
नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।
नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४ ॥
कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने ।
भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५ ॥
यच्छक्त्याऽहं धियात्मानं हन्त वेद न मूढधी ।
तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६ ॥
ब्रह्मोवाच
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकाः सुराः ।
तूष्णीमासन्प्रभोरग्रे सद्‌भक्तिनतकन्धराः ॥ ६७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP