|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
चतुर्दशोऽध्यायः ॥
सतीजन्म तस्या बाललीला च
ब्रह्मोवाच
एतस्मिन्नन्तरे देवमुने लोकपितामह । तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १ ॥ असान्त्वयमहं दक्षं पूर्ववत्सुविचक्षणः । अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २ ॥ स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् । समाश्वास्य समादाय प्रत्यपद्यं शुभावहम् ॥ ३ ॥ ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् । जनयामास दुहितृः सुभगाः षष्टिसंमिताः ॥ ४ ॥ तासां विवाहं कृतवान् धर्मादिभिरतन्द्रितः । तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५ ॥ ददौ दश सुता दक्षो धर्माय विधिवन्मुने । त्रयोदश कश्यपाय मुनये त्रिनवेन्दवे ॥ ६ ॥ भूताङ्गिरः कृशाश्वेभ्यो द्वेद्वे पुत्र्यौ प्रदत्तवान् । तार्क्ष्याय चापराः कन्या प्रसूतिप्रसवैर्यतः ॥ ७ ॥ त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् । ८ ॥ केचिद्वदन्ति तां ज्येष्ठां मध्यमां चापरे शिवाम् । सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत् ॥ ९ ॥ अनन्तरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः । सुप्रीत्या तां दधौ दक्षो मनसा जगदम्बिकाम् ॥ १० ॥ अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः । भूयो भूयो नमस्कृत्य साञ्जलिर्विनयान्वितः ॥ ११ ॥ सन्तुष्टा सा तदा देवी विचारं मनसीति च । चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२ ॥ अथ सोवास मनसि दक्षस्य जगदम्बिका । विललास तदातीव स दक्षो मुनिसत्तम ॥ १३ ॥ सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा । दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४ ॥ आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै । १५ ॥ विरेजे वीरिणी तात हृष्टचित्ताधिका च सा । शिवावासप्रभावात्तु महामङ्गल रूपिणी ॥ १५ ॥ कुलस्य सम्प्रदायैश्च श्रुतेश्चित्तसमुन्नतेः । व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७ ॥ उत्सवोऽतीव सञ्जातस्तदा तेषु च कर्मसु । वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८ ॥ अथ तस्मिन्नवसरे सर्वे हर्यादयः सुराः । ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥ १९ ॥ तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् । लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ २० ॥ कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः । दक्षप्रजापतेश्चैव वीरिण्याःस्वगृहं ययुः ॥ २१ ॥ गतेषु नवमासेषु कारयित्वा च लौकिकीम् । गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥ आविर्बभूव पुरतो मातुः सद्यस्तदा मुने । मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३ ॥ तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः । सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४ ॥ तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् । दिशः शान्ता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५ ॥ अवादयन्त त्रिदशाः शुभवाद्यानि खे गताः । जज्ज्वलुश्चाग्नयः शान्ताः सर्वमासीत्सुमङ्गलम् ॥ २६ ॥ वीरिणीसम्भवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् । नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥ दक्ष उवाच महेशानि नमस्तुभ्यं जगदम्बे सनातनि । कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८ ॥ शिवा शान्ता महामाया योगनिद्रा जगन्मयी । या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९ ॥ यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३० ॥ यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१ ॥
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२ ॥ रजःसत्त्वतमोरूपां सर्वकार्यकरीं सदा । त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३ ॥ यस्त्वां विचिन्तयेद्देवि विद्याविद्यात्मिकां पराम् । तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥ ३४ ॥ यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् । तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५ ॥ ये स्तुवन्ति जगन्मातर्भवानीमम्बिकेति च । जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६ ॥ ब्रह्मोवाच इति स्तुता जगन्माता शिवा दक्षेण धीमता । तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७ ॥ सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् । नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८ ॥ देव्युवाच अहमाराधिता पूर्वं सुतार्थं ते प्रजापते । ईप्सितं तव सिद्धं तु तपो धारय सम्प्रति ॥ ३९ ॥ ब्रह्मोवाच एवमुक्त्वा तदा देवी दक्षं च निजमायया । आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ॥ ४० ॥ अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससम्भ्रमाः । आगतास्तत्र सुप्रीत्या दास्योपि च ससम्भ्रमाः ॥ ४१ ॥ दृष्ट्वाऽसिक्नी सुतारूपं ननन्दुः सर्वयोषितः । सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२ ॥ उत्सवश्च महानासीद्गानवाद्यपुरःसरम् । दक्षोऽसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३ ॥ दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा । दानं ददौ द्विजातिभ्योऽन्येभ्यश्च द्रविणं तथा ॥ ४४ ॥ बभूव सर्वतो गानं नर्तनं च यथोचितम् । नेदुर्वाद्यानि बहुशः सुमङ्गलपुरःसरम् ॥ ४५ ॥ अथ हर्यादयो देवाः सर्वे सानुचरास्तदा । मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६ ॥ दृष्ट्वा दक्षसुतामम्बां जगतः परमेश्वरीम् । नेमुः सविनयाःसर्वे तुष्टुवुश्च शुभैः स्तवैः ॥ ४७ ॥ ऊचुः सर्वे प्रमुदिता गिरं जयजयात्मिकाम् । प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८ ॥ तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया । प्रशस्तायाः सर्वगुणसत्त्वादपि मुदान्वितः ॥ ४९ ॥ नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः । महामङ्गलदान्येव दुःखघ्नानि विशेषतः ॥ ५० ॥ दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि । मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१ ॥ अथ विष्ण्वादयःसर्वे सुप्रशस्याजनन्दनम् । प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२ ॥ अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् । शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३ ॥ पालिता साथ वीरिण्या दक्षेण च महात्मना । ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४ ॥ तस्यां तु सद्गुणाः सर्वे विविशुर्द्विजसत्तम । शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ॥ ५५ ॥ आचरन्निजभावेन सखीमध्यगता यदा । तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६ ॥ यदा जगौ सुगीतानि शिवा बाल्योचितानि सा । तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७ ॥ ववृधेतीव दम्पत्योः प्रत्यहं करुणाऽतुला । तस्या बाल्येऽपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८ ॥ सर्वबालगुणाक्रान्तां सदा स्वालयकारिणीम् । तोषयामास पितरौ नित्यं नित्यं मुहुर्मुहुः ॥ ५९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे सतीजन्मबाललीलावर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीगौरीशंकरार्पणमस्तु |