|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
त्रयोदशोऽध्यायः ॥
दक्षसृष्टौ नारदशापः
नारद उवाच
ब्रह्मन्विधे महाप्राज्ञ वद नो वदतां वर । दक्षे गृहं गते प्रीत्या किमभूत्तदनन्तरम् ॥ १ ॥ ब्रह्मोवाच दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः । सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २ ॥ तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३ ॥ दक्ष उवाच ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो । मया विरचिताः सर्वास्तावत्यो हि स्थिताः खलु ॥ ४ ॥ किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना । तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५ ॥ ब्रह्मोवाच दक्ष प्रजापते तात शृणु मे परमं वचः । तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६ ॥ या च पञ्चजनस्याङ्ग सुता रम्या प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७ ॥ वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८ ॥ ततःसमुत्पादयितुं प्रजा मैथुनधर्मतः । उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९ ॥ अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः । हर्यश्वसञ्ज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ १० ॥ अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने । पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११ ॥ पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् । प्रतीचीं तपसे तात सर्वे दाक्षायणाः सुताः ॥ १२ ॥ तत्र नारायणसरस्तीर्थं परमपावनम् । सङ्गमो यत्र सञ्जातो दिव्यसिन्धुसमुद्रयोः ॥ १३ ॥ तदपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् । धर्मे पारमहंसे च विनिर्धूतमलाशयाः ॥ १४ ॥ प्रजाविवृद्धये ते वै तेपिरे तत्र सत्तमाः । दाक्षायणा दृढात्मानः पित्रादेशेन यन्त्रिता ॥ १५ ॥ त्वं च तान् नारद ज्ञात्वा तपतः सृष्टिहेतवे । भूरीणो हार्दमाज्ञाय ह्यगमस्तत्र मापतेः ॥ १६ ॥ अदृष्ट्वा तं भवः सृष्टिं कथं कर्तुं समुद्यताः । हर्यश्वा दक्षतनया इत्यवोचंस्तमादरात् ॥ १७ ॥ तं निशम्याथ हर्यश्वास्ते त्वदुक्तमतन्द्रिताः । औत्पत्तिकधियःसर्वे स्वयं विममृशुर्भृशम् ॥ १८ ॥ सुशास्त्रजनकादेशं यो न वेद निवर्तकम् । स कथं गुणविश्रम्भी कर्तुं सर्गमुपक्रमेत् ॥ १९ ॥ इति निश्चित्य ते पुत्राः सुधियश्चैकचेतसः । प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम् ॥ २० ॥
नारद त्वं मनः शम्भोर्लोङ्कानन्यचरो मुने । निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१ ॥ काले गते बहुतरे मम पुत्रः प्रजापतिः । नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२ ॥ मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् । शुशोच बहुशो दक्षः शिवमायाविमोहितः ॥ २३ ॥ अहमागत्य सुप्रीत्या सान्त्वयं दक्षमात्मजम् । शान्तिभावं प्रदर्श्यैव देवं प्रबलमित्युत ॥ २४ ॥ अथ दक्षः पञ्चजन्यां मया स परिसान्त्वितः । सबलाश्वाभिधान् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५ ॥ तेऽपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः । प्रजासर्गे यत्र सिद्धाःस्वपूर्वभ्रातरो ययुः ॥ २६ ॥ तदपस्पर्शनादेव नष्टाघा विमलाशयाः । तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ २७ ॥ प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारदः । पूर्ववच्चागदद् वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८ ॥ भ्रातः पन्थानमादिश्य त्वं मुने मोघदर्शन । अयांश्चोर्ध्वगतिं तेऽपि भ्रातृमार्गं ययुः सुताः ॥ २९ ॥ उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः । विस्मितोऽभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ ३० ॥ पूर्ववत् त्वत्कृतं दक्षः शुश्राव चकितो भृशम् । पुत्रनाशं शुशोचाति पुत्रशोकविमूर्छितः ॥ ३१ ॥ चुक्रोध तुभ्यं दक्षोऽसौ दुष्टोऽयमिति चाब्रवीत् । आगतस्तत्र दैवात् त्वमनुग्रहकरस्तदा ॥ ३२ ॥ शोकाविष्टः स दक्षो हि रोषविस्फुरिताधरः । उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३ ॥ दक्ष उवाच किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिङ्गतः । भिक्षोमार्गोऽर्भकानां वै दर्शितः साधुकारि नो ॥ ३४ ॥ ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः । विघातः श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५ ॥ ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान् । मातरं पितरं त्यक्त्वा मोक्षमिच्छन् व्रजत्यधः ॥ ३६ ॥ निर्दयस्त्वं सुनिर्लज्जः शिशुधीभिद्यशोऽपहा । हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७ ॥ मुहुर्मुहुरभद्रं त्वमचरो मेऽधमाऽधम । विभवेद्भ्रमतस्तेऽतः पदं लोकेषु न स्थिरम् ॥ ३८ ॥ शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम् । बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९ ॥ शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः । एष एव ब्रह्म साधो सहते सोपि च स्वयम् ॥ ४० ॥ इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ श्रीगौरीशंकरार्पणमस्तु |