|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
दशमोऽध्यायः ॥
ब्रह्मविष्णुसंवादः
नारद उवाच
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः । कथितं सुचरित्रं ते शङ्करस्य परात्मनः ॥ १ ॥ निजाश्रमे गते कामे सगणे सरतौ ततः । किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २ ॥ ब्रह्मोवाच शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः । यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३ ॥ निजाश्रमं गते कामे परिवारसमन्विते । यद्बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४ ॥ नष्टोभून्नारद मदो विस्मयोऽभूच्च मे हृदि । निरानन्दस्य च मुनेऽपूर्णो निजमनोरथे ॥ ५ ॥ अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् । निर्विकारो जितात्मा स शङ्करो योगतत्परः ॥ ६ ॥ इत्थं विचार्य बहुधा तदाऽहं विमदो मुने । हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७ ॥ अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः । तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा ॥ ८ ॥ चतुर्भुजोऽरविन्दाक्षः शरपद्मगदाधरः । लसत्पीतपटः श्यामतनुर्भक्तप्रियो हरिः ॥ ९ ॥ तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः । अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ॥ १० ॥ हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् । दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११ ॥ हरिरुवाच विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक । किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२ ॥ किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना । शमयिष्यामि तत्सर्वं नात्र कार्य्या विचारणा ॥ १३ ॥ ब्रह्मोवाच इति विष्णोर्वचः श्रुत्वा किञ्चिदुच्छवसिताननः । अवोचं वचनं विष्णुं प्रणम्य सुकृताञ्जलिः ॥ १४ ॥ ब्रह्मोवाच देवदेव रमानाथ मद्वार्तां शृणु मानद । श्रुत्वा च करुणां कृत्वा हर दुःखं शमावह ॥ १५ ॥ रुद्रसंमोहनार्थं हि कामं प्रेषितवानहम् । परिवारयुतं विष्णो समारमधुबान्धवम् ॥ १६ ॥ चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते । नाभवत्तस्य संमोहो योगिनःसमदर्शिनः ॥ १७ ॥ इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः । विज्ञाताखिलदो ज्ञानी शिवतत्त्वविशारदः ॥ १८ ॥ विष्णुरुवाच कस्माद्धेतोरिति मतिस्तव जाता पितामह । सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९ ॥ ब्रह्मोवाच शृणु तात चरित्रं तत् तव माया विमोहिनी । तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ २० ॥ ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः । आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१ ॥ सृष्टिप्रारम्भसमये दश पुत्रा हि जज्ञिरे । दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२ ॥ धर्मो वक्षःस्थलात्कामो मनसोन्योऽपि देहतः । जातास्तत्र सुतां दृष्ट्वा मम मोहोऽभवद्धरे ॥ २३ ॥ कुदृष्ट्या तां समद्राक्षं तव मायाविमोहितः । तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४ ॥ धिक्कारं कृतवान् सर्वान्निजं मत्वा परः प्रभुः । ज्ञानिनं योगिनं नाथ भोगिनं विजितेन्द्रियम् ॥ २५ ॥ पुत्रो भूत्वा मम हरेऽनिन्दं मां च समक्षतः । इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६ ॥ गृह्णीयाद्यदि पत्नीं स स्वां सुखी नष्टदुःखधी । एतदर्थं समायातुश्शरणं तव केशव ॥ २७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः । विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ॥ २८ ॥ विष्णुरुवाच विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् । सर्वं वेदाङ्गमादीनां संमतं परमार्थतः ॥ २९ ॥ महामूढमतिश्चाद्य सञ्जातोसि कथं विधे । वेदवक्तापि निखिललोककर्त्ता हि दुर्मतिः ॥ ३० ॥
जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् । किं ब्रुवन्त्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ॥ ३१ ॥ रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् । वेदवक्तापि विज्ञानं विस्मृतं तेऽखिलं विधे ॥ ३२ ॥ शङ्करं सुरसामान्यं मत्वा द्रोहं करोषि हि । सुबुद्धिर्विगता तेऽद्याविर्भूता कुमतिस्तथा ॥ ३३ ॥ तत्त्वसिद्धान्तमाख्यातं शृणु सद्बुद्धिमावह । यथार्थं निगमाख्यातं निर्णीय भवकारकम् ॥ ३४ ॥ शिवः सर्वस्वकर्ता हि भर्ता हर्ता परात्परः । परब्रह्म परेशश्च निर्गुणो नित्य एव च ॥ ३५ ॥ अनिर्देश्यो निर्विकारः परमात्माऽद्वयोऽच्युतः । अनन्तोऽन्तकरः स्वामी व्यापकः परमेश्वरः ॥ ३६ ॥ सृष्टिस्थितिविनाशानां कर्त्ता त्रिगुणभाग्विभुः । ब्रह्मविष्णुमहेशाख्यो रजःसत्त्व तमःपरः ॥ ३७ ॥ मायाभिन्नो निरीहश्च मायो मायाविशारदः । सगुणोपि स्वतन्त्रश्च निजानन्दोऽविकल्पकः ॥ ३८ ॥ आत्मारामो हि निर्द्वन्द्वो भक्ताधीनःसुविग्रहः । योगी योगरतो नित्यं योगमार्गप्रदर्शकः ॥ ३९ ॥ गर्वापहारी लोकेशः सर्वदा दीनवत्सलः । एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हितम् ॥ ४० ॥ ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै । भज सर्वात्मना शम्भुं सन्तुष्टः शं विधास्यति ॥ ४१ ॥ गृह्णीयाच्छङ्करः पत्नीं विचारो हृदि चेत्तव । शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ॥ ४२ ॥ कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि । सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ॥ ४३ ॥ कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा । कस्यचित्तनया लोके सा तत्पत्नी भवेद्ध्रुवम् ॥ ४४ ॥ दक्षमाज्ञापय ब्रह्मंस्तपः कुर्य्यात्प्रयत्नतः । तामुत्पादयितुं पत्नीं शिवार्थं भक्तितः स्वतः ॥ ४५ ॥ भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ । स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ॥ ४६ ॥ ब्रह्मोवाच इत्युक्त्वा तत्क्षणं स्वेशं शिवं सस्मार स्वप्रभुम् । कृपया तस्य सम्प्राप्य ज्ञानमूचे च मां ततः ॥ ४७ ॥ विष्णुरुवाच विधे स्मर पुरोक्तं यद्वचनं शङ्करेण च । प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ॥ ४८ ॥ विस्मृतं तव तत्सर्वं धन्या या शाम्भवी परा । तया संमोहितं सर्वं दुर्विज्ञेया शिवं विना ॥ ४९ ॥ यदा हि सगुणो जातः स्वेच्छया निर्गुणश्शिवः । मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ॥ ५० ॥ उपादिदेश त्वां शम्भुः सृष्टिकार्यं तदा प्रभुः । तत्पालनं च मां ब्रह्मन् सोमः सूतिकरोऽव्ययः ॥ ५१ ॥ तदा वां वेश्म सम्प्राप्तौ साञ्जली नतमस्तकौ । भव त्वमसि सर्वेशोऽवतारी गुणरूपधृक् ॥ ५२ ॥ इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः । दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ॥ ५३ ॥ मद्रूपं परमं विष्णो ईदृशं ह्यङ्गतो विधेः । प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४ ॥ पूर्णरूपः स मे पूज्यः सदा वां सर्वकामकृत् । लयकर्त्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ॥ ५५ ॥ त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः । उमाया अपि रूपाणि भविष्यन्ति त्रिधा सुतौ ॥ ५६ ॥ लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती । पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति ॥ ५७ ॥ विष्णुरुवाच इत्युक्त्वान्तर्हितो जातः कृपां कृत्वा महेश्वरः । अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ॥ ५८ ॥ समयं प्राप्य सस्त्रीकावावां ब्रह्मन्सशङ्करः । अवतीर्णःस्वयं रुद्रनामा कैलाससंश्रयः ॥ ५९ ॥ अवतीर्णा शिवाऽभूत्सा सतीनाम प्रजेश्वर । तदुत्पादनहेतोर्हि यत्नोऽतः कार्य एव वै ॥ ६० ॥ इत्युक्त्वान्तर्दधे विष्णुः कृत्वा स करुणां पराम् । प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः ॥ ६१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः ॥ १० ॥ श्रीगौरीशंकरार्पणमस्तु |