॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकादशोऽध्यायः ॥

दुर्गास्तुतिर्ब्रह्मवरप्राप्तिश्च


नारद उवाच
ब्रह्मंस्तात महाप्राज्ञ वद नो वदतां वर ।
गते विष्णौ किमभवदकार्षीत्किं विधे भवान् ॥ १ ॥
ब्रह्मोवाच
विप्रनन्दनवर्य त्वं सावधानतया शृणु ।
विष्णौ गते भगवति यदकार्षमहं खलु ॥ २ ॥
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।
स्तौमि देवीं जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३ ॥
सर्वत्र व्यापिनीं नित्यां निरालम्बां निराकुलाम् ।
त्रिदेवजननीं वन्दे स्थूलस्थूलाभरूपिणीम् ॥ ४ ॥
त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५ ॥
एवं संस्तूयमाना सा योगनिद्रा मया मुने ।
आविर्बभूव प्रत्यक्षं देवर्षे चण्डिका मम ॥ ६ ॥
स्निग्धाञ्जनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।
सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७ ॥
शरदिन्द्वानना शुभ्रचन्द्रभाला त्रिलोचना ।
सर्वावयवरम्या च कमलाङ्‌घ्रिनखद्युतिः ॥ ८ ॥
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।
भक्त्या विनततुङ्‌गांशः प्रास्तवं सुप्रणम्य वै ॥ ९ ॥
ब्रह्मोवाच
नमो नमस्ते जगतःप्रवृत्ति-
     निवृतिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती सुशक्तिः
     सनातनी सर्वविमोहनीति ॥ १० ॥
या श्रीः सदा केशवमूर्तिमाला
     विश्वम्भरा या सकलं बिभर्ति ।
या त्वं पुरा सृष्टिकरी महेशी
     हर्त्री त्रिलोकस्य परा गुणेभ्य ॥ ११ ॥
या योगिनां वै महिता मनोज्ञा
     सा त्वं नमस्ते परमाणुसारे ।
यमादिपूते हृदि योगिनां या
     या योगिनां ध्यानपथे प्रतीता ॥ १२ ॥
प्रकाशशुद्ध्यादियुता विरागा
     सा त्वं हि विद्या विविधावलम्बा ।
कूटस्थमव्यक्तमनन्तरूपं
     त्वं बिभ्रती कालमयी जगन्ति ॥ १३ ॥
विकारबीजं प्रकरोपि नित्यं
     गुणान्विता सर्वजनेषु नूनम् ।
त्वं वै गुणानां च शिवे त्रयाणां
     निदानभूता च ततः पराऽसि ॥ १४ ॥
सत्वं रजस्तामस इत्यमीषां
     विकारहीना सभुवस्तुरीया ।
सा त्वं गुणानां जगदेकहेतुं
     ब्रह्मान्तरारम्भसि चात्सि पासि ॥ १५ ॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय सततं शिवपत्नि नमोस्तु ते ॥ १६ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ।
प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७ ॥
देव्युवाच
ब्रह्मन् किमर्थं भवता स्तुताहमवधारय ।
उच्यतां यदि धृष्योऽसि तच्छीघ्रं पुरतो मम ॥ १८ ॥
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ।
तस्मात्त्वं वाञ्छितं ब्रूहि या करिष्यामि भाविता ॥ १९ ॥
ब्रह्मोवाच
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ।
मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ २० ॥
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ।
शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१ ॥
तपश्चरति भूतेश एक एवाविकल्पकः ।
अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२ ॥
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ।
त्वदृते तस्य नो काचिद्‌भविष्यति मनोहरा ॥ २३ ॥
तस्मात् त्वमेव रूपेण भवस्व भवमोहिनी ।
सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव ॥ २४ ॥
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् ।
आमोदयसि विश्वस्य हितायैतं तथा कुरु ॥ २५ ॥
कान्ताभिलाषमात्रं मे दृष्ट्‍वाऽनिन्दद्वृषध्वजः ।
स कथं वनितां देवी स्वेच्छया सङ्‌ग्रहीष्यति ॥ २६ ॥
हरे गृहीतकान्ते तु कथं सृष्टिः शुभावहा ।
आद्यन्तमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७ ॥
इति चिन्तापरो नाहं त्वदन्यं शरणं हितम् ।
कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे ॥ २८ ॥
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः ।
न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ॥ २९ ॥
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ।
तत्पत्नी भव मद्‌भक्त्या योगिनं मोहयेश्वरम् ॥ ३० ॥
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः ।
त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१ ॥
इत्याकर्ण्य वचः सा चिन्तामाप शिवा तदा ।
उवाच च स्वमनसि विस्मिता जगदम्बिका ॥ ३२ ॥
देव्युवाच
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ।
महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३ ॥
विधेश्चेतसि सञ्जातो महामोहोऽसुखावहः ।
यद्वरं निर्विकारं तं संमोहयितुमिच्छति ॥ ३४ ॥
हरमोहवरं मत्तः समिच्छति विधिस्त्वयम् ।
को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५ ॥
परब्रह्माख्यो यः शम्भुर्निर्गुणो निर्विकारवान् ।
तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६ ॥
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ।
भक्तोद्धारणहेतोर्हि स्वतन्त्रः परमेश्वरः ॥ ३७ ॥
हरेर्विधेश्च स स्वामी शिवान्यूनो न कर्हिचित् ।
योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८ ॥
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ।
इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९ ॥
न दद्याच्चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ।
किं कुर्यां येन न विभुः क्रुद्धः स्यान्मे महेश्वरः ॥ ४० ॥
ब्रह्मो वाच
विचार्येत्थं महेशं तं सस्मार मनसा शिवा ।
प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१ ॥
दुर्गोवाच
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।
मदृते मोहयित्रीह शङ्‌करस्य न विद्यते ॥ ४२ ॥
हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ।
भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३ ॥
ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ।
त्वद्वाक्याद्‌द्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४ ॥
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।
हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५ ॥
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।
भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथाप्रिया ॥ ४६ ॥
यथा सोऽपि मयैवेय वशवर्ती सदा भवेत् ।
तथा यत्नं करिष्यामि तस्यैव कृपया विधे ॥ ४७ ॥
उत्पन्ना दक्षजायायां सतीरूपेण शङ्‌करम् ।
अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८ ॥
यथान्यजन्तुरवनौ वर्तते वनितावशे ।
मद्‌भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९ ॥
ब्रह्मोवाच
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका ।
वीक्ष्यमाणा मया तात तत्रैवान्तर्दधे ततः ॥ ५० ॥
तस्यामन्तर्हितायां तु सोऽहं लोकपितामहः ।
अगमं यत्र स्वसुतास्तेभ्यःसर्वमवर्णयम् ॥ ५१ ॥
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे
दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP