|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
नवमोऽध्यायः ॥
कामप्रभाव मारगणोत्पत्तिश्च
ब्रह्मोवाच
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे । चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १ ॥ गत्वा तत्र महावीरो मन्मथो मोहकारकः । स्वप्रभावं ततानाशु मोहयामास प्राणिनः ॥ २ ॥ वसन्तोऽपि प्रभावं स्वं चकार हरमोहनम् । सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३ ॥ विविधान्कृतवान्यत्नान् रत्या सह मनोभवः । जीवाःसर्वे वशं याताः सगणेशश्शिवो न हि ॥ ४ ॥ समधोर्मदनस्यासन्प्रयासा निष्फला मुने । जगाम स मम स्थानं निवृत्त्य विमदस्तदा ॥ ५ ॥ कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा । उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६ ॥ काम उवाच ब्रह्मन् शम्भुर्मोहनीयो न वै योगपरायणः । न शक्तिर्मम नान्यस्य तस्य शम्भोर्हि मोहने ॥ ७ ॥ समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः । रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ॥ ८ ॥ शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने । प्रयासान्विविधांस्तात गदतस्तान्मुने मम ॥ ९ ॥ यदा समाधिमाश्रित्य स्थितः शम्भुर्नियन्त्रितः । तदा सुगन्धिवातेन शीतलेनातिवेगिना ॥ १० ॥ उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा । प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११ ॥ स्वसायकांस्तथा पञ्च समादाय शरासनम् । तस्याभितो भ्रमतस्तु मोहयंस्तद्गुणानहम् ॥ १२ ॥ मम प्रवेशमात्रेण सुवश्याः सर्वजन्तवः । अभवद्विकृतो नैव शङ्करः सगणः प्रभुः ॥ १३ ॥ यदा हिमवतः प्रस्थं स गतः प्रमथाऽधिपः । तत्रागतस्तदैवाहं सरतिः समधुर्विधे ॥ १४ ॥ यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् । कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ॥ १५ ॥ यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन । तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ १६ ॥ तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः । नानाभावानकार्षीच्च दाम्पत्यक्रममुत्तमम् ॥ १७ ॥ नीलकण्ठं महादेवं सगणं तत्पुरः स्थिताः । आकर्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८ ॥ मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् । विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९ ॥ नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः । सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ २० ॥ मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने । तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१ ॥ चम्पकान्केशरान्बालान्कारणान्पटलांस्तथा । नागकेशरपुन्नागान्किंशुकान्केतकान्वरान् ॥ २२ ॥ मालतीमल्लिकापर्णभारान् कुरबकांस्तथा । उत्फुल्लयन्ति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३ ॥ सरांस्युत्फुल्लपद्मानि बीजयन् मलयानिलैः । यत्नात्सुगन्धीन्यकरोदतीव गिरिशाश्रमे ॥ २४ ॥ लताःसर्वाः सुमनसो धत्तूराङ्कुरसञ्चयाः । वृक्षाङ्कं चिरभावेन वेष्टयन्ति स्म तत्र च ॥ २५ ॥ तान्वृक्षांश्च सुपुष्पौघास्तैः सुगन्धिसमीरणैः । दृष्ट्वा कामवशं याता मुनयोऽपि परे किमु ॥ २६ ॥ एवं सत्यपि शम्भोर्न दृष्टं मोहस्य कारणम् । भावमात्रमकार्षीन्नो कोपो मय्यपि शङ्करः ॥ २७ ॥ इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् । विमुखोऽहं शम्भुमोहान्नियतं ते वदाम्यहम् ॥ २८ ॥ तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे । शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९ ॥ ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् । शृङ्गिणं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ ३० ॥ ब्रह्मोवाच मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः । विवक्षुरपि नावोचं चिन्ताविष्टोऽभवं तदा ॥ ३१ ॥ मोहनेऽहं समर्थो न हरस्येति मनोभवः । वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२ ॥ निश्श्वासमारुता मे हि नाना रूपा महाबलाः । जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः ॥ ३३ ॥
अवादयन्त ते सर्वे नानावाद्यानसङ्ख्यकान् । पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४ ॥ अथ ते मम निःश्वाससम्भवाश्च महागणाः । मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५ ॥ तेषां तु वदतां तत्र मारयच्छेदयेति माम् । वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६ ॥ मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् । उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥ काम उवाच हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक । उत्पन्नाः क इमे वीरा विकराला भयङ्कराः ॥ ३८ ॥ किं कर्मैते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे । किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९ ॥ नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च । मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ ४० ॥ ब्रह्मोवाच इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः । तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१ ॥ ब्रह्मोवाच एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः । मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥ ४२ ॥ सदैव विघ्नं जन्तूनां करिष्यन्ति गणा इमे । विना निजार्चनं काम नाना कामरतात्मनाम् ॥ ४३ ॥ तवानुगमनं कर्म मुख्यमेषां मनोभव । सहायिनो भविष्यन्ति सदा तव न संशयः ॥ ४४ ॥ यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा । गन्तारस्तत्र तत्रैते सहायार्थं तदा तदा ॥ ४५ ॥ चित्तभ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् । ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यन्ति सर्वथा ॥ ४६ ॥ ब्रह्मोवाच इत्याकर्ण्य वचो मे हि सरतिः स मनोभवः । किञ्चित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७ ॥ श्रुत्वा तेपि गणाः सर्वे मदनं मां च सर्वतः । परिवार्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८ ॥ अथ ब्रह्मास्मरं प्रीत्याऽगदं मे कुरु शासनम् । एभिः सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९ ॥ मन आधाय यवाद्धि कुरु मारगणैः सह । मोहो भवेद्यथा शम्भोर्दारग्रहणहेतवे ॥ ५० ॥ इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः । देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१ ॥ काम उवाच मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः । तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२ ॥ तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि । गमिष्यामि पुनस्तत्र समारोहं त्वदाज्ञया ॥ ५३ ॥ मनो निश्चितमेतद्धि तन्मोहो न भविष्यति । भस्म कुर्यान्न मे देहमिति शङ्कास्ति मे विधे ॥ ५४ ॥ इत्युक्त्वा समधुः कामः सरतिः सभयस्तदा । ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ॥ ५५ ॥ पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा । बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६ ॥ उपायं स चकाराति तत्र मारगणोऽपि च । मोहो भवन्न वै शम्भोरपि कश्चित्परात्मनः ॥ ५७ ॥ निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा । आसीन्मारगणे गर्वोऽहर्षो मेऽपि पुरस्थितः ॥ ५८ ॥ कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः । स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९ ॥ कृतं पूर्वादधिकतः कर्म तन्मोहने विधे । नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ॥ ६० ॥ न दग्धा मे तनुश्चैव तत्र तेन दयालुना । कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ॥ ६१ ॥ चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मजः । परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२ ॥ ब्रह्मोवाच इत्युक्त्वा सपरीवारो ययौ कामः स्वमाश्रमम् । प्रणम्य मां स्मरन् शम्भुं गर्वदं दीनवत्सलम् ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे कामप्रभावमारगणोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥ श्रीगौरीशंकरार्पणमस्तु |