|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
अष्टमोऽध्यायः ॥
वसन्तस्वरूपवर्णनम्
सूत उवाच
इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः । प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः ॥ १ ॥ नारद उवाच ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते । धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः ॥ २ ॥ श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी । अरुन्धत्यास्तथा तस्याः स्वरूपायाः परे भवे ॥ ३ ॥ इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् । शिवस्य परपापघ्नं मङ्गलप्रदमुत्तमम् ॥ ४ ॥ गृहीतदारे कामे च दृष्टे तेषु गतेषु च । सन्ध्यायां किं तपस्तप्तुं गतायामभवत्ततः ॥ ५ ॥ सूत उवाच इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः । सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ६ ॥ ब्रह्मोवाच शृणु नारद विप्रेन्द्र तदेव चरितं शुभम् । शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः ॥ ७ ॥ अहं विमोहितस्तात यदैवान्तर्हितः पुरा । अचिन्तयं सदाहं तच्छम्भुवाक्यविषार्दितः ॥ ८ ॥ चिन्तयित्वा चिरं चित्ते शिवमायाविमोहितः । शिवे चेर्ष्यामकार्षं हि तच्छृणुष्व वदामि ते ॥ ९ ॥ अथाहमगमं तत्र यत्र दक्षादयः स्थिताः । सरतिं मदनं दृष्ट्वा समदोऽहं हि किञ्चन ॥ १० ॥ दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद । अवोचं वचनं सोहं शिवमायाविमोहितः ॥ ११ ॥ ब्रह्मोवाच हे दक्ष हे मरीच्याद्याः सुताः शृणुत मद्वचः । श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये ॥ १२ ॥ कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् । मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु ॥ १३ ॥ तेन दुःखाभितप्तोऽहं लभेऽहं शर्म न क्वचित् । यथा गृह्णातु कान्तां स स यत्नः कार्य एव हि ॥ १४ ॥ यथा गृह्णातु कान्तां स सुखी स्यां दुःखवर्जितः । दुर्लभः स तु कामो मे परं मन्ये विचारतः ॥ १५ ॥ कान्ताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् । मुनीनां पुरतः कस्मात्स कान्तां सङ्ग्रहीष्यति ॥ १६ ॥ का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनः स्थिता । योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति ॥ १७ ॥ मन्मथोऽपि समर्थो नो भविष्यत्यस्य मोहने । नितान्तयोगी रामाणां नामापि सहते न सः ॥ १८ ॥ परिग्रहं विना चैव हरेण कथयादिना । मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता ॥ १९ ॥ भुवि केचिद्भविष्यन्ति मायाबद्धा महासुराः । वध्याः केचिद्धरेर्नूनं केचिच्छम्भोरुपायतः ॥ २० ॥ संसारविमुखे शम्भौ तथैकान्तविरागिणि । अस्मादृते न कर्मान्यत् करिष्यति न संशयः ॥ २१ ॥ इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च । सरतिं मदनं तत्र सानन्दमगदं ततः ॥ २२ ॥ ब्रह्मोवाच मत्पुत्रवर काम त्वं सर्वथा सुखदायकः । मद्वचः शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल ॥ २३ ॥ अनया सहचारिण्या राजसे त्वं मनोभव । एषा च भवता पत्या युक्ता संशोभते भृशम् ॥ २४ ॥ यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा । क्षणदा विधुना युक्ता तया युक्तो यथा विधुः ॥ २५ ॥ तथैव युवयोः शोभा दाम्पत्यं च पुरस्कृतम् । अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि ॥ २६ ॥ जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनाम् । यथाऽऽशु सुमनः शम्भुः कुर्य्याद्दारप्रतिग्रहम् ॥ २७ ॥
विजने स्निग्धदेशे तु पर्वतेषु सरःसु च । यत्र यत्र प्रयातीशस्तत्र तत्रानया सह ॥ २८ ॥ मोहय त्वं यतात्मानं वनिताविमुखं हरम् । त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः ॥ २९ ॥ भूते हरे सानुरागे भवतोऽपि मनोभव । शापोपशान्तिर्भविता तस्मादात्महितं कुरु ॥ ३० ॥ सानुरागो वरारोहां यदीच्छति महेश्वरः । तदा भवोऽपि योग्यार्यस्त्वां च सन्तारयिष्यति ॥ ३१ ॥ तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने । विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम् ॥ ३२ ॥ ब्रह्मोवाच इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः । उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम् ॥ ३३ ॥ मन्मथ उवाच करिष्येहं तव विभो वचनाच्छम्भुमोहनम् । किं तु योषिन्ममास्त्रं मे तत्कान्तां भगवन् सृज ॥ ३४ ॥ मया संमोहिते शम्भौ यया तस्याश्च मोहनम् । कर्तव्यमधुना धातस्तत्रोपायं परं कुरु ॥ ३५ ॥ ब्रह्मोवाच एवंवादिनि कन्दर्पे धाताऽहं स प्रजापतिः । कया संमोहनी योऽसाविति चिन्तामयामहम् ॥ ३६ ॥ चिन्ताविष्टस्य मे तस्य निःश्वासो यो विनिःसृतः । तस्माद्वसन्तः सञ्जातः पुष्पव्रातविभूषितः ॥ ३७ ॥ शोणराजीवसङ्काशः फुल्लतामरसेक्षणः । सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥ ३८ ॥ शार्ङ्गवच्चरणावर्त्तः श्यामकुञ्चितमूर्द्धजः । सन्ध्यांशुमालिसदृशः कुण्डलद्वयमण्डितः ॥ ३९ ॥ प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः । कम्बुग्रीवःसुविस्तीर्णहृदयः पीनसन्मुखः ॥ ४० ॥ सर्वाङ्गसुन्दरः श्यामः सम्पूर्णः सर्वलक्षणैः । दर्शनीयतमः सर्वमोहनः कामवर्द्धनः ॥ ४१ ॥ एतादृशे समुत्पन्ने वसन्ते कुसुमाकरे । ववौ वायुः सुसुरभिः पादपा अपि पुष्पिताः ॥ ४२ ॥ पिका विनेदुः शतशः पञ्चमं मधुरस्वनाः । प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः ॥ ४३ ॥ तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् । हिरण्यगर्भो मदनमगदं मधुरं वचः ॥ ४४ ॥ ब्रह्मोवाच एवं स मन्मथनिभः सदा सहचरोभवत् । आनुकूल्यं तव कृते सर्वं देव करिष्यति ॥ ४५ ॥ यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति । तथायं भवतो मित्रं सदा त्वामनुयास्यति ॥ ४६ ॥ वसतेरन्तहेतुत्वाद्वसन्ताख्यो भवत्वयम् । तवानुगमनं कर्म तथा लोकानुरञ्जनम् ॥ ४७ ॥ असौ वसन्तशृङ्गारो वसन्तो मलयानिलः । भवेत्तु सुहृदो भावः सदा त्वद्वशवर्तिनः ॥ ४८ ॥ विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा । रत्याः कुर्वन्तु सौहृद्यं सुहृदस्ते यथा तव ॥ ४९ ॥ एभिः सहचरैः कामं वसन्त प्रमुखैर्भवान् । मोहयस्व महादेवं रत्या सह महोद्यमः ॥ ५० ॥ अहं तां कामिनीं तात भावयिष्यामि यत्नतः । मनसा सुविचार्यैव या हरं मोहयिष्यति ॥ ५१ ॥ ब्रह्मोवाच एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः । ननाम चरणौ मेऽपि स पत्नी सहितस्तदा ॥ ५२ ॥ दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च । यत्रात्मा गतवाञ्शम्भुस्तत्स्थानं मन्मथो ययौ ॥ ५३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखण्डे वसन्तस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥ श्रीगौरीशंकरार्पणमस्तु |