|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
पञ्चमोऽध्यायः ॥
संध्याचरित्रम्
सूत उवाच
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः । स मुदोवाच संस्मृत्य शङ्करं प्रीतमानसः ॥ १ ॥ नारद उवाच ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते । अद्भुता कथिता लीला त्वया च शशिमौलिनः ॥ २ ॥ गृहीतदारे मदने हृष्टे हि स्वगृहं गते । दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ॥ ३ ॥ मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु । सन्ध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ॥ ४ ॥ किं चकार च केनैव पुरुषेण विवाहिता । एतत्सर्वं विशेषेण सन्ध्यायाश्चरितं वद ॥ ५ ॥ सूत उवाच इत्याकर्ण्य वचस्तस्य ब्रह्मा पुत्रश्च धीमतः । संस्मृत्य शङ्करं भक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ॥ ६ ॥ ब्रह्मोवाच शृणु त्वं च मुने सर्वं सन्ध्यायाश्चरितं शुभम् । यच्छ्रुत्वा सर्वकामिन्यःसाध्व्यः स्युः सर्वदा मुने ॥ ७ ॥ सा च सन्ध्या सुता मे हि मनोजाता पुराऽ भवत् । तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ॥ ८ ॥ मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य धीमती । ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता ॥ ९ ॥ वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् । पतिव्रता च मुख्याऽभूद्वन्द्या पूज्या त्वभीषणा ॥ १० ॥ नारद उवाच कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया । कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता ॥ ११ ॥ कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम् । वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम् ॥ १२ ॥ एतन्मे श्रोष्यमाणाय विस्तरेण पितामह । कौतूहलमरुन्धत्याश्चरितं ब्रूहि तत्त्वतः ॥ १३ ॥ ब्रह्मोवाच अहं स्वतनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः । कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ॥ १४ ॥ सन्ध्यायाश्चलितं चित्तं कामबाणविलोडितम् । ऋषीणामपि संरुद्धमानसानां महात्मनाम् ॥ १५ ॥ भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति । आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ॥ १६ ॥ कामस्य तादृशं भावं मुनिमोहकरं मुहुः । दृष्ट्वा सन्ध्या स्वयं तत्रोपयमायातिदुःखिता ॥ १७ ॥ ततस्तु ब्रह्मणा शप्ते मदने च मया मुने । अन्तर्भूते मयि शिवे गते चापि निजास्पदे ॥ १८ ॥ आमर्षवशमापन्ना सा सन्ध्या मुनिसत्तम । मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत् ॥ १९ ॥ ध्यायन्ती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी । इदं विममृशे सन्ध्या तस्मिन्काले यथोचितम् ॥ २० ॥ सन्ध्योवाच उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः । अकार्षित्सानुरागोयमभिलाषं पिता मम ॥ २१ ॥ पश्यतां मानसानां च मुनीनां भावितात्मनाम् । दृष्ट्वैव माममर्यादं सकाममभवन्मनः ॥ २२ ॥ ममापि मथितं चित्तं मदनेन दुरात्मना । येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ॥ २६ ॥ फलमेतस्य पापस्य मदनः स्वयमाप्तवान् । यस्तं शशाप कुपितः शम्भोरग्रे पितामहः ॥ २४ ॥ प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी । तच्छोधनफलं शीघ्रमहिमिच्छामि साधनम् ॥ २५ ॥ यन्मां पिता भ्रातरश्च सकाममपरोक्षतः । दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः पापकृत्परा ॥ २६ ॥ ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् । पत्या इव स्वके ताते सर्वेषु सहजेष्वषि ॥ २७ ॥ करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् । आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ॥ २८ ॥ किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले । उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ २९ ॥ एतदर्थमहं कृत्वा तपः परमदारुणम् । मर्यादां स्थापयिष्यामि पश्चात् त्यक्षामि जीवितम् ॥ ३० ॥ यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषःस्वयं कृतः । भातृभिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ॥ ३१ ॥ मया येन शरीरेण तातेषु सहजेषु च । उद्भावितः कामभावो न तत्सुकृतसाधनम् ॥ ३२ ॥ इति सञ्चित्य मनसा सन्ध्या शैलवरं ततः । जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ॥ ३३ ॥ अथ तत्र गतां ज्ञात्वा सन्ध्यां गिरिवरं प्रति । तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ॥ ३४ ॥ वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् । समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ॥ ३५ ॥
ब्रह्मोवाच वसिष्ठ पुत्र गच्छ त्वं सन्ध्यां जातां मनस्विनीम् । तपसे धृतकामां च दीक्षस्वैनां यथा विधि ॥ ३६ ॥ मन्दाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान् । युष्मान्मां च तथात्मानं सकामां मुनिसत्तम ॥ ३७ ॥ अनुक्तमूर्तं तत्कर्म पूर्वमृत्युं विमृश्य सा । युष्माकमात्मनश्चापि प्राणान्सन्त्यक्तुमिच्छति ॥ ३८ ॥ समर्यादेषु मर्यादां तपसा स्थापयिष्यति । तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे ॥ ३९ ॥ न भावं तपसस्तात सानुजानाति कञ्चन । तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु ॥ ४० ॥ इदं रूपं परित्यज्य निजं रूपान्तरं मुने । परिगृह्यान्तिके तस्याः तपश्चर्यां निदर्शयन् ॥ ४१ ॥ इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् । नाप्नुयात्साऽथ किञ्चिद्वै ततो रूपान्तरं कुरु ॥ ४२ ॥ ब्रह्मोवाच नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयायुतः ॥ यथाऽस्विति च मां प्रोच्य ययौ सन्ध्यान्तिकं मुनिः । ४३ ॥ तत्र देवसरः पूर्णं गुणैर्मानससंमितम् । ददर्श स वसिष्टोऽथ सन्ध्यां तत्तीरगामपि ॥ । ४४ ॥ तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् । उद्यदिन्दुसुनक्षत्रं प्रदोषे गगनं यथा ॥ ४५ ॥ मुनिर्दृष्ट्वाथ तां तत्र सुसम्भावां स कौतुकी । वीक्षाञ्चक्रे सरस्तत्र बृहल्लोहितसञ्ज्ञकम् ॥ ४६ ॥ चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणाम्बुधिम् । यान्ती सा चैव ददृशे तेन सानुगिरेर्महत् ॥ ४७ ॥ निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी । यथा हिमवतो गङ्गा तथा गच्छति सागरम् ॥ ४८ ॥ तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् । सन्ध्यां दृष्ट्वाऽथ पप्रच्छ वसिष्ठः सादरं तदा ॥ ४९ ॥ वशिष्ठ .उवाच किमर्थमागता भद्रे निर्जनं त्वं महीधरम् । कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ॥ ५० ॥ एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् । वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव ॥ ५१ ॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः । दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् ॥ ५२ ॥ शरीरधृग्ब्रह्मचर्यं विलसन्तं जटाधरम् । सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ॥ ५३ ॥ सन्ध्योवाच यदर्थमागता शैलं सिद्धं तन्मे निबोध ह । तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो ॥ ५४ ॥ तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता । ब्रह्मणोहं सुता जाता नाम्ना सन्ध्येति विश्रुता ॥ ५५ ॥ यदि ते युज्यते सह्यं मां त्वं समुपदेशय । एतच्चिकीर्षितं गुह्यं नान्यैः किञ्चन विद्यते ॥ ५६ ॥ अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता । चिन्तया परिशुष्येऽहं वेपते हि मनो मम ॥ ५७ ॥ ब्रह्मोवाच आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः । स्वयं च सर्वकृत्यज्ञो नान्यत्किञ्चन पृष्टवान् ॥ ५८ ॥ अथ तां नियतात्मानं तपसेति धृतोद्यमाम् । प्रोवाच मनसा स्मृत्वा शङ्करं भक्तवत्सलम् ॥ ५९ ॥ वसिष्ठ उवाच परमं यो महत्तेजः परमं यो महत्तपः । परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ॥ ६० ॥ धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् । तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥ ६१ ॥ मन्त्रेणानेन देवेशं शम्भुं भज शुभानने । तेन ते सकला वाप्तिर्भविष्यति न संशयः ॥ ६२ ॥ ॐ नमः शङ्करायेति ॐमित्यन्तेन सन्ततम् । मौनं तपः समारम्भं तन्मे निगदतः शृणु ॥ ६३ ॥ स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् । द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ॥ ६४ ॥ तृतीये षष्ठकाले तु ह्युपवासपरा भवेत् । एवं तपः समाप्तौ वा षष्ठे काले क्रिया भवेत् ॥ ६५ ॥ एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा । सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः ॥ ६६ ॥ एवं चित्ते समुद्दिश्य कामं चिन्तय शङ्करम् । स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ॥ ६७ ॥ ब्रह्मोवाच उपविश्य वसिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् । तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ॥ ६८ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनो नाम पञ्चमोऽध्यायः ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |