|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
चतुर्थोऽध्यायः ॥
कामविवाहः
नारद उवाच
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो । अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १ ॥ ततः किमभवत्तात चरितं तद्वदाधुना । अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २ ॥ ब्रह्मोवाच शम्भौ गते निजस्थाने वेधस्यन्तर्हिते मयि । दक्ष प्राहाथ कन्दर्पं संस्मरन् मम तद्वचः ॥ ३ ॥ दक्ष उवाच मद्देहजेयं कन्दर्प सद्रूपगुणसंयुता । एनां गृह्णीष्व भार्यार्थं भवतः सदृशीं गुणैः ॥ ४ ॥ एषा तव महातेजाः सर्वदा सहचारिणी । भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५ ॥ ब्रह्मोवाच इत्युक्त्वा प्रददौ तस्यै देहस्वेदाम्बुसम्भवाम् । कन्दर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६ ॥ विवाह्य तां स्मरः सोपि मुमोदातीव नारद । दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७ ॥ अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् । आत्मा गुणेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥ ८ ॥ क्षणप्रदाऽभवत्कान्ता गौरी मृगदृशी मुदा । लोलापाङ्ग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९ ॥ तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् । उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ १० ॥ गतिं दृष्ट्वा कटाक्षाणामाशु तस्या द्विजोत्तम । आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११ ॥ तस्याः स्वभावसौरभ्यं धीरश्वासानिलं तथा । आघ्राय मदनः श्रद्धां त्यक्तवान् मलयान्तिके ॥ १२ ॥ पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् । न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३ ॥ सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् । रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४ ॥ दृढपीनोन्नतं तस्या स्तनमध्यं विलम्बिनीम् । आनाभिलम्बिनीं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५ ॥ ज्यां पुष्पधनुषः कामः षट्पदावलिसम्भ्रमाम् । विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६ ॥ गम्भीरनाभिरन्ध्रान्तश्चतुःपार्श्वत्वगावृतम् । मुखाब्ज ईक्षणद्वन्द्वमारक्तकमलं यथा ॥ १७ ॥
क्षीणमध्येन वपुषा निसर्गाष्टापदप्रभा । रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८ ॥ रम्भास्तम्भायतं स्निग्धं यदूरुयुगलं मृदु । निजशक्तिसमं कामो वीक्षाञ्चक्रे मनोहरम् ॥ १९ ॥ आरक्तपार्ष्णिपादाग्रं प्रान्तभागं पदद्वयम् । अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥ २० ॥ तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः । वृत्ताभिरङ्गुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१ ॥ तद्बाहुयुगुलं कान्तं मृणालयुगलायतम् । मृदु स्निग्धं चिरं राजत्कान्तलोहप्रवालवत् ॥ २२ ॥ नीलनीरदसङ्काशः केशपाशो मनोहरः । चमरीवालभरवद्विभाति स्म स्मरप्रिया ॥ २३ ॥ एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम् । गङ्गामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४ ॥ चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् । भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५ ॥ कटाक्षपाततुङ्गौघां स्वीयनेत्रोत्पलान्विताम् । तनुलोमाम्बुशैवालां मनोद्रुमविलासिनीम् ॥ २६ ॥ निम्ननाभिह्रदां क्षामां सर्वाङ्गरमणीयिकाम् । सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७ ॥ द्वादशाभरणैर्युक्तां शृङ्गारैः षोडशैर्युताम् । मोहनीं सर्वलोकानां भासयन्तीं दिशो दश ॥ २८ ॥ इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः । रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९ ॥ नोवाच च तदा दक्षं कामो मोदभवात्ततः । विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः ॥ ३० ॥ तदा महोत्सवस्तात बभूव सुखवर्द्धनः । दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१ ॥ कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः । दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२ ॥ रराज च तया सार्द्धं भिन्नश्चारुवचाः स्मरः । जीमूत इव सन्ध्यायां सौदामन्या मनोज्ञया ॥ ३३ ॥ इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् । रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ श्रीगौरीशंकरार्पणमस्तु |