|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
तृतीऽयोऽध्यायः ॥
कामशापानुग्रहः
ब्रह्मोवाच
ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीचिप्रमुखाःसुताः ॥ १ ॥ मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २ ॥ ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय ममात्मजाः ॥ ३ ॥ ऋषय ऊचुः यस्मात्प्रमथसे तत्त्वं जातोऽस्माकं यथा विधेः । तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४ ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५ ॥ मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः । तस्मात्कन्दर्पनामापि लोके ख्यातो भविष्यसि ॥ ६ ॥ त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति । ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७ ॥ दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् । आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८ ॥ एषा च कन्यका चारुरूपा ब्रह्ममनोभवा । सन्ध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९ ॥ ब्रह्मणो ध्यायतो यस्मात्सम्यग् जाता वराङ्गना । अतः सन्ध्येति विख्याता क्रान्ताभातुल्यमल्लिका ॥ १० ॥ ब्रह्मोवाच कौसुमानि तथास्त्राणि पञ्चादाय मनोभवः । प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ॥ ११ ॥ हर्षणं रोचनाख्यं च मोहनं शोषणं तथा । मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२ ॥ ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् । तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ॥ १३ ॥ तिष्ठन्ति मुनयश्चात्र स्वयं चापि प्रजापतिः । एतेषां साक्षिभूतं मे भविष्यन्त्यद्य निश्चयम् ॥ १४ ॥ सन्ध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः । इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५ ॥ ब्रह्मोवाच इति सञ्चिन्त्य मनसा निश्चित्य च मनोभवः । पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥ आलीढस्थानमासाद्य धनुराकृष्य यत्नतः । चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७ ॥ संहिते तेन कोदण्डे मारुताश्च सुगन्धयः । ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८ ॥ ततस्तानपि धात्रादीन् सर्वानेव च मानसान् । पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९ ॥ ततस्ते मुनयः सर्वे मोहिताश्चाप्यहं मुने । सहितो मनसा कञ्चिद्विकारं प्रापुरादितः ॥ २० ॥ सन्ध्यां सर्वे निरीक्षन्तः सविकारं मुहुर्मुहुः । आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१ ॥ ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः । यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ॥ २२ ॥ उदीरितेन्द्रियो धाता वीक्ष्याहं स यदा च ताम् । तदैव चोनपञ्चाशद्भावा जाताः शरीरतः ॥ २३ ॥ सापि तैर्वीक्ष्यमाणाथ कन्दर्पशरपातनात् । चक्रे मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ॥ २४ ॥ निसर्गसुन्दरी सन्ध्या तान्भावान् मानसोद्भवान् । कुर्वन्त्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५ ॥ अथ भावयुतां सन्ध्यां वीक्ष्याकार्षं प्रजापतिः । धर्माभिपूरिततनुरभिलाषमहं मुने ॥ २६ ॥ ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि । दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ॥ २७ ॥ दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखांश्च माम् । सन्ध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८ ॥ यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् । कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा ॥ २९ ॥ इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा । धर्मः सस्मार शम्भुं वै तदा धर्मावनं प्रभुम् ॥ ३० ॥ संस्मरन्मनसा धर्मं शङ्करं धर्मपालकम् । तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसम्भवः ॥ ३१ ॥ धर्म उवाच देवदेव महादेव धर्मपाल नमोस्तु ते । सृष्टिस्थितिविनाशानां कर्ता शम्भो त्वमेव हि ॥ ३२ ॥ सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् । रजःसत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३ ॥ निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः । निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४ ॥ रक्ष रक्ष महादेव पापान्मां दुस्तरादितः । मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५ ॥ ब्रह्मोवाच इति स्तुतो महेशानो धर्मेणैव परः प्रभुः । तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६ ॥ जातो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् । मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७ ॥ स साधुवादं तान् सर्वान् विहस्य च पुनः पुनः । उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥ शिव उवाच अहो ब्रह्मंस्तव कथं कामभावः समुद्गतः । दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९ ॥
यथा माता च भगिनी भ्रातृपत्नी तथा सुता । एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ ४० ॥ एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः । कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१ ॥ धैर्यं जागरितं चित्ते न कथं चतुरानन । कथं क्षुद्रेण कामेन रन्तुं विघटितं विधे ॥ । ४२ ॥ एकान्तयोगिनस्तस्मात्सर्वदादित्यदर्शिनः । कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥ कथं कामोऽपि मन्दात्मा प्राबल्यात्सोऽधुनैव हि । विकृतान् कृतवान् बाणैरकालज्ञोऽल्पचेतनः ॥ ४४ ॥ धिक्तं श्रुतं सदा तस्य यस्य कान्ता मनोहरत् । धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५ ॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च । व्रीडया द्विगुणीभूतः स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६ ॥ ततः कामविकारं हि निगृह्य चात्यजं मुने । जिघृक्षुरपि तद्भीत्या तां सन्ध्यां कामरूपिणीम् ॥ ४७ ॥ मच्छरीरात्तु घर्माम्भो यत्पपात द्विजोत्तम । अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८ ॥ भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः । नितान्तयतयः पुण्याः संसारविमुखाः परे ॥ ४९ ॥ सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिताः । षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ ५० ॥ घर्माम्भः पतितं भूमौ तदा दक्षशरीरतः । समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गना ॥ ५१ ॥ तन्वङ्गी सममध्या च तनुरोमावली श्रुता । मृद्वङ्गी चारुदशना नवकाञ्चनसुप्रभा ॥ ५२ ॥ सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा । नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३ ॥ मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः । ऋते क्रतुं वसिष्ठं च पुलस्त्याङ्गिरसौ तथा ॥ ५४ ॥ क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च । तेभ्यः पितृगणा जाता अपरे मुनिसत्तम ॥ ५५ ॥ सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः । हविष्मन्तः सुताः सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६ ॥ क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा । आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोङ्गिरः सुताः ॥ ५७ ॥ जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ । लोकानां पितृवर्गेषु कव्यवाट् स समन्ततः ॥ ५८ ॥ सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् । निर्दोषा शम्भुसन्दृष्टा धर्मकर्मपरायणाः ॥ ५९ ॥ एतस्मिन्नन्तरे शम्भुरनुगृह्याखिलान्द्विजान् । धर्मं संरक्ष्य विधिवदन्तर्धानं गतो द्रुतम् ॥ ६० ॥ अथ शङ्करवाक्येन लज्जितोहं पितामहः । कन्दर्पायाकुपं बाढं भ्रुकुटीकुटिलाननः ॥ ६१ ॥ दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः । स्वबाणान्सञ्जहाराशु भीतः पशुपतेर्मुने ॥ ६२ ॥ ततः कोपसमायुक्तः पद्मयोनिरहं मुने । अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३ ॥ भवनेत्राग्निनिर्दग्धः कन्दर्पो दर्पमोहितः । भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ॥ ६४ ॥ इति वेधास्त्वहं काममक्षमं द्विजसत्तम । समक्षं पितृसङ्घेऽस्य मुनीनां च यतात्मनाम् ॥ ६५ ॥ इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः । प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६ ॥ ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने । शृण्वतां पितृसङ्घानां सन्ध्यायाश्च विगर्वधीः ॥ ६७ ॥ काम उवाच किमर्थं भवता ब्रह्मञ्शप्तोहमिति दारुणम् । अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८ ॥ त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया । तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९ ॥ अहं विष्णुस्तथा शम्भुः सर्वे त्वच्छरगोचराः । इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ ७० ॥ नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि । दारुणः समयश्चैष शापो देव जगत्पते ॥ ७१ ॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः । प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः ॥ ७२ ॥ ब्रह्मोवाच आत्मजा मम सन्ध्येयं यस्मादेतत्सकामतः । लक्ष्यीकृतोऽहं भवता ततः शापो मया कृतः ॥ ७३ ॥ अधुना शान्तरोषोऽहं त्वां वदामि मनोभव । शृणुष्व गतसन्देहःसुखी भव भयं त्यज ॥ ७४ ॥ त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना । तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५ ॥ यदा करिष्यति हरोञ्जसा दारपरिग्रहम् । तदा स एव भवतः शरीरं प्रापयिष्यति ॥ ७६ ॥ एवमुक्त्वाथ मदनमहं लोकपितामहः । अन्तर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७ ॥ इत्येवं मे वचः श्रुत्वा मदनस्तेपि मानसाः । सम्बभूवुःसुताः सर्वे सुखिनोऽरं गृहं गताः ॥ ७८ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |