|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
द्वितीऽयोऽध्यायः ॥
कामप्रादुर्भावः
सूत उवाच
इत्याकर्ण्य वचस्तस्य नैमिषारण्यवासिनः । पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १ ॥ नारद उवाच विधे विधे महाभाग कथां शम्भोः शुभावहाम् । शृण्वन् भवन्मुखाम्भोजान्न तृप्तोस्मि महाप्रभो ॥ २ ॥ अतः कथय तत्सर्वं शिवस्य चरितं शुभम् । सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३ ॥ सती हि कथमुत्पन्ना दक्षदारेषु शोभना । कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४ ॥ कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा । हिमवत्तनया जाता भूयो वाऽऽकाशमागता ॥ ५ ॥ पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथन्त्वभूत् । कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ॥ ६ ॥ एतत्सर्वं समाचक्ष्व विस्तरेण महामते । नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७ ॥ ब्रह्मोवाच शृणु त्वं च मुने सर्वं सतीशिवयशः शुभम् । पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ८ ॥ एतच्छम्भुः पुरोवाच भक्तवर्याय विष्णवे । पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ९ ॥ ततः सोपि मया पृष्टो विष्णुः शैववरः सुधीः । प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ १० ॥ अहं तत्कथयिष्यामि कथामेतां पुरातनीम् । शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११ ॥ पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः । अरूपः शक्तिरहितश्चिन्मात्रः सदसत्परः ॥ १२ ॥ अभवत्सगुणः सोपि द्विरूपः शक्तिमान्प्रभुः । सोमो दिव्याकृतिर्विप्र निर्विकारी परात्परः ॥ १३ ॥ तस्य वामाङ्गजो विष्णुर्ब्रह्माहं दक्षिणाङ्गजः । रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४ ॥ सृष्टिकर्ताऽभवं ब्रह्मा विष्णुः पालनकारकः । लयकर्ता स्वयं रुद्रस्त्रिधाभूतः सदाशिवः ॥ १५ ॥ तमेवाहं समाराध्य ब्रह्मा लोकपितामहः । प्रजा ससर्ज सर्वास्ताः सुरासुरनरादिकाः ॥ १६ ॥ सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् । अमंसि सुप्रसन्नोहं निजं सर्वमहोन्नतम् ॥ १७ ॥ मरीचिमत्रिं पुलहं पुलस्त्याङ्गिरसौ क्रतुम् । वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६ ॥ ब्रह्माऽहं मानसान्पुत्रानसर्जं च यदा मुने । तदा मन्मनसो जाता चारुरूपा वराङ्गना ॥ १९ ॥ नाम्ना सन्ध्या दिवःक्षान्ता सायं सन्ध्या जयन्तिका । अतीव सुन्दरी सुभ्रूर्मुनिचेतो विमोहिनी ॥ २० ॥ न तादृशी देवलोके न मर्त्ये न रसातले । कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी ॥ २१ ॥ दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम् । दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२ ॥
एवं चिन्तयतो मे हि ब्रह्मणो मुनिसत्तम । मानसः पुरुषो मञ्जुराविर्भूतो महाद्भुतः ॥ २३ ॥ काञ्चनीकृतजाताभः पीनोरस्कः सुनासिकः । सुवृत्तोरुकटीजङ्घो नीलवेल्लितकेशरः ॥ २४ ॥ लग्नभ्रुयुगलो लोलः पूर्णचन्द्रनिभाननः । कपाटायतसद्वक्षो रोमराजीविराजितः ॥ २५ ॥ अभ्रमातङ्गकाकारः पीनो नीलसुवासकः । आरक्तपाणिनयनमुखपादकरोद्भवः ॥ २६ ॥ क्षीणमध्यश्चारुदन्तः प्रमत्तगजगन्धनः । प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७ ॥ कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः । पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः ॥ २८ ॥ कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् । सुगन्धिमारुतः तात शृङ्गाररससेवितः ॥ २९ ॥ तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते । औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ ३० ॥ अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् । धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१ ॥ मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् । प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥ ३२ ॥ पुरुष उवाच किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय । मान्योऽद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३ ॥ अभिमानं च योग्यं च स्थानं पत्नी च या मम । तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४ ॥ ब्रह्मोवाच एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः । क्षणं न किञ्चित्प्रोवाच स्वस्रष्टा चातिविस्मितः ॥ ३५ ॥ अतो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् । अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६ ॥ ब्रह्मोवाच अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः । मोहयन् पुरुषान्स्त्रींश्च कुरु सृष्टिं सनातनीम् ॥ ३७ ॥ अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे । एते सर्वे भविष्यन्ति न क्षमास्तव लङ्घने ॥ ३८ ॥ अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः । भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९ ॥ प्रच्छन्नरूपो जन्तूनां प्रविशन् हृदयं सदा । सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ ४० ॥ त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् । सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१ ॥ इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः । नामान्येते वदिष्यन्ति सुता मे तव तत्त्वतः ॥ ४२ ॥ ब्रह्मोवाच इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च । आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |