|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
षष्ठोऽध्यायः ॥
सन्ध्याचरित्रवर्णनम्
ब्रह्मोवाच
सुतवर्य महाप्राज्ञ शृणु सन्ध्यातपो महत् । यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ॥ १ ॥ उपश्रुत्य तपोभावं वसिष्ठे स्वगृहं गते । सन्ध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २ ॥ ततःसानन्दमनसो वेषं कृत्वा तु यादृशम् । तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३ ॥ यथोक्तं तु वसिष्ठेन मन्त्रं तपसि साधनम् । मन्त्रेण तेन सद्भक्त्या पूजयामास शङ्करम् ॥ ४ ॥ एकान्तमनसस्तस्याः कुर्वन्त्या सुमहत्तपः । शम्भौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५ ॥ प्रसन्नोभूत्तदा शम्भुस्तपसा तेन तोषितः । अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६ ॥ यद्रूपं चिन्तयन्ती सा तेन प्रत्यक्षतां गतः । ७ ॥ अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं प्रभुम् । प्रसन्नवदनं शान्तं मुमोदातीव शङ्करम् ॥ ८ ॥ ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् । इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९ ॥ निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः । दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ १० ॥ दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा । प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११ ॥ सन्ध्योवाच निराकारं ज्ञानगम्यं परं य- न्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् । अन्तश्चिन्त्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ॥ १२ ॥ सर्वं शान्तं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् । खाध्वप्रख्यं ध्वान्तमार्गात्परस्ता- द्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३ ॥ एकं शुद्धं दीप्यमानं विनाजां- चिदानन्दं सहजं चाविकारि । नित्यानन्दं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४ ॥ विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छन्दं ध्येयमात्मस्वरूपम् । सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५ ॥ यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् । इष्टाभीती शूलमुण्डे दधानं हस्तैर्नम्यो योगयुक्ताय तुभ्यम् ॥ १६ ॥ गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च । पुनः कालश्च रूपाणि यस्य तुभ्यं नमोऽस्तु ते ॥ १७ ॥ प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ । तस्मादव्यक्तरूपाय शङ्कराय नमो नमः ॥ १८ ॥ यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् । संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ॥ १९ ॥ नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय । समस्तलोकान्तरभूतिदाय प्रकाशरूपाय परात्पराय ॥ २० ॥ यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशःसूर्य इन्दुर्मनौजः । बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शम्भवे मो नमोऽस्तु ॥ २१ ॥ त्वं परः परमात्मा च त्वं विद्या विविधा हरे । सद्ब्रह्मा च परं ब्रह्म विचारणपरायणः ॥ २२ ॥ यस्य नादिर्न मध्यं च नान्तमस्ति जगद्यतः । कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम् ॥ २३ ॥ यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः । न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥ २४ ॥ स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो । नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५ ॥ नमस्तुभ्यं महेशान नमस्तुभ्यं तपोमय । प्रसीद शम्भो देवेश भूयोभूयो नमोऽस्तु ते ॥ २६ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्याः संस्तुतः परमेश्वरः । सुप्रसन्नतरश्चाभूच्छङ्करो भक्तवत्सलः ॥ २७ ॥ अथ तस्याः शरीरं तु वल्कलाजिनसंयुतम् । परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८ ॥ हिमानी तर्जिताम्भोजसदृशं वदनं तदा । निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९ ॥
महेश्वर उवाच प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै । स्तवेन च शुभप्राज्ञे वरं वरय साम्प्रतम् ॥ ३० ॥ येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् । तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ॥ ३१ ॥ ब्रह्मोवाच इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा । सन्ध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२ ॥ सन्ध्योवाच यदि देयो वरः प्रीत्या वरयोग्याऽस्म्यहं यदि । यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर ॥ ३३ ॥ यदि देव प्रसन्नोऽसि तपसा मम साम्प्रतम् । वृतस्तदायं प्रथमो वरो मम विधीयताम् ॥ ३४ ॥ उत्पन्नमात्रा देवेश प्राणिनोस्मिन् भुवस्थले । न भवन्तु समेनैव सकामासम्भवन्तु वै ॥ ३५ ॥ यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा । भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६ ॥ सकामा मम सृष्टिस्तु कुत्रचिन्न भविष्यति । यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ॥ ३७ ॥ यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् । नाशं गमिष्यति तदा नाशं स च क्लीबो भविष्यति ॥ ।३८ ॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्यश्शङ्करो भक्तवत्सलः । उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९ ॥ महेश्वर उवाच शृणु देवि च सन्ध्ये त्वं त्वत्पापं भस्मतां गतम् । त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ ४० ॥ यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया । सुप्रसन्नेन तपसां तव सन्ध्ये वरेण हि ॥ ४१ ॥ प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः । तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ॥ ४२ ॥ तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः । सकामाः स्युर्द्वितीयान्ते भविष्यति क्वचित् क्वचित् ॥ ४३ ॥ तपसा तव मर्यादा जगति स्थापिता मया । उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ॥ ४४ ॥ त्वं च लोके सतीभावं तादृशं समवाप्नुहि । त्रिषु लोकेषु नान्यस्या यादृशं सम्भविष्यति ॥ ४५ ॥ यः पश्यति सकामस्त्वां पाणिग्राहमृते तव । स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६ ॥ पतिस्तव महाभागस्तपोरूपसमन्वितः । सप्तकल्पान्तजीवी च भविष्यति सह त्वया ॥ ४७ ॥ इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया । अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८ ॥ अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः । तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९ ॥ स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके । कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ ५० ॥ एतच्छैलोपत्यकायां चन्द्रभागानदीतटे । मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१ ॥ तत्र गत्वा स्वयं छन्दं मुनिभिर्न्नोपलक्षिता । मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२ ॥ यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन । तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ॥ ५३ ॥ यदा त्वं दारुणं सन्ध्ये तपश्चरसि पर्वते । यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४ ॥ त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः । यास्ताः शीलसमापन्ना यथा योग्यं विवाहिताः ॥ ५५ ॥ तन्मध्ये स ददौ कन्याऽविधवे सप्तविंशतिः । चन्द्रोऽन्याःसम्परित्यज्य रोहिण्यां प्रीतिमानभूत् ॥ ५६ ॥ तद्धेतोर्हि यदा चन्द्रः शप्तो दक्षेण कोपिना । तदा भवत्या निकटे सर्वे देवाःसमागताः । ५७ ॥ न दृष्टाश्च त्वया सन्ध्ये ते देवा ब्रह्मणा सह । मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८ ॥ चन्द्रस्य शापमोक्षार्थं जाता चन्द्रनदी तदा । सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः ॥ ५९ ॥ तपसा तत्समो नास्ति न भूतो न भविष्यति । येन यज्ञःसमारब्धो ज्योतिष्टोमो महाविधिः ॥ ६० ॥ तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् । सुपवित्रा त्वमिदानीं सम्पूर्णोऽस्तु पणस्तव ॥ ६१ ॥ एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि । तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः । तस्याहितं च देवेशस्तत्रैवान्तरधीयत ॥ ६२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सन्ध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥ श्रीगौरीशंकरार्पणमस्तु |