|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
एकोनविंशोऽध्यायः ॥
कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनम्
ब्रह्मोवाच
पाद्मे कल्पे मम पुरा ब्रह्मणो मानसात्सुतात् । पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणःसुतः ॥ १ ॥ तेनेयमलका भुक्ता पुरी विश्वकृता कृता । आराध्य त्र्यम्बकं देवमत्युग्रतपसा पुरा ॥ २ ॥ व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने । याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुःसहम् ॥ ३ ॥ भक्ति प्रभावं विज्ञाय शम्भोस्तद्दीपमात्रतः । पुरा पुरारेः सम्प्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४ ॥ शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः । अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः ॥ ५ ॥ शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम् । कामक्रोधमहाविघ्नपतङ्गाघातवर्जितम् ॥ ६ ॥ प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् । संस्थाप्य शाम्भवं लिङ्गं सद्भावकुसुमार्चितम् ॥ ७ ॥ तावत्तताप स तपस्त्वगस्थिपरिशेषितम् । यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥ ८ ॥ ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् । अलकापतिमालोक्य प्रसन्नेनान्तरात्मना ॥ ९ ॥ लिङ्गे मनःसमाधाय स्थितं स्थाणुस्वरूपिणम् । उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ १० ॥ उन्मील्य नयने यावत्स पश्यति तपोधनः । तावदुद्यत्सहस्रांशुसहस्राधिकतेजसम् ॥ ११ ॥ पुरो ददर्श श्रीकण्ठं चन्द्रचूडमुमाधवम् । तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥ १२ ॥ उवाच देवदेवेशं मनोरथपदातिगम् । निजाङ्घ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३ ॥ अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे । किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४ ॥ इति तद्वचनं श्रुत्वा देवदेव उमापतिः । ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम् ॥ १५ ॥ प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् । तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६ ॥ शम्भोः समीपे का योषिदेषा सर्वाङ्गसुन्दरी । अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७ ॥
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् । इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८ ॥ क्रूर दृग्वीक्षते यावत्पुनः पुनरिदं वदन् । तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥ १९ ॥ अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः । असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपस्विताम् ॥ २० ॥ असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति । असूयमानो मे रूपप्रेमसौभाग्यसम्पदः ॥ २१ ॥ इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः । उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२ ॥ सम्पश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् । इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३ ॥ वरान्ददामि ते वत्स तपसाऽनेन तोषितः । निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४ ॥ यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः । पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५ ॥ मया सख्यं च ते नित्यं वत्स्यामि च तवान्तिके । अलकां निकषा मित्र तव प्रीतिविवृद्धये ॥ २६ ॥ आगच्छ पादयोरस्याः पत ते जननी त्वियम् । याज्ञदत्ते महाभक्ते सुप्रसन्नेन चेतसा ॥ २७ ॥ ब्रह्मोवाच इति दत्त्वा वरान्देवः पुनराह शिवां शिवः । प्रसादं कुरु देवेशि तपस्विन्यङ्गजेऽत्र वै ॥ २८ ॥ इत्याकर्ण्य वचश्शम्भोः पार्वती जगदम्बिका । अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९ ॥ देव्युवाच वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा । भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन ह ॥ ३० ॥ देवेन दत्ता ये तुभ्यं वराः सन्तु तथैव ते । कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१ ॥ इति दत्त्वा वरान्देवो देव्या सह महेश्वरः । धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२ ॥ इत्थं सखित्वं श्रीशम्भोः प्रापैष धनदः पुरम् । अलकान्निकषा चासीत्कैलासः शङ्करालयः ॥ ३३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥ श्रीगौरीशंकरार्पणमस्तु |