|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
विंशोऽध्यायः ॥
कैलासोपाख्याने शिवस्य कैलासगमनम्
ब्रह्मोवाच
नारद त्वं शृणु मुने शिवागमनसत्तमम् । कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १ ॥ निधिपत्ववरं दत्त्वा गत्वा स्वस्थानमुत्तमम् । विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २ ॥ विध्यङ्गजः स्वरूपो मे पूर्णः प्रलयकार्यकृत् । तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३ ॥ रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्म निष्फलः । हरि ब्रह्मादिभिः सेव्यो मदभिन्नो निरञ्जन ॥ ४ ॥ तत्स्वरूपेण तत्रैव सुहृद्भूत्वा विलास्यहम् । कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५ ॥ इति सञ्चिन्त्य रुद्रोऽसौ शिवेच्छां गन्तुमुत्सुकः । ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६ ॥ त्रैलोक्या मानसे तस्या ध्वनिरुत्साहकारकः । आह्वानगतिसंयुक्तो विचित्रः सान्द्रशब्दकः ॥ ७ ॥ तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा । आगमा निगमा मूर्ताःसिद्धा जग्मुश्च तत्र वै ॥ ८ ॥ सुरासुराद्याः सकलास्तत्र जग्मुश्च सोत्सवाः । सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९ ॥ गणपाश्च महाभागाःसर्वलोकनमस्कृताः । तेषां सङ्ख्यामहं वच्मि सावधानतया शृणु ॥ १० ॥ अभ्ययाच्छङ्खकर्णश्च गणकोट्या गणेश्वरः । दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११ ॥ चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः । षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥ जालङ्को हि द्वादशभिः कोटिभिर्गणपुङ्गवः । सप्तभिः श्रीमदः श्रीमाँस्तथैव विकृताननः ॥ १३ ॥ पञ्चभिश्च कपाली हि षड्भिः सन्दारकः शुभः । कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४ ॥ विष्टम्भोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः । १५ ॥ महाकेशःसहस्रेण कोटीनां गणपो वृतः । १६ ॥ कुण्डी द्वादशभिर्वाहस्तथा पर्वतकः शुभः । कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७ ॥ अग्निकः शतकोट्या वै कोट्याभिमुख एव च । आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ॥ १८ ॥ सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा । अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः ॥ १९ ॥ काकपादोऽपरः षष्ट्या षष्ट्या सन्तानकः प्रभुः । महाबलश्च नवभिर्मधुपिङ्गश्च पिङ्गलः ॥ २० ॥ नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च । कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१ ॥ कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः । तत्राजगाम सर्वेशः कैलासगमनाय वै ॥ । २२ ॥ काष्ठागूढश्चतुःषष्ट्या सुकेशो वृषभस्तथा । कोटिभिःसप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ॥ २३ ॥ लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तकः प्रभुः । देवो भृङ्गी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४ ॥ अशनिर्भानुकश्चैव चतुःषष्ट्या सनातनः । नन्दीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५ ॥ एते चान्ये च गणपा असङ्ख्याता महाबलः । सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६ ॥ सर्वे चन्द्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः । हारकुण्डलकेयूरमुकुटाद्यैरलङ्कृताः ॥ २७ ॥ ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगणैर्वृताः । सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८ ॥ एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः । जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९ ॥ गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् । सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ ३० ॥ इति विष्ण्वादिभिः सार्द्धं महेशः परमेश्वरः । कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१ ॥ कुबेरोऽप्यागतं शम्भुं पूजयामास सादरम् । भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२ ॥ ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् । शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३ ॥
अथ शम्भुस्तमालिङ्ग्य कुबेरं प्रीतमानसः । मूर्ध्निं चाघ्राय सन्तस्थावलकां निकषाखिलैः ॥ ३४ ॥ शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः । नानाभक्तनिवासाय स्वपरेषां यथोचितम् ॥ ३५ ॥ विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने । रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६ ॥ अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७ ॥ कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् । सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८ ॥ अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः । अथ सर्वे प्रमुदिता विष्णुप्रभृतयः सुराः । मुनयश्चापरे सिद्धा अभ्यषिञ्चन्मुदा शिवम् । ३९ ॥ समानर्चुः क्रमात्सर्वे नानोपायनपाणयः । नीराजनं समाकार्षुर्महोत्सवपुरःसरम् ॥ ४० ॥ तदाऽऽसीत्सुमनोवृष्टिर्मङ्गलायतना मुने । सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१ ॥ जयशब्दो नमःशब्दस्तत्रासीत्सर्वसंस्कृतः । तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२ ॥ स्थित्वा सिंहासने शम्भुर्विराजाधिकं तदा । सर्वैः संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३ ॥ अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक् पृथक् । अर्थ्याभिर्वाग्भिरिष्टाभिः शकरं लोकशङ्करम् ॥ ४४ ॥ प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः । मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः ॥ ४५ ॥ शिवाज्ञयाथ ते सर्वे स्वं स्वं धाम ययुर्मुने । प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह ॥ ४६ ॥ उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह । बहु सम्बोध्य सुप्रीत्याऽनुगृह्य परमेश्वरः ॥ ४७ ॥ शिव उवाच हे हरे हे विधे तात युवां प्रियतरौ मम । सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा ॥ ४८ ॥ गच्छतं निर्भयन्नित्यं स्वस्थानञ्च मदाज्ञया । अहं सुखप्रदाता वा विशेषात्प्रेक्षकः सदा ॥ ४९ ॥ इत्याकर्ण्य वचः शम्भोः सुप्रणम्य तदाज्ञया । अहं हरिश्च स्वं धामागमावप्रीतमानसौ ॥ ५० ॥ तदानीमेव सुप्रीतः शङ्करो निधिपम्मुदा । उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१ ॥ शिव उवाच तव प्रेम्णा वशीभूतो मित्रतागमनं सखे । स्वस्थानण् गच्छ विभयः सहायोहं सदानघ ॥ ५२ ॥ इत्याकर्ण्य वचः शम्भोः कुबेरः प्रीतमानसः । तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३ ॥ स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे । सगणो योगनिरतः स्वच्छन्दो ध्यान तत्परः ॥ ५४ ॥ क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् । इतिहासं गणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५ ॥ क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः । विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६ ॥ इत्थं रुद्रस्वरूपोऽसौ शङ्करः परमेश्वरः । अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७ ॥ नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः । पश्चादवाप स्वां पत्नीं दक्षपत्नीसमुद्भवाम् ॥ ५८ ॥ विजहार तया सत्या दक्षपुत्र्या महेश्वरः । सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९ ॥ इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर । कैलासागमनञ्चास्य सखित्वं निधिपस्य हि ॥ ६० ॥ तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी । इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१ ॥ इमां कथां पठेद्यस्तु शृणुयाद्वा समाहितः । इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ॥ ६२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २० ॥ श्रीगौरीशंकरार्पणमस्तु |