|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
अष्टादशोऽध्यायः ॥
कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनम्
ब्रह्मोवाच
श्रुत्वा तथा स वृत्तान्तं प्राक्तनं स्वं विनिन्द्य च । काञ्चिद्दिशं समालोक्य निर्ययौ दीक्षिताङ्गजः ॥ १ ॥ कियच्चिरं ततो गत्वा यज्ञदत्तात्मजः स हि । दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ॥ २ ॥ चिन्तामवाप महतीं क्व यामि करवाणि किम् । नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ॥ ३ ॥ देशान्तरे यस्य धनं स सद्यः सुखमेधते । भयमस्ति धने चौरात्स विघ्नः सर्वतोभवः ॥ ४ ॥ याजकस्य कुले जन्म कथं मे व्यसनं महत् । अहो बलीयान्हि विधिर्भाविकर्मानुसन्धयेत् ॥ ५ ॥ भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् । न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ॥ ६ ॥ सदाऽनभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् । दद्यादद्यात्र कं याचे न चेह जननी मम ॥ ७ ॥ ब्रह्मोवाच इति चिन्तयतस्तस्य बहुशस्तत्र नारद । अति दीनं तरोर्मूले भानुरस्ताचलं गतः ॥ ८ ॥ एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः । सहोपहारानादाय नगराद्बहिरभ्यगात् ॥ ९ ॥ नानाविधान्महादिव्यान्स्वजनैः परिवारितः । समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ॥ १० ॥ शिवालयं प्रविश्याथ स भक्तः शिवसक्तधीः । यथोचितं सुचित्तेन पूजयामास शङ्करम् ॥ ११ ॥ पक्वान्नगन्धमाघ्राय यज्ञदत्तात्मजो द्विजः । पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ॥ १२ ॥ इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि । सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ॥ १३ ॥ इत्याशामवलम्ब्याथ द्वारि शम्भोरुपाविशत् । ददर्श च महापूजां तेन भक्तेन निर्मिताम् ॥ १४ ॥ विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणे यदा । नैवेद्यं स तदाऽऽदातुं भर्गागारं विवेश ह ॥ १५ ॥ दीपं मन्दप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः । निजचैलाञ्जलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ॥ १६ ॥ यज्ञदत्तात्मजः सोऽथ शिवनैवेद्यमादरात् । जग्राह सहसा प्रीत्या पक्वान्न बहुशस्ततः ॥ १७ ॥ ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः । तस्य पादतलाघातात्प्रसुप्तः कोऽप्यबुध्यत ॥ १८ ॥ कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यतामसौ । इति चुक्रोश स जनो गिरा भयमहोच्चया ॥ १९ ॥ यावद्भयात्समागत्य तावत्स पुररक्षकैः । पलायमानो निहतः क्षणादन्धत्वमागतः ॥ २० ॥ अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने । शिवानुग्रहतो नूनं भाविपुण्यबलानच्च सः ॥ २१ ॥ मृतो बद्धः समागत्य पाशमुद्गरपाणिभिः । निनीषुभिः संयमनीं याम्यैः स विकटैर्भटैः ॥ २२ ॥ तावत्पारिषदाः प्राप्ताः किङ्किणीजालमालिनः । दिव्यं विमानमादाय तं नेतुं शूलपाणयः ॥ २३ ॥ शिवगणा ऊचुः मुञ्चतैनं द्विजं याम्या गणाः परमधार्मिकम् । दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसञ्चयः ॥ २४ ॥ इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः । महादेवगणानाहुर्बभूवुश्चकिता भृशम् ॥ २५ ॥ शम्भोर्गणानथालोक्य भीतैस्तैर्यमकिङ्करैः । अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ॥ २६ ॥ यमगणा ऊचुः कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः । सत्यशौचपरिभ्रष्टःसन्ध्यास्नानविवर्जितः ॥ २७ ॥ आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलङ्घकः । प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ॥ २८ ॥ शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलङ्घकाः । शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत् ॥ २९ ॥ विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम् । सेवितव्यं शिवस्वं न प्राणैः कण्ठगतैरपि ॥ ३० ॥ यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् । अस्ति चेद्धर्मलेशोऽस्य गणास्तं शृणु भो वयम् ॥ ३१ ॥ इत्थं तद्वाक्यमाकर्ण्य याम्यानां शिवकिङ्कराः । स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ॥ ३२ ॥ शिवकिङ्करा ऊचुः किङ्कराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः । स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥ ३३ ॥ अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् । यज्ञदत्तात्मजेनाथ सावधानतया गणाः ॥ ३४ ॥
पतन्ती लिङ्गशिरसि दीपच्छाया निवारिता । स्वचैलाञ्चलतोऽनेन दत्त्वा दीपदशां निशि ॥ ३९ ॥ अपरोपि परो धर्मो जातस्तत्रास्य किङ्करः । शृण्वतः शिवनामानि प्रसङ्गादपि गृह्णताम् ॥ ३६ ॥ भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता । उपोषितेन भूतायामनेन स्थितचेतसा ॥ ३७ ॥ शिवलोकमयं ह्यद्य गन्तास्माभिः सहैव तु । कञ्चित्कालं महाभोगान्करिष्यति शिवानुगः ॥ ३८ ॥ कलिङ्गराजो भविता ततो निर्धूतकल्मषः । एष द्विजवरो नूनं शिवप्रियतरो यतः ॥ ३९ ॥ अन्यत्किञ्चिन्न वक्तव्यं यूयं यात यथागतम् । यमदूताःस्वलोकं तु सुप्रसन्नेन चेतसा ॥ ४० ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर । यथागतं ययुः सर्वे यमलोकं पराङ्मुखाः ॥ ४१ ॥ सर्वं निवेदयामासुश्शमनाय गणा मुने । तद्वृत्तमादितः प्रोक्तं शम्भुदूतैश्च धर्मतः ॥ ४२ ॥ धर्मराज उवाच सर्वे शृणुत मद्वाक्यं सावधानतया गणाः । तदेव प्रीत्या कुरुत मच्छासनपुरःसरम् ॥ ४३ ॥ ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४४ ॥ उद्धूलनकरा ये हि विभूत्या सितया गणाः । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४५ ॥ शिववेषतया लोके येन केनापि हेतुना । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४६ ॥ ये रुद्राक्षधरा लोके जटाधारिण एव ये । ते सवे परिहर्तव्या नानेतव्याः कदाचन ॥ ४७ ॥ उपजीवनहेतोश्च शिववेषधरा हि ये । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ॥ ४८ ॥ दम्भेनापि च्छलेनापि शिववेषधरा हि ये । ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ॥ ४९ ॥ एवमाज्ञापयामास स यमो निज किङ्करान् । तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः ॥ ५० ॥ ब्रह्मोवाच पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः । शिवलोकं जगामाशु तैर्गणैः शुचिमानसः ॥ ५१ ॥ तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ । अरिन्दमस्य तनयः कलिङ्गाधिपतेरभूत् ॥ ५२ ॥ दम इत्यभिधानोऽभूच्छिवसेवापरायणः । बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः ॥ ५३ ॥ क्रमाद्राज्यमवापाथ पितर्युपरते युवा । प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः ॥ ५४ ॥ नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः । शिवालयेषु सर्वेषु दीपदानादृते द्विजः ॥ ५५ ॥ ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् । इत्थमाज्ञापयामास दीपा देयाः शिवालये ॥ ५६ ॥ अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति । दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ॥ ५७ ॥ यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः । तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम् ॥ ५८ ॥ ममाज्ञाभङ्गदोषेण शिरश्छेत्स्याम्यसंशयम् । इति तद्भयतो दीपा दीप्ताः प्रति शिवालयम् ॥ ५९ ॥ अनेनैव स धर्मेण यावज्जीवं दमो नृपः । धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ॥ ६० ॥ स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै । अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥ ६१ ॥ एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् । इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ॥ ६२ ॥ क्व स दीक्षितदायादः सर्वधर्मारतिः सदा । शिवालये दैवयोगाद्यातश्चोरयितुं वसु ॥ स्वार्थदीपदशोद्योतलिङ्गमौलितमोहरः । ६३ ॥ कलिङ्गविषये राज्यं प्राप्तो धर्मरतिं सदा । शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥ ६४ ॥ क्वैषा दिक्पालपदवी मुनीश्वर विलोकय । मनुष्यधर्मिणाऽनेन साम्प्रतं येह भुज्यते ॥ ६५ ॥ इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि । चरितं शिवसन्तोषं शृण्वतां सर्वकामदम् ॥ ६६ ॥ सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् । तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ॥ ६७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥ श्रीगौरीशंकरार्पणमस्तु |