॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

सप्तदशोऽध्यायः ॥

गुणनिधिचरित्रवर्णनम्


सूत उवाच
इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः ।
पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १ ॥
नारद उवाच
कदा गतो हि कैलासं शङ्‌करो भक्तवत्सलः ।
क्व वा सखित्वं तस्यासीत् कुबेरेण महात्मना ॥ २ ॥
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ।
एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ३ ॥
ब्रह्मोवाच
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ।
यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४ ॥
असीत्काम्पिल्यनगरे सोमयाजिकुलोद्‌भवः ।
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५ ॥
वेदवेदाङ्‌गवित्प्राज्ञो वेदान्तादिषु दक्षिणः ।
राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः ॥ ६ ॥
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ।
सुन्दरो रमणीयाङ्‌गश्चन्द्रबिम्बसमाकृतिः ॥ ७ ॥
आसीद्‌गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः ।
कृतोपनयनः सोष्टौ विद्या जग्राह भूरिशः ॥
अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत् । ८ ॥
आदायादाय बहुशो वनं मातुः सकाशतः ।
समदाद् द्यूतकारेभ्यो मैत्रीं तैश्च चकार सः ॥ ९ ॥
सन्त्यक्तब्राह्मणाचारः सन्ध्यास्नानपराङ्मुखः ।
निन्दको वेदशास्त्राणां देवब्राह्मणनिन्दकः ॥ १० ॥
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ।
नटपाखण्डभाण्डैस्तु बद्धप्रेमपरम्परः ॥ ११ ॥
प्रेरितोऽपि जनन्या स न ययौ पितुरन्तिकम् ।
गृहकार्यान्तरव्याप्तो दीक्षितो दीक्षितायिनीम् ॥ १२ ॥
यदा यदैव तां पृच्छेदये गुणनिधिः सुतः ।
न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३ ॥
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।
स्नात्वा समर्च्य वै देवानेतावन्तमनेहसम् ॥ १४ ॥
अधीत्याध्ययनार्थं स द्विजैर्मित्रैः समं ययौ ।
एकपुत्रेति तन्माता प्रतारयति दीक्षितम् ॥ १५ ॥
न तत्कर्म च तद्वृत्तं किञ्चिद्वेत्ति स दीक्षितः ।
सर्वं केशान्तकर्मास्य चक्रे वर्षेऽथ षोडशे ॥ १६ ॥
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च ।
गृह्योक्तेन विधानेन पाणिग्राहमकारयम् ॥ १७ ॥
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु ।
शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १८ ॥
क्रोधनस्तेऽस्ति तनयः स महात्मा पितेत्यलम् ।
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति ॥ १९ ॥
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ।
लोकमान्योऽस्ति ते तातः सदाचारैर्न वै धनैः ॥ २० ॥
ब्राह्मणानां धनं तात सद्विद्या साधुसंगमः ।
किमर्थं न करोषि त्वं स्वरुचिं प्रीतमानसः ॥ २१ ॥
सच्छ्रोत्रियास्तेऽनूचाना दीक्षिताःसोमयाजिनः ।
इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२ ॥
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसङ्‌गरतो भव ।
सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३ ॥
तातानुरूपो रूपेण यशसा कुलशीलतः ।
ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ॥ २४ ॥
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।
एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५ ॥
श्वशुरोऽपि हि ते मान्यःसर्वत्र गुणशीलतः ।
ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ॥ २६ ॥
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ।
तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७ ॥
पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान् ।
गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८ ॥
राजाऽपि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।
श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९ ॥
बालचेष्टितमेवैतद्वदन्त्यद्यापि ते जनाः ।
अनन्तरं हरिष्यन्ति युक्तां दीक्षिततामिह ॥ ३० ॥
सर्वेप्याक्षारयिष्यन्ति तव तातं च मामपि ।
मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१ ॥
पिताऽपि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ।
तदङ्‌घ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२ ॥
न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम् ।
अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३ ॥
प्रतिक्षणं जनन्येति शिक्ष्यमाणोऽपि दुर्मतिः ।
न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४ ॥
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ।
स वारदारैर्व्यसनैरेभिः कोऽत्र न खण्डितः ॥ ३५ ॥
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।
अर्पयेद् द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६ ॥
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ।
चोरयित्वैकदाऽऽदाय दुरोदरकरेऽर्पयत् ॥ ३७ ॥
दीक्षितेन परिज्ञातो दैवाद् द्यूतकृतः करे ।
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८ ॥
पृष्टस्तेनाथ निर्बन्धादसकृत्तमुवाच सः ।
मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९ ॥
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ।
मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः ॥ ४० ॥
न केवलं ममैवैतदङ्‌गुलीयं समर्पितम् ।
अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१ ॥
रत्नकुप्यदुकूलानि शृङ्‌गारप्रभृतीनि च ।
भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२ ॥
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ।
न तेन सदृशः कश्चिदाक्षिको भूमिमण्डले ॥ ४३ ॥
अद्यावधि त्वया विप्र दुरोदरशिरोमणिः ।
कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४ ॥
इति श्रुत्वा त्रपाभारविनम्रतरकन्धरः ।
प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५ ॥
महापतिव्रतामस्य पत्नी प्रोवाच तामथ ।
स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६ ॥
यज्ञदत्त उवाच
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिः सुतः ।
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥ ॥ ४७ ॥
अङ्‌गोद्वर्तनकाले या त्वया मेऽङ्‌गुलितो हृता ।
सा त्वं रत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ॥ ४८ ॥
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ।
प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ॥ ४९ ॥
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ।
समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ ५० ॥
इदानीमेव पक्वान्नकारणव्यग्रया मया ।
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१ ॥
दीक्षित उवाच
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।
यदा यदा त्वां सम्पृछे तनयः क्व गतस्त्विति ॥ ५२ ॥
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ।
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः ॥ ५३ ॥
कुतस्ते शाटकः पत्नि माञ्जिष्ठो यो मयार्पितः ।
लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४ ॥
साम्प्रतं नेक्ष्यते सोऽपि भृङ्‌गारो मणिमण्डितः ।
पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५ ॥
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।
नागदन्तमयी सा क्व सुखकौतुकमञ्चिका ॥ ५६ ॥
क्व सा पर्वतदेशीया चन्द्रकान्तिरिवाद्‌भुता ।
दीपकव्यग्रहस्ताग्राऽलङ्‌कृता शालभञ्जिका ॥ ५७ ॥
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।
तदाभ्यवहारिष्येऽहमुपयंस्याम्यहं यदा ॥ ५८ ॥
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ।
उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलाञ्जलिम् ॥ ५९ ॥
अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ।
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ ६० ॥
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ।
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥ १७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP