|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
षोडशोऽध्यायः ॥
ब्रह्मनारदसंवादे सृष्टिवर्णनम्
ब्रह्मोवाच
शब्दादीनि च भूतानि पञ्चीकृत्वाहमात्मना । तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १ ॥ पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद । कलादियुगपर्येतान्कालानन्यानवासृजम् ॥ २ ॥ सृष्ट्यन्तानपरांश्चापि नाहं तुष्टोऽभवं मुने । ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३ ॥ मरीचिं च स्वनेत्राभ्यां हृदयाद् भृगुमेव च । शिरसोऽङ्गिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४ ॥ उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः । क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५ ॥ असृजं त्वां तदोत्सङ्गाच्छायायाः कर्दमं मुनिम् । सङ्कल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६ ॥ एवमेतानहं सृष्ट्वा कृतार्थः साधकोत्तमान् । अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७ ॥ ततो मदाज्ञया तात धर्मः सङ्कल्पसम्भवः । मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ८ ॥ ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् । सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९ ॥ ततोऽहं शङ्करेणाथ प्रेरितोऽन्तर्गतेन ह । द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ १० ॥ अर्द्धेन नारी पुरुषश्चार्द्धेन सन्ततो मुने । स तस्यामसृजद्द्वन्द्वं सर्वसाधनमुत्तमम् । ११ ॥ स्वायम्भुवो मनुस्तत्र पुरुषः परसाधनम् । शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥ सा पुनर्मनुना तेन गृहीतातीव शोभना । विवाहविधिना तातासृजत्सर्गं समैथुनम् ॥ १३ ॥ तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः । तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः ॥ १४ ॥ आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः । आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५ ॥ ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताम् । तासां प्रसूतिप्रसवैः सर्वं व्याप्तं चराचरम् ॥ १६ ॥ आकूत्यां च रुचेश्चाभूद्द्वन्द्वं यज्ञश्च दक्षिणा । यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७ ॥ देवहूत्यां कर्दमाच्च बह्व्यो जाताः सुता मुने । दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८ ॥ धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश । शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर ॥ १९ ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया । बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्तिस्त्रयोदश ॥ २० ॥ ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिःसत्पथसम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ २१ ॥ सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा । भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ २२ ॥ पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा । अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३ ॥ ख्यातास्ता जगृहुः कन्या भृग्वाद्याः साधका वराः । ततःसम्पूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४ ॥ एवं कर्मानुरूपेण प्रणिनामम्बिकापते । आज्ञया बहवो जाता असङ्ख्याता द्विजर्षभाः ॥ २५ ॥ कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः । तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६ ॥
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश । चतस्रः पररूपाय ददौ तार्क्ष्याय नारद ॥ २७ ॥ भृग्वङ्गिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् । ताभ्यस्तेभ्यस्तु सञ्जाता बह्वी सृष्टिश्चराचरा ॥ २८ ॥ त्रयोदशमितास्तस्मै कश्यपाय महात्मने । दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९ ॥ तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् । स्थावरं जङ्गमं चैव शून्यं नैव तु किञ्चन ॥ ३० ॥ देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे । वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१ ॥ दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् । पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२ ॥ ब्रह्माण्डं सकलं व्याप्तं शून्यं नैव कदाचन । एवं सृष्टिः कृता सम्यग्ब्रह्मणा शम्भुशासनात् ॥ ३३ ॥ सती नाम्नी त्रिशूलाग्रे सदा रुद्रेण रक्षिता । तपोर्थं निर्मिता पूर्वं शम्भुना सर्वविष्णुना ॥ ३४ ॥ सैव दक्षात्समुद्भूता लोककार्यार्थमेव च । लीलां चकार बहुशो भक्तोद्धरणहेतवे ॥ ३५ ॥ वामाङ्गो यस्य वैकुण्ठो दक्षिणाङ्गोऽहमेव च । रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः ॥ ३६ ॥ अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः । स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ॥ ३७ ॥ विष्णुःसत्त्वं रजोऽहं च तमो रुद्र उदाहृतः । लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८ ॥ अन्तस्तमो बहिःसत्त्वो विष्णूरुद्रस्तथा मतः । अन्तःस्तमो बहिः सत्त्वो रजोऽहं सर्वेथा मुने ॥ ३९ ॥ राजसी च स्वरा देवी सत्त्वरूपात्तु सा सती । लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ॥ ४० ॥ एवं शिवा सती भूत्वा शङ्करेण विवाहिता । पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ॥ ४१ ॥ पुनश्च पार्वती जाता देवप्रार्थनया शिवा । तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ॥ ४२ ॥ तस्य नामान्यनेकानि जातानि च मुनीश्वर । कालिका चण्डिका भद्रा चामुण्डा विजया जया ॥ ४३ ॥ जयन्ती भद्रकाली च दुर्गा भगवतीति च । कामाख्या कामदा ह्यम्बा मृडानी सर्वमङ्गला ॥ ४४ ॥ नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च । गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वति ॥ ४५ ॥ गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः । मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६ ॥ एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम । शिवाज्ञया विरचितो ब्रह्माण्डस्य मयाऽखिलः ॥ ४७ ॥ परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः । अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८ ॥ शिवया रमते स्वैरं शिवलोके मनोरमे । स्वतन्त्रः परमात्मा हि निर्गुणःसगुणोऽपि वै ॥ ४९ ॥ तस्य पूर्णवतारो हिं रुद्रः साक्षाच्छिवः स्मृतः । कैलासे भवनं रम्यं पञ्चवक्त्रश्चकार ह । ब्रह्माण्डस्य तथा नाशे तस्य नाशोऽस्ति वै न हि ॥ ५० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६ ॥ श्रीगौरीशंकरार्पणमस्तु |