|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
पञ्चदशोऽध्यायः ॥
रुद्रावताराविर्भाववर्णनम्
नारद उवाच
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम । श्राविताऽद्याद्भुता शैवी कथा परमपावनी ॥ १ ॥ तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा । श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥ अनन्तरं च यज्जातं माहात्म्यं चरितं तथा । सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३ ॥ ब्रह्मोवाच सम्यक् पृष्टे च भवता यज्जातं तदनन्तरम् । कथयिष्यामि सङ्क्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४ ॥ अन्तर्हिते तदा देवे शिवरूपे सनातने । अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५ ॥ मया च विष्णुना रूपं हंसवाराहयोस्तदा । संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६ ॥ नारद उवाच विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् । कृपां कृत्वाऽतुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७ ॥ हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् । अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८ ॥ सूत उवाच इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः । स्मृत्वा शिवपदाम्भोजं ब्रह्मा सादरमब्रवीत् ॥ ९ ॥ ब्रह्मोवाच हंसस्य चोर्ध्वगमने गतिर्भवति निश्चला । तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ १० ॥ अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः । हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११ ॥ विवेको नैव लब्धश्च यतो हंसो व्यलीयत । शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२ ॥ सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते । यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३ ॥ गमनेऽधो वराहस्य गतिर्भवति निश्चला । धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४ ॥ अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् । विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५ ॥ यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः । तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसञ्ज्ञकः ॥ १६ ॥ तदिच्छा वा यदा जाता तस्य रूपस्य धारणे । तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसञ्ज्ञकः ॥ १७ ॥ इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद । स्मृत्वा शिवपदाम्भोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८ ॥ अन्तर्हिते महादेवे त्वहं लोकपितामहः । तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९ ॥ नमस्कृत्य तदा शम्भुं ज्ञानं प्राप्य हरेस्तदा । आनन्दं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ २० ॥ विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् । उपदिश्य च मां तात ह्यन्तर्धानमुपागतः ॥ २१ ॥ ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् । वैकुण्ठनगरं गत्वा तत्रोवास हरिः सदा ॥ २२ ॥ अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया । पूर्वं सृष्टं जलं यच्च तत्राञ्जलिमुदाक्षिपम् ॥ २३ ॥ अतोऽण्डमभवत्तत्र चतुर्विंशतिसञ्ज्ञकम् । विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४ ॥ ततः संशयमापन्नस्तपस्तेपे सुदारुणम् । द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५ ॥ तस्मिंश्च समये तात प्रादुर्भूतो हरिः स्वयम् । मामुवाच महाप्रीत्या मदङ्गं संस्पृशन्मुदा ॥ २६ ॥ विष्णुरुवाच वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव । ब्रह्मञ्छम्भुप्रसादेन सर्वं दातुं समर्थकः ॥ २७ ॥ ब्रह्मोवाच युक्तमेतन्महाभाग दत्तोऽहं शम्भुना च ते । तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८ ॥ विराड्रूपमिदं ह्यण्डं चतुर्विंशतिसञ्ज्ञकम् । न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९ ॥ प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे । प्राप्तं शङ्करसम्भूत्या ह्यण्डं चैतन्यमावह ॥ ३० ॥ इत्युक्ते च महाविष्णुः शम्भोराज्ञापरायणः । अनन्तरूपमास्थाय प्रविवेश तदण्डकम् ॥ ३१ ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृक्त्वा तदण्डं व्याप्तवानिति ॥ ३२ ॥
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे । सचेतनमभूदण्डं चतुर्विंशतिसञ्ज्ञकम् ॥ ३३ ॥ पातालादि समारभ्य सप्तलोकाधिपः स्वयम् । राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४ ॥ कैलासनगरं रम्यं सर्वोपरि विराजितम् । निवासार्थं निजस्यैव पञ्चवक्त्रश्चकार ह ॥ ३५ ॥ ब्रह्माण्डस्य तथा नाशे वैकुण्ठस्य च तस्य च । कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६ ॥ सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम । सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७ ॥ सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः। अविद्यापञ्चकस्तात बुद्धिपूर्वस्तमोपमः । ३८ ॥ ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् । मुख्यसर्गं च निःसङ्गमध्यायं शम्भुशासनात् ॥ ३९ ॥ तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः । सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ ४० ॥ तं चासाधकमाज्ञाय पुनश्चिन्तयतश्च मे । अभवत्सात्त्विकः सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१ ॥ देवसर्गः प्रतिख्यातःसत्योऽतीव सुखावहः । तमप्यसाधकं मत्वाऽचिन्तयं प्रभुमात्मनः ॥ ४२ ॥ प्रादुरासीत्ततःसर्गो राजसः शङ्कराज्ञया । अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३ ॥ महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् । इति पञ्चविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४ ॥ त्रयःसर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः । तत्राद्यो महतः सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५ ॥ वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः । एवं चाष्टविधाः सर्गाः प्रकृतेर्वेकृतैः सह ॥ ४६ ॥ कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः । एषामवान्तरो भेदो मया वक्तुं न शक्यते ॥ ४७ ॥ अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् । कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८ ॥ सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः । महावैराग्यसम्पन्ना अभवन्पञ्च सुव्रताः ॥ ४९ ॥ मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः । शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ ५० ॥ प्रत्युत्तरं च तैर्दत्तं श्रुत्वाऽहं मुनिसत्तम । अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१ ॥ कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम । क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ॥ ५२ ॥ तस्मिन्नवसरे तत्र स्मृतेन मनसा मया । प्रबोधितोहं त्वरितमागतेना हि विष्णुना ॥ ५३ ॥ तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् । तपोकारीमहद्घोरं परमं मुनिसत्तम ॥ ५४ ॥ तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः । अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५ ॥ त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः । अर्द्धनारीश्वरो भूत्वा पूर्णाशःसकलेश्वरः ॥ ५६ ॥ तमजं शङ्करं साक्षात्तेजोराशिमुमापतिम् । सर्वज्ञं सर्वकर्तारं नीललोहितसञ्ज्ञकम् ॥ ५७ ॥ दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः । अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः ॥ ५८ ॥ श्रुत्वा मम वचःसोथ देवदेवो महेश्वरः । ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ॥ ५९ ॥ अवोचं पुनरेवेशं महारुद्रं महेश्वरम् । जन्ममृत्युभयाविष्टाःसृज देव प्रजा इति ॥ ६० ॥ एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः । प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१ ॥ महादेव उवाच जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे । अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ॥ ६२ ॥ अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः । सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३ ॥ त्वमेव सृज दुःखाढ्याः प्रजाःसर्वाः प्रजापते । मदाज्ञया न बद्धस्त्वं मायया सम्भविष्यसि ॥ ६४ ॥ ब्रह्मोवाच इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः । सगणः पश्यतो मे हि द्रुतमन्तर्दधे हरः ॥ ६५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांप्रथमखण्डे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः ॥ १५ ॥ श्रीगौरीशंकरार्पणमस्तु |