|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
चतुर्दशोऽध्यायः ॥
शिवपूजाविधानवर्णनम्
ऋषय ऊचुः
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः । कैः पुष्पैः पूजितः शम्भुः किं किं यच्छति वै फलम् ॥ १ ॥ । सूत उवाच शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥ कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् । २ ॥ एष एव विधिः पृष्टो नारदेन महर्षिणा । प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३ ॥ ब्रह्मोवाच कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः । शङ्खपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४ ॥ एतैश्च लक्षसङ्ख्याकैः पूजितश्चेद्भवेच्छिवः । पापहानिस्तथा विप्र लक्ष्मीः स्यान्नात्र संशयः ॥ ५ ॥ विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् । बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ ६ ॥ शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् । पलैः षोडशभिः प्रस्थः पलं टङ्कदश स्मृतः ॥ ७ ॥ अनेनैव तु मानेन तुलामारोपयेद्यदा । सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८ ॥ राज्यस्य कामुको यो वै पार्थिवानां च पूजया । तोषयेच्छङ्करं देवं दशकोष्ट्या मुनीश्वराः ॥ ९ ॥ लिङ्गं शिवं तथा पुष्पमखण्डं तन्दुलं तथा । चर्चितं चन्दनेनैव जलधारां तथा पुनः ॥ १० ॥ प्रतिरूपं तथा मन्त्रं बिल्वीदलमनुत्तमम् । अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११ ॥ शङ्खपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः । सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२ ॥ धूपं दीपं च नैवेद्यमर्घं चारार्तिकं तथा । प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ ३३ ॥ कृत्वा साङ्गं तथा भोज्यं कृतं येन भवेदिह । तस्य वै सर्वथा राज्यं शङ्करः प्रददाति च ॥ १४ ॥ प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् । कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ॥ १५ ॥ रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् । कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः ॥ १६ ॥ विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् । वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७ ॥ उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् । मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८ ॥ सामन्तानां जये चैव कोटिपूजा प्रशस्यते । राज्ञामयुतसङ्ख्यं च वशीकरणकर्मणि ॥ १९ ॥ यशसे च तथा सङ्ख्या वाहनाद्यैः सहस्रिका । मुक्तिकामोर्चयेच्छम्भुं पञ्चकोट्या सुभक्तितः ॥ २० ॥ ज्ञानार्थी पूजयेत्कोट्या शङ्करं लोक शङ्करम् । शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१ ॥ तथा मृत्युञ्जयो जाप्यः कामनाफलरूपतः । पञ्चलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२ ॥ लक्षेण भजते कश्चिद्द्वितीये जातिसम्भवः । तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३ ॥ पञ्चमं च यदा लक्षं फलं यच्छत्यसंशयम् । अनेनैव तु मन्त्रेण दशलक्षे फलं भवेत् ॥ २४ ॥ मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् । लक्षसङ्ख्या तु सर्वत्र ज्ञातव्य ऋषिसत्तम ॥ २५ ॥ आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनञ्चरेत् । पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६ ॥ रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः । अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७ ॥ भुक्तिमुक्तिफलं तस्य तुलस्या पूजयेद्यदि । अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ॥ २८ ॥ जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता । रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९ ॥ बन्धुकैर्भूषणावाप्तिर्जात्या वाहान्न संशयः । अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात् ॥ ॥ ३० ॥ शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च । मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१ ॥ यूथिकाकुसुमैः शस्तैर्गृहं नैव विमुच्यते । कर्णिकारैस्तथा वस्त्रसम्पत्तिर्जायते नृणाम् ॥ ३२ ॥ निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् । बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३ ॥ हारशृङ्गारपुष्पैस्तु वर्द्धते सुखसम्पदा । ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४ ॥ राजिकाकुसुमानीह शत्रूणां मृत्युदानि च । एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५ ॥ विद्यते कुसुमं तन्न यन्नैव शिववल्लभम् । चम्पकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६ ॥ अतः परं च धान्यानां पूजने शङ्करस्य च । प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७ ॥ तन्दुलारोपणे नॄणां लक्ष्मीवृद्धिः प्रजायते । अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८ ॥ षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः । पलद्वयं तथा लक्षमानेन समदाहृतम् ॥ ३९ ॥ पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् । शिवोपरि न्यसेत्तत्र तन्दुलार्पणमुत्तमम् ॥ ४० उपरि श्रीफलं त्वेकं गन्धपुष्पादिभिस्तथा । रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत् ॥ ॥ ४१ ॥ प्रजापत्यद्वयं रौप्यमाषङ्ख्या च दक्षिणा । देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥ आदित्यसङ्ख्यया तत्र ब्राह्मणान्भोजयेत्ततः । लक्षपूजा तथा जाता साङ्गञ्च मन्त्रपूर्वकम् ॥ ४३ ॥
शतमष्टोत्तरं तत्र मन्त्रे विधिरुदाहृतः । तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४ ॥ एकादशपलैरेव लक्षमानमुदाहृतम् । पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५ ॥ भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि । महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६ ॥ यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे । प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ॥ ४७ ॥ पलद्वययुतं तत्र मानमेतत्पुरातनम् । यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ॥ ४८ ॥ प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः । गोधूमान्नैस्तथा पूजा प्रशस्ता शङ्करस्य वै ॥ ४९ ॥ सन्ततिर्वर्द्धते तस्य यदि लक्षावधिः कृता । द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ ५० ॥ मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् । प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ॥ ५१ ॥ पलद्वययुतेनैव लक्षमुक्तं पुरातनैः । ब्राह्मणाश्च तथा भोज्या रुद्रसङ्ख्याप्रमाणतः ॥ ५२ ॥ प्रियङ्गुपूजनादेव धर्माध्यक्षे परात्मनि । धर्मार्थकामा वर्द्धन्ते पूजा सर्वसुखावहा ॥ ५३ ॥ प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः । ब्रह्मभोजं तथा प्रोक्तमर्कसङ्ख्याप्रमाणतः ॥ ५४ ॥ राजिकापूजनं शम्भोश्शत्रोर्मृत्युकरं स्मृतम् । सर्षपानां तथा लक्षं पलैर्विंशतिसङ्ख्यया ॥ ५५ ॥ तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः । आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम् ॥ ५६ ॥ वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च । मरीचिसम्भवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७ ॥ आढकीनां दलैश्चैव रञ्जयित्वार्चयेच्छिवम् । नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८ ॥ धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम । लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९ ॥ प्रस्थानां च तथा चैकं शङ्खपुष्पसमुद्भवम् । प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ ६० ॥ प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् । यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ॥ ६१ ॥ प्रस्थैर्विंशतिकैश्चैव मल्लिकामानमुत्तमम् । तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२ ॥ ततश्च त्रिगुणं मानं करवीरभवे स्मृतम् । निर्गुण्डीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३ ॥ कर्णिकारे तथा मानं शिरीषकुसुमे पुनः । बन्धुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४ ॥ इत्याद्यैर्विविधैर्मानं दृष्ट्वा कुर्याच्छिवार्चनम् । सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५ ॥ अतः परं प्रवक्ष्यामि धारापूजाफलं महत् । यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६ ॥ विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै । पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७ ॥ ज्वरप्रलापशान्त्यर्थं जलधारा शुभावहा । शतरुद्रियमन्त्रेण रुद्रस्यैकादशेन तु ॥ ६८ ॥ रुद्रजाप्येन वा तत्र सूक्तेन पौरुषेण वा । षडङ्गेनाथ वा तत्र महामृत्युञ्जयेन च ॥ ६९ ॥ गायत्र्या वा नमोऽन्तैश्च नामभिः प्रणवादिभिः । मन्त्रैवाथागमोक्तैश्च जलधारादिकं तथा ॥ ७० ॥ सुखसन्तानवृद्ध्यर्थं धारापूजनमुत्तमम् । नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१ ॥ घृतधारा शिवे कार्या यावन्मन्त्रसहस्रकम् । तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ७२ ॥ एवं मदुक्तमन्त्रेण कार्यं वै शिवपूजनम् । ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३ ॥ केवलं दुग्धधारा च तदा कार्या विशेषतः । शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४ ॥ तस्या सञ्जायते जीवसदृशी बुद्धिरुत्तमा । यावन्मन्त्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५ ॥ यदा चोच्चाटनं देहे जायते कारणं विना । यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ॥ ७६ ॥ स्वगृहे कलहो नित्यं यदा चैव प्रजायते । तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७ ॥ शत्रूणां तापनार्थं वै तैलधारा शिवोपरि । कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्ध्रुवं भवेत् ॥ ७८ ॥ वासितेनैव तैलेन भोगवृद्धिः प्रजायते । सार्षपेणैव तैलेन शत्रुनाशो भवेद्ध्रुवम् ॥ ७९ ॥ मधुना यक्षराजो वै गच्छेच्च शिवपूजनात् । धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ ८० ॥ धारा गङ्गाजलस्यैव भुक्तिमुक्तिफलप्रदा । एताःसर्वाश्च याः प्रोक्ता मृत्यञ्जयसमुद्भवाः ॥ ८१ ॥ तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः । कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसङ्ख्यया ॥ ८२ ॥ एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर । एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३ ॥ स्कन्दोमासहितं शम्भुं सम्पूज्य विधिना सह । यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४ ॥ अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् । ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५ ॥ सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः । रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६ ॥ क्रीडते शिवभूतश्च यावदाभूतसम्प्लवम् । ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७ ॥ इति श्रीशिवमहापुराणे प्रथम खण्डे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥ श्रीगौरीशंकरार्पणमस्तु |