॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

त्रयोदशोऽध्यायः ॥

शिवपूजनवर्णनम्


ब्रह्मोवाच
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।
श्रूयतामृषयो देवाःसर्वकामसुखावहम् ॥ १ ॥
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्साम्बकं शिवम् ।
कुर्यात्तत्प्रार्थनां भक्त्या साञ्जलिर्नतमस्तकः ॥ २ ॥
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।
उत्तिष्ठ त्वमुमास्वामिन् ब्रह्माण्डे मङ्‌गलं कुरु ॥ ३ ॥
जानामि धर्मं न च मे प्रवृत्ति-
र्जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया महादेव हृदिस्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ ४ ॥
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।
बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५ ॥
देहशुद्धिं ततः कृत्वा समृज्जलविशोधनैः ।
हस्तौ पादौ च प्रक्षाल्य दन्तधावनमाचरेत् ॥ ६ ॥
दिवानाथे त्वनुदिते कृत्वा वै दन्तधावनम् ।
मुखं षोडशवारं तु प्रक्षाल्याञ्जलिभिस्तथा ॥ ७ ॥
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।
वर्ज्याः सुरर्षयो यत्नाद्‌भक्तेन रदधावने ॥ ८ ॥
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।
देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९ ॥
रवेर्दिने तथा श्राद्धे सङ्‌क्रान्तौ ग्रहणे तथा ।
महादाने तथा तीर्थे ह्युपवासदिने तथा ॥ १० ॥
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।
यथा साभिमुखं स्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११ ॥
तैलाभ्यङ्‌गं च कुर्वीत वारान्दृष्ट्‍वा क्रमेण च ।
नित्यमभ्यङ्‌गके चैव वासितं वा न दूषितम् ॥ १२ ॥
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।
अथवा सार्षपं तैलं न दुष्येद्‌ग्रहणं विना ॥ १३ ॥
देशं कालं विचार्यैवं स्नानं कुर्याद्यथाविधि ।
उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः ॥ १४ ॥
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।
शुद्धवस्त्रेण स स्नायात्तद्देव स्मरपूर्वकम् ॥ १५ ॥
परधार्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।
तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६ ॥
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।
धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७ ॥
शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।
आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८ ॥
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।
चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ॥ १९ ॥
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।
तत्रोपविश्य कुर्वीत त्रिपुण्ड्रं भस्मना सुधीः ॥ २० ॥
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।
अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१ ॥
एवं कृत्वा त्रिपुण्ड्रं च रुद्राक्षान्धारयेन्नरः ।
सम्पाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२ ॥
पुनराचमनं कृत्वा त्रिवारं मन्त्रपूर्वकम् ।
एकं वाथ प्रकुर्याच्च गङ्‌गाबिन्दुरिति ब्रुवन् ॥ २३ ॥
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।
अन्यद्वस्तु च यत्किञ्चिद्यथाशक्ति समीपगम् ॥ २४ ॥
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।
अर्घपात्रं तथा चैकं जलगन्धाक्षतैर्युतम् ॥ २५ ॥
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।
गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६ ॥
सङ्‌कल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।
पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७ ॥
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम् ।
सिन्दुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८ ॥
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः ।
चतुर्थ्यन्तैर्नामपदैर्नमोन्तैः प्रणवादिभिः ॥ २९ ॥
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।
पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ ३० ॥
द्वारपालं सदा द्वारि तिष्ठन्तं च महोदरम् ।
पूजयित्वा ततः पश्चात्पूजयेद्‌गिरिजां सतीम् ॥ ३१ ॥
चन्दनैः कुङ्‌कुमैश्चैव धूपैर्दीपैरनेकशः ।
नैवेद्यैर्विविधैश्चैव पूजयित्वा ततः शिवम् ॥ ३२ ॥
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ ।
यदि गेहे पार्थिवीं वा सौवर्णीं राजतीं तथा ॥ ३३ ॥
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।
नमस्कृत्य पुनस्तां च पूजयेद्‌भक्तितत्परः ॥ ३४ ॥
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।
स्थापयेच्च मृदालिङ्‌गं विधाय विधिपूर्वकम् ॥ ३५ ॥
कर्तव्यं सर्वथा तत्र नियमात्स्वगृहे स्थितैः ।
प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६ ॥
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।
गृहे शिवः सदा पूज्यो मूलमन्त्राभियोगतः ॥ ३७ ॥
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।
गृहे लिङ्‌गं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८ ॥
पूजाकाले च साङ्‌गं वै परिवारेण संयुतम् ।
आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९ ॥
शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।
उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ ४० ॥
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।
मूलमन्त्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१ ॥
पञ्च मुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।
एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२ ॥
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।
बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३ ॥
उत्तानासनकं कृत्वा पर्यङ्‌कासनकं तथा ।
यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४ ॥
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।
यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५ ॥
पश्चाच्चैवार्घपात्रेण क्षालयेल्लिङ्‌गमुत्तमम् ।
अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६ ॥
पश्चाच्चावाहयेद्देवं मन्त्रेणानेन वै नरः ।
कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७ ॥
यथोक्तरूपिणं शम्भुं निर्गुणं गुणरूपिणम् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८ ॥
कर्पूरगौरं दिव्याङ्‌गं चन्द्रमौलिं कपर्दिनम् ।
व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९ ॥
वासुक्यादिपरीताङ्‌गं पिनाकाद्यायुधान्वितम् ।
सिद्धयोऽष्टौ च यस्याग्रे नृत्यन्तीह निरन्तरम् ॥ ५० ॥
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।
तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१ ॥
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपङ्‌कजम् ।
वेदैः शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ॥ ५२ ॥
भक्तवत्सलमानन्दं शिवमावाहयाम्यहम् ।
एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३ ॥
चतुर्थ्यन्तपदेनैव सर्वं कुर्याद्यथाक्रमम् ।
ततः पाद्यं प्रदद्याद्वै ततोऽर्घ्यं शङ्‌कराय च ॥ ५४ ॥
ततश्चाचमनं कृत्वा शम्भवे परमात्मने ।
पश्चाच्च पञ्चभिर्द्रव्यैः स्नापयेच्छङ्‌करं मुदा ॥ ५५ ॥
वेदमन्त्रैर्यथायोग्यं नामभिर्वा समन्त्रकैः ।
चतुर्थ्यन्तपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६ ॥
तथाभिलषितं द्रव्यमर्पयेच्छङ्‌करोपरि ।
ततश्च वारुणं स्नानं करणीयं शिवस्य वै ॥ ५७ ॥
सुगन्धं चन्दनं दद्यादन्यलेपानि यत्नतः ।
ससुगन्धजलेनैव जलधारां प्रकल्पयेत् ॥ ५८ ॥
वेदमन्त्रैः षडङ्‌गैर्वा नामभी रुद्रसङ्‌ख्यया ।
यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९ ॥
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।
तिलाश्चैव जवा वापि गोधूमा मुद्‌गमाषकाः ॥ ६० ॥
अर्पणीयाः शिवायैव मन्त्रैर्नानाविधैरपि ।
ततः पुष्पाणि देयानि पञ्चास्याय महात्मने ॥ ६१ ॥
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।
कमलैश्शतपत्रैश्च शङ्‌खपुष्पैः परैस्तथा ॥ ६२ ॥
कुशपुष्पैश्च धत्तूरैर्मन्दारैर्द्रोणसम्भवैः ।
तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३ ॥
पूजयेत्परया भक्त्या शङ्‌करं भक्तवत्सलम् ।
सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ॥ ६४ ॥
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।
ततःसुगन्धचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५ ॥
अर्पणीयं च विविधं शिवाय परया मुदा ।
ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६ ॥
दीपो देयस्ततस्तस्मै शङ्‌कराय घृतप्लुतः ।
अर्घं दद्यात्पुनस्तस्मै मन्त्रेणानेन भक्तितः ॥ ६७ ॥
कारयेद्‌भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।
रूपं देहि यशो देहि भोगं देहि च शङ्‌कर ॥ ६८ ॥
भुक्तिमुक्तिफलं देहि गृहीत्वाऽर्घं नमोस्तु ते ।
ततो देयं शिवायैव नैवेद्यं विविधं शुभम् ॥ ६९ ॥
तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।
ततश्शिवाय ताम्बूलं साङ्‌गोपाङ्‌गं विधाय च ॥ ७० ॥
कुर्यादारार्तिकं पञ्चवर्तिकामनुसङ्‌ख्यया ।
पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१ ॥
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्‌गं एव हि ।
ततो ध्यानं यथोक्तं वै कृत्वा मन्त्रमुदीरयेत् ॥ ७२ ॥
यथासङ्‌ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिन्नरः ।
गुरूपदिष्टमार्गेण कृत्वा मन्त्रजपं सुधीः ॥ ७३ ॥
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।
यथासङ्‌ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिन्नरः ॥ ७४ ॥
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।
ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैः शनैः ॥ ७५ ॥
नमस्कारांस्ततः कुर्यात्साष्टाङ्‌गं विधिवत्पुमान् ।
ततः पुष्पाञ्जलिर्देयो मन्त्रेणानेन भक्तितः ॥ ७६ ॥
शङ्‌कराय परेशाय शिवसन्तोषहेतवे ।
अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७ ॥
कृतं तदस्तु सफलं कृपया तव शङ्‌कर ।
तावकस्त्वद्‌गतप्राणत्वच्चित्तोहं सदा मृड ॥ ७८ ॥
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।
भूमौ स्खलितवादानां भूमिरेवावलम्बनम् ॥ ७९ ॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।
इत्यादि बहुविज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ ८० ॥
पुष्पाञ्जलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः ।
स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो ॥ ८१ ॥
पूजाकाले पुनर्नाथ त्वया गन्तव्यमादरात् ।
इति सम्प्रार्थ्य बहुशः शङ्‌करं भक्तवत्सलम् ॥ ८२ ॥
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत् ।
इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।
भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP