॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

नवमोऽध्यायः ॥

शिवतत्त्ववर्णनम्


ब्रह्मोवाच
अथाकर्ण्य नुतिं विष्णुकृतां स्वस्य महेश्वरः ।
प्रादुर्बभूव सुप्रीतःसवामं करुणानिधिः ॥ १ ॥
पञ्चवक्त्रस्त्रिनयनो भालचन्द्रो जटाधरः ।
गौरवर्णो विशालाक्षो भस्मोद्धूलितविग्रहः ॥ २ ॥
दशबाहुर्नीलगलः सर्वाभरणभूषितः ।
सर्वाङ्‌गसुन्दरो भस्मत्रिपुण्ड्राङ्‌कितमस्तकः ॥ ३ ॥
तं दृष्ट्‍वा तादृशं देवं सवामं परमेश्वरम् ।
तुष्टाव पुनरिष्टाभिर्वाग्भिर्विष्णुर्मया सह ॥ ४ ॥
निगमं श्वासरूपेण ददौ तस्मै ततो हरः ।
विष्णवे च प्रसन्नात्मा महेशः करुणाकरः ॥ ५ ॥
ततो ज्ञानमदात्तस्मै रहस्यं परमात्मने ।
परमात्मा पुनर्मह्यं दत्तवान्कृपया मुने ॥ ६ ॥
सम्प्राप्य निगमं विष्णुः पप्रच्छ पुनरेव तम् ।
कृतार्थःसाञ्जलिर्नत्वा मया सह महेश्वरम् ॥ ७ ॥
विष्णुरुवाच
कथं च तुष्यसे देव मया पूज्यः कथं प्रभो ।
कथं ध्यानं प्रकर्तव्यं कथं व्रजसि वश्यताम् । ८ ॥
किं कर्तव्यं महादेव ह्यावाभ्यां तव शासनात् ।
सदा सदाज्ञापय नौ प्रीत्यर्थं कुरु शङ्‌कर ॥ ९ ॥
एतत्सर्वं महाराज कृपां कृत्वाऽवयोः प्रभो ।
कथनीयं तथान्यच्च विज्ञाय स्वानुगौ शिव ॥ १० ॥
ब्रह्मोवाच
इत्येतद्वचनं श्रुत्वा प्रसन्नो भगवान्हरः ।
उवाच वचनं प्रीत्या सुप्रसन्नः कृपानिधिः ॥ ११ ॥
श्रीशिव उवाच
भक्त्या च भवतोर्नूनं प्रीतोऽहं सुरसत्तमौ ।
पश्यतं मां महादेवं भयं सर्वं विमुञ्चताम् ॥ १२ ॥
मम लिङ्‌गं सदा पूज्य ध्येयं चैतादृशं मम ।
इदानीं दृश्यते यद्वत्तथा कार्यं प्रयत्नतः ॥ १३ ॥
पूजितो लिङ्‌गरूपेण प्रसन्नो विविधं फलम् ।
दास्यामि सर्वलोकेभ्यो मनोभीष्टान्यनेकशः ॥ १४ ॥
यदा दुःखं भवेत्तत्र युवयोः सुरसत्तमौ ।
पूजिते मम लिङ्‌गे च तदा स्याद्दुःखनाशनम् ॥ १५ ॥
युवां प्रसूतौ प्रकृतेर्मदीयाया महाबलौ ।
सव्यापसव्यागात्राभ्यां मम सर्वेश्वरस्य हि ॥ १६ ॥
अयं मे दक्षिणात्पार्श्वाद्‌ब्रह्मा लोकपितामहः ।
वामपार्श्वाच्च विष्णुस्त्वं समुत्पन्नः परात्मनः ॥ १७ ॥
प्रीतोहं युवयोः सम्यग्वरं दद्यां यथेप्सितम् ।
मयि भक्तिर्दृढा भूयाद्युवयोरप्यनुज्ञया ॥ १८ ॥
पार्थिवीं चैव मन्मूर्तिं विधाय कुरुतं युवाम् ।
सेवां च विविधां प्राज्ञौ कृत्वा सुखमवाप्स्यथ ॥ १९ ॥
ब्रह्मन्सृष्टिं कुरु त्वं हि मदाज्ञापरिपालकः ।
वत्स वत्स हरे त्वं च पालयैवं चराचरम् ॥ २० ॥
ब्रह्मोवाच
इत्युक्त्वा नौ प्रभुस्ताभ्यां पूजाविधिमदाच्छुभाम् ।
येनैव पूजितः शम्भुः फलं यच्छत्यनेकशः ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचश्शम्भोर्मया च सहितो हरिः ।
प्रत्युवाच महेशानं प्रणिपत्य कृताञ्जलिः ॥ २२ ॥
विष्णुरुवाच
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ ।
भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥ २३ ॥
त्वमप्यवतरस्वाद्य लीलया निर्गुणोपि हि ।
सहायं कुरु नौ तात त्वं परः परमेश्वरः ॥ २४ ॥
आवयोर्देवदेवेश विवादमपि शोभनम् ।
इहागतो भवान्यस्माद्विवादशमनाय नौ ॥ २५ ॥
ब्रह्मोवाच
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम् ।
प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटः स्वयम् ॥ २६ ॥
श्रीमहेश उवाच
प्रलयस्थितिसर्गाणां कर्ताहं सगुणोऽगुणः ।
परब्रह्म निर्विकारी सच्चिदानन्दलक्षणः ॥ २७ ॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुहराख्यया ।
सर्गरक्षालयगुणैर्निष्कलोहं सदा हरे ॥ २८ ॥
स्तुतोऽहं यत्त्वया विष्णो ब्रह्मणा मेऽवतारणे ।
प्रार्थनां तां करिष्यामि सत्यां यद्‌भक्तवत्सलः ॥ २९ ॥
मद्रूपं परमं ब्रह्मन्नीदृशं भवदङ्‌गतः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ३० ॥
मदंशात्तस्य सामर्थ्यं न्यूनं नैव भविष्यति ।
योऽहं सोऽहं न भेदोस्ति पूजाविधिविधानतः ॥ ३१ ॥
यथा च ज्योतिषःसङ्‌गाज्जलादेः स्पर्शता न वै ।
तथा ममागुणस्यापि संयोगाद्‌बन्धनं न हि ॥ ३२ ॥
शिवरूपं ममैतच्च रुद्रोऽपि शिववत्तदा ।
न तत्र परभेदो वै कर्तव्यश्च महामुने ॥ ३३ ॥
वस्तुतो ह्येकरूपं हि द्विधा भिन्नं जगत्युत ।
अतो भेदा न विज्ञेयः शिवे रुद्रे कदाचन ॥ ३४ ॥
सुवर्णस्य तथैकस्य वस्तुत्वं नैव गच्छति ।
अलङ्‌कृतिकृते देव नामभेदो न वस्तुतः ॥ ३५ ॥
तथैकस्या मृदो भेदो नानापात्रे न वस्तुतः ।
कारणस्यैव कार्ये च सन्निधानं निदर्शनम् ॥ ३६ ॥
ज्ञातव्यं बुधवर्यैश्च निर्मलज्ञानिभिः सुरैः ।
एवं ज्ञात्वा भवभ्यां तु न दृश्यं भेदकारणम् ॥ ३७ ॥
वस्तुवत् सर्वदृश्यं च शिवरूपम् मतम्मम ।
अहं भवानजश्चैव रुद्रो योऽयं भविष्यति ॥ ३८ ॥
एकरूपा न भेदस्तु भेदे वै बन्धनं भवेत् ।
तथापि च मदीयं हि शिवरूपं सनातनम् ॥ ३९ ॥
मूलीभूतं सदोक्तं च सत्यज्ञानमनन्तकम् ।
एवं ज्ञात्वा सदा ध्येयं मनसा चैव तत्त्वतः ॥ ४० ॥
श्रूयतां चैव भो ब्रह्मन्यद्‌गोप्यं कथ्यते मया ।
भवन्तौ प्रकृतेर्यातौ नायं वै प्रकृतेः पुनः ॥ ४१ ॥
मदाज्ञा जायते तत्र ब्रह्मणो भ्रुकुटेरहम् ।
गुणेष्वपि यथा प्रोक्तस्तामसः प्रकृतो हरः ॥ ४२ ॥
वैकारिकश्च विज्ञेयो योऽहङ्‌कार उदाहृतः ।
नामतो वस्तुतो नैव तामसः परिचक्ष्यते ॥ ४३ ॥
एतस्मात्कारणाद्‌ब्रह्मन्करणीयमिदं त्वया ।
सृष्टिकर्ता भव ब्रह्मन्सृष्टेश्च पालको हरिः ॥ ४४ ॥
मदीयश्च तथांऽशो यो लयकर्ता भविष्यति ।
इयं या प्रकृतिर्देवी ह्युमाख्या परमेश्वरी ॥ ४५ ॥
तस्यास्तु शक्तिर्वाग्देवी ब्रह्माणं सा भजिष्यति ।
अन्या शक्तिः पुनस्तत्र प्रकृतेः सम्भविष्यति ॥ ४६ ॥
समाश्रयिष्यति विष्णुं लक्ष्मीरूपेण सा तदा ।
पुनश्च काली नाम्ना सा मदंशं प्राप्स्यति ध्रुवम् ॥ ४७ ॥
ज्योतीरूपेण सा तत्र कार्यार्थे सम्भविष्यति ।
एवं देव्यास्तथा प्रोक्ताः शक्तयः परमाः शुभाः ॥ ४८ ॥
सृष्टिस्थितिलयानां हि कार्यं तासां क्रमाद्ध्रुवम् ।
एतस्याः प्रकृतेरंशा मत्प्रियायाः सुरौत्तम ॥ ४९ ॥
त्वं च लक्ष्मीमुपाश्रित्य कार्यं कर्तुमिहार्हसि ।
ब्रह्मंस्त्वं च गिरां देवीं प्रकृत्यंशामवाप्य च ॥ ५० ॥
सृष्टिकार्यं हृदा कर्तुं मन्निदेशादिहार्हसि ।
अहं कालीं समाश्रित्य मत्प्रियांशां परात्पराम् ॥ ५१ ॥
रुद्ररूपेण प्रलयं करिष्ये कार्यमुत्तमम् ।
चतुर्वर्णमयं लोकं तत्सर्वैराश्रमैर्ध्रुवम् ॥ ५२ ॥
तदन्यैर्विविधैः कार्यैः कृत्वा सुखमवाप्स्यथः ।
ज्ञानविज्ञानसंयुक्तो लोकानां हितकारकः ॥ ५३ ॥
मुक्तिदोऽत्र भवानद्य भव लोके मदाज्ञया ।
मद्दर्शने फलं यद्वत्तदेव तव दर्शने ॥ ५४ ॥
इति दत्तो वरस्तेऽद्य सत्यं सत्यं न संशयः ।
ममैव हृदये विष्णुर्विष्णोश्च हृदये ह्यहम् ॥ ५५ ॥
उभयोरन्तरं यो वै न जानाति मनो मम ।
वामाङ्‌गजो मम हरिर्दक्षिणाङ्‌गोद्‌भवो विधिः ॥ ५६ ॥
महाप्रलयकृद्‌रुद्रो विश्वात्मा हृदयोद्‌भवः ।
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया ॥ ५७ ॥
सर्गरक्षालयकरस्त्रिगुणै रजआदिभिः ।
गुणभिन्नः शिवः साक्षात्प्रकृते पुरुषात्परः ॥ ५८ ॥
परं ब्रह्माद्वयो नित्योऽनन्तः पूर्णो निरञ्जनः ।
अन्तस्तमो बहिःसत्त्वस्त्रिजगत्पालको हरिः ॥ ५९ ॥
अन्तःसत्त्वस्तमोबाह्यस्त्रिजगल्लयकृद्धरः ॥ ६० ॥
अन्तर्बहिरजश्चैव त्रिजगत्सृष्टिकृद्विधिः ।
एवं गुणास्त्रिदेवेषु गुणभिन्नः शिवः स्मृतः ॥ ६१ ॥
विष्णो सृष्टिकरं प्रीत्या पालयैनं पितामहम् ।
सम्पूज्यस्त्रिषु लोकेषु भविष्यसि मदाज्ञया ॥ ६२ ॥
तव सेव्यो विधेश्चापि रुद्र एव भविष्यति ।
शिवपूर्णावतारो हि त्रिजगल्लयकारकः ॥ ६३ ॥
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ।
तदा द्रक्ष्यसि मां चैव सोऽपि द्रक्ष्यति पद्मजः ॥ ६४ ॥
एवमुक्त्वा महेशानः कृपां कृत्वाऽतुलां हरः ।
पुनः प्रोवाच सुप्रीत्या विष्णुं सर्वेश्वरः प्रभुः ॥ ६५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने शिवतत्त्ववर्णनो नाम नवमोऽध्यायः ॥ ९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP