![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
अष्टमोऽध्यायः ॥
शब्दब्रह्मतनुवर्णनम्
ब्रह्मोवाच
एवं तयोर्मुनिश्रेष्ठ दर्शनं काङ्क्षमाणयोः । विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने ॥ १ ॥ दयालुरभवच्छम्भुर्दीनानां प्रतिपालकः । गर्विणां गर्वहर्ता च सर्वेषां प्रभुरव्ययः ॥ २ ॥ तदा समभवत्तत्र नादो वै शब्दलक्षणः । ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः ॥ ३ ॥ किमिदं त्विति सञ्चिन्त्य मया तिष्ठन्महास्वनः । विष्णुःसर्वसुराराध्यो निर्वैरस्तुष्टचेतसा ॥ ४ ॥ लिङ्गस्य दक्षिणे भागे तथापश्यत्सनातनम् । आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः ॥ ५ ॥ मकारं मध्यतश्चैव नादमन्तेऽस्य चोमिति । सूर्यमण्डलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥ ६ ॥ उत्तरे पावकप्रख्यमुकारमृषिसत्तम । शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः ॥ ७ ॥ तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् । तुरीयातीतममलं निष्कलं निरुपद्रवम् ॥ ८ ॥ निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम् । स बाह्याभ्यन्तरे चैव बाह्याभ्यन्तरसंस्थितम् ॥ ९ ॥ आदिमध्यान्तरहितमानन्दस्यापिकारणम् । सत्यमानन्दममृतं परं ब्रह्मपरायणम् ॥ १० ॥ कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् । अधोगमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ११ ॥ वेदशब्दोभयावेशं विश्वात्मानं व्यचिन्तयत् । तदाऽभवदृषिस्तत्र ऋषेःसारतमं स्मृतम् ॥ १२ ॥ तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरः । महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम् ॥ १३ ॥ चिन्तया रहितो रुद्रो वाचो यन्मनसा सह । अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः ॥ १४ ॥ एकाक्षरेण तद्वाक्यमृतं परमकारणम् । सत्यमानन्दममृतं परं ब्रह्म परात्परम् ॥ १५ ॥ एकाक्षरादुकाराख्याद्भगवान्बीजकोऽण्डजः । एकाक्षरादुकाराख्याद्धरिः परमकारणम् ॥ १६ ॥ एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः । सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥ १७ ॥ मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत् । मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते ॥ १८ ॥ उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः । बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥ १९ ॥ बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः । अस्य लिङ्गादभूद्बीजमकारो बीजिनः प्रभोः ॥ २० ॥ उकारयोनौ निःक्षिप्तमवर्द्धत समन्ततः । सौवर्णमभवच्चाण्डमावेद्य तदलक्षणम् ॥ २१ ॥ अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् । ततो वर्षसहस्रान्ते द्विधाकृतमजोद्भवम् ॥ २२ ॥ अण्डमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु । तथाऽस्य सुशुभं हैमं कपालं चोर्ध्वसंस्थितम् ॥ २३ ॥ जज्ञे सा द्यौस्तदपरं पृथिवी पञ्चलक्षणा । तस्मादण्डाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः ॥ २४ ॥ स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः । एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥ २५ ॥ यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् । एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा ॥ २६ ॥ ततो विज्ञाय देवेशं यथावच्छक्तिसम्भवैः । मन्त्रं महेश्वरं देवं तुष्टाव सुमहोदयम् ॥ २७ ॥
एतस्मिन्नन्तरेऽन्यच्च रूपमद्भुतसुन्दरम् । ददर्श च मया सार्द्धं भगवान्विश्वपालकः ॥ २८ ॥ पञ्चवक्त्रं दशभुजं गौरकर्पूरवन्मुने । नानाकान्तिसमायुक्तं नानाभूषणभूषितम् ॥ २९ ॥ महोदारं महावीर्यं महापुरुषलक्षणम् । तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः ॥ ३० ॥ अथ प्रसन्नो भगवान्महेशः परमेश्वरः । दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः ॥ ३१ ॥ अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते । इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥ ३२ ॥ उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते । ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥ ३३ ॥ वामं कपोलमूकारो लृ लॄ नासापुटे उभे । एकारश्चोष्ठ ऊर्ध्वश्च ह्यैकारस्त्वधरो विभोः ॥ ३४ ॥ ओकारश्च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् । अमस्तु तालुनी तस्य देवदेवस्य शूलिनः ॥ ३५ ॥ कादिपञ्चाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे । चादिपञ्चाक्षराण्येवं पञ्च हस्तास्तु वामतः ॥ ३६ ॥ टादिपञ्चाक्षरं पादास्तादिपञ्चाक्षरं तथा । पकार उदरं तस्य फकारः पार्श्व उच्यते ॥ ३७ ॥ बकारो वामपार्श्वस्तु भकारः स्कन्ध उच्यते । मकारो हृदयं शम्भोर्महादेवस्य योगिनः ॥ ३८ ॥ यकारादिसकारान्ता विभोर्वै सप्तधातवः । हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते ॥ ३९ ॥ एवं शब्दमयं रूपमगुणस्य गुणात्मनः । दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः ॥ ४० ॥ एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् । प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्ध्वतः ॥ ४१ ॥ ॐकारप्रभवं मन्त्रं कलापञ्चकसंयुतम् । शुद्धस्फटिकसङ्काशं शुभाष्टत्रिंशदक्षरः ॥ ४२ ॥ मेधाकरो ह्यभूद्भूयः सर्वधर्मार्थसाधकम् । गायत्रीप्रभवं मन्त्रं सुहितो वश्यकारकः ॥ ४३ ॥ चतुर्विंशतिवर्णाढ्यश्चतुष्कालमनुत्तमः । अथ पञ्चसितं मन्त्रं कलाष्टकसमायुतः ॥ ४४ ॥ आभिचारिककामार्थे प्रायस्त्रिंशच्छुभाक्षरः । यजुर्वेदसमायुक्तः पञ्चविंशच्छुभाक्षरः ॥ ४५ ॥ कलाष्टकसमायुक्तः सुश्वेतः शान्तिकस्तथा । त्रयोदशकलायुक्तो बालादीनां सदा हितः ॥ ४६ ॥ बभूवायं सदोत्पत्तिवृद्धिसंहारकारिणी । वर्णा एकाधिकाः षष्टिरस्य मन्त्रवरस्य तु ॥ ४७ ॥ पुनर्मृत्युञ्जयो मन्त्रस्ततः पञ्चाक्षरो मतः । चिन्तामणिस्तथा मन्त्रो दक्षिणामूर्तिसञ्ज्ञकः ॥ ४८ ॥ ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च । पञ्चमन्त्रांस्तथा लब्ध्वा जजाप भगवान्हरिः ॥ ४९ ॥ अथ दृष्ट्वा कलावर्णमृग्यजुः सामरूपिणम् । ईशानमीशमुकुटं पुरुषाख्यं पुरातनम् ॥ ५० ॥ अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् । वामपादं महादेवं महाभोगीन्द्रभूषणम् ॥ ५१ ॥ विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् । ब्रह्मणोऽधिपतिं सर्गस्थितिसंहारकारणम् ॥ ५२ ॥ तुष्टाव वाग्भिरिष्टाभिः साम्बं वरदमीश्वरम् । मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा ॥ ५३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ॥ ८ ॥ श्रीगौरीशंकरार्पणमस्तु |