॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

सप्तमोऽध्यायः ॥

विष्णुब्रह्मविवादवर्णनम्


ब्रह्मोवाच
सुप्ते नारायणे देवे नाभौ पङ्‌कजमुत्तमम् ।
आविर्बभूव सहसा बृहद्वै शङ्‌करेच्छया ॥ १ ॥
अनन्तयष्टिकायुक्तं कर्णिकारसमप्रभम् ।
अनन्तयोजनायाममनन्तोच्छ्रायसंयुतम् ॥ २ ॥
कोटिसूर्यप्रतीकाशं सुन्दर वचसंयुतम् ।
अत्यद्‌भुतं महारम्यं दर्शनीयमनुत्तमम् ॥ ३ ॥
कृत्वा यत्नं पूर्ववत्स शङ्‌करः परमेश्वरः ।
दक्षिणाङ्‌गान्निजान्मां वै साम्बश्शम्भुरजीजनत् ॥ ४ ॥
स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।
तन्नाभिपङ्‌कजादाविर्भावयामास लीलया ॥ ९ ॥
एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।
चतुर्मुखो रक्तवर्णस्त्रिपुण्ड्राङ्‌कितमस्तकः ॥ ६ ॥
तन्मायामोहितश्चाहं नाविदं कमलं विना ।
स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ॥ ७ ॥
कोहं वा कुत आयातः किं कार्य तु मदीयकम् ।
कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ॥ ८ ॥
इति संशयमापन्नं बुद्धिर्मां समपद्यत ।
किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ॥ ९ ॥
एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।
मत्कर्ता च स वै तत्र भविष्यति न संशयः ॥ १० ॥
इति बुद्धिं समास्थाय कमलादवरोहयम् ।
नाले नाले गतस्तत्र वर्षाणां शतकं मुने ॥ १ १ ॥
न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।
संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ॥ १२ ॥
आरुरोहाथ कमलं नालमार्गेण वै मुने ।
कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः ॥ १३ ॥
नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।
क्षणमात्रं तदा तत्र ततस्तिष्ठन्विमोहितः ॥ १४ ॥
तदा वाणी समुत्पन्ना तपेति परमा शुभा ।
शिवेच्छया परा व्योम्नो मोहविध्वंसनी मुने ॥ १५ ॥
तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।
पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा ॥ १६ ॥
तदा हि भगवान्विष्णुश्चतुर्बाहुः सुलोचनः ।
मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ॥ १७ ॥
शङ्‌खचक्रायुधकरो गदापद्मधरः परः ।
घनश्यामलसर्वाङ्‌गः पीताम्बरधरः परः ॥ १८ ॥
मुकुटादिमहाभूषः प्रसन्नमुखपङ्‌कजः ।
कोटिकन्दर्पसङ्‌काशःसन्दृष्टो मोहितेन सः ॥ १९ ॥
तद्दृष्ट्‍वा सुन्दरं रूपं विस्मयं परमं गतः ।
कालाभं काञ्चनाभं च सर्वात्मानं चतुर्भुजम् ॥ २० ॥
तथाभूतमहं दृष्ट्‍वा सदसन्मयमात्मना ।
नारायणं महाबाहुं हर्षितो ह्यभवं तदा ॥ २१ ॥
मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ।
अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ॥ २२ ॥
ब्रह्मोवाच
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।
तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ॥ २३ ॥
प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।
ददर्श निद्राविक्लिन्ननीरजामललोचनः ॥ २४ ॥
मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।
आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ॥ २५ ॥
विष्णुरुवाच
स्वागतं स्वागतं वत्स पितामह महाद्युते ।
निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।
रजसा बद्धवैरश्च तमवोचं जनार्दनम् ॥ २७ ॥
ब्रह्मोवाच
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।
मामिहातिस्मितं कृत्वा गुरुश्शिष्यमिवानघ ॥ २८ ॥
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।
सनातनमजं विष्णुं विरिञ्चिं विष्णुसम्भवम् ॥ २९ ॥
विश्वात्मानं विधातारं धातारं पङ्‌कजेक्षणम् ।
किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ॥ ३० ॥
वेदो मां वक्ति नियमात्स्वयम्भुवमजं विभुम् ।
पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ॥ ३१ ॥
इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।
सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ॥ ३२ ॥
विष्णुरुवाच
कर्तुं धर्त्तुं भवानङ्‌गादवतीर्णो ममाव्ययात् ।
विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ॥ ३३ ॥
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्‌भवम् ॥ ३४ ॥
नारायणं महाबाहुं सर्वव्यापकमीश्वरम् ।
मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ॥ ३५ ॥
तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ॥ ३६ ॥
कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ।
अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥ ३७ ॥
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।
अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम् ॥ ३८ ॥
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।
मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम् ॥ ३९ ॥
नित्यं तेष्वणवो बद्धाःसृष्टाः क्रोधभयादयः ।
प्रभावाच्च भवानङ्‌गान्यनेकानीह लीलया ॥ ४० ॥
सृष्टा बुद्धिर्मया तस्यामहङ्‌कारस्त्रिधा ततः ।
तन्मात्रं पङ्‌कजं तस्मान्मनोदेहेन्द्रियाणि च ॥ ४१ ॥
आकाशादीनि भूतानि भौतिकानि च लीलया ।
इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ॥ ४२ ॥
अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।
ब्रह्मोवाच
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।
को वा त्वमिति सम्भर्त्स्याब्रुवं मायाविमोहितः ॥ ४३ ॥
किमर्थं भाषसे भूरि बह्वनर्थकरं वचः ।
नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव ॥ ४४ ॥
मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।
हरिणा तेन वै सार्द्धं शङ्‌करस्य महाप्रभोः ॥ ४५ ॥
एवं मम हरेश्चासीत्सङ्‌गरो रोमहर्षणः ।
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥ ४६ ॥
एतस्मिन्नन्तरे लिङ्‌गमभवच्चावयोः पुरः ।
विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः ॥ ४७ ॥
ज्लामालासहस्राढ्यं कालानलशतोपमम् ।
क्षयवृद्धि विनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ ४८ ॥
अनौपम्यमनिर्देश्यमव्यक्तं विश्वसम्भवम् ।
तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः ॥ ४९ ॥
मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ।
आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ॥ ५० ॥
कुत एवात्र सम्भूतः परीक्षावोऽग्निसम्भवम् ।
अधो गमिष्याम्यनलस्तम्भस्यानुपमस्य च ॥ ५१ ॥
परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।
भवानूर्ध्वं प्रयत्नेन गन्तुमर्हति सत्वरम् ॥ ५२ ॥
ब्रह्मोवाच
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।
वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ॥ ५३ ॥
तदा प्रभृति मामाहुर्हंसहंसो विराडिति ।
हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ॥ ५४ ॥
सुश्वेतो ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।
मनोनिलजवो भूत्वा गत्वोर्ध्वं चोर्ध्वतः पुरा ॥ ५५ ॥
नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा ।
दश योजनविस्तीर्णं शतयोजनमायतम् ॥ ५६ ॥
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।
कालादित्यसमाभासं दीर्घघोणं महास्वनम् ॥ ५७ ॥
ह्रस्वपादं विचित्राङ्‌गं जैत्रं दृढमनौपमम् ।
वाराहाकारमास्थाय गतवांस्तदधौ जवात् ॥ ५८ ॥
एवं वर्षसहस्रं च चरन्विष्णुरधो गतः ।
तथाप्रभृति लोकेषु श्वेतवाराहसञ्ज्ञकः ॥ ५९ ॥
कल्पो बभूव देवर्षे नराणां कालसञ्ज्ञकः ।
बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ॥ ६० ॥
नापश्यदल्पमप्यस्य मूलं लिङ्‌गस्य सूकरः ।
तावत्कालं गतश्चोर्ध्वमहमप्यरिसूदन ॥ ६१ ॥
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।
श्रान्तो न दृष्ट्‍वा तस्यान्तमहं कालादधोगतः ॥ ६२ ॥
तथैव भगवान्विष्णुः श्रान्तं कमललोचनः ।
सर्वदेवनिभस्तूर्णमुत्थितःस महावपुः ॥ ६३ ॥
समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ।
मायया मोहितश्शम्भोस्तस्थौ संविग्नमानसः ॥ ६४ ॥
पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।
प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति ॥ ६५ ॥
अनिर्देश्यं च तद्‌रूपमनामकर्मवर्जितम् ।
अलिङ्‌गं लिङ्‌गतां प्राप्तं ध्यानमार्गेऽप्यगोचरम् ॥ ६६ ॥
स्वस्थं चित्तं तदा कृत्वा नमस्कारपरायणो ।
बभूवतुरुभावावामहं हरिरपि ध्रुवम् ॥ ६७ ॥
जानीवो न हि ते रूपं योऽसि योऽसि महाप्रभो ।
नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरम् ॥ ६८ ॥
एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।
आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ॥ ६९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
प्रथमखण्डे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः ॥ ७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP