|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
षष्ठोऽध्यायः ॥
विष्णूत्पत्तिवर्णनम्
ब्रह्मोवाच
भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम । लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १ ॥ यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् । तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २ ॥ शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः । ज्ञातश्च परमं रूपमद्भुतं च परेण न ॥ ३ ॥ महाप्रलयकाले च नष्टे स्थावरजङ्गमे । आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४ ॥ अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् । अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २ ॥ अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् । अव्यक्तगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६ ॥ इत्थं सत्यन्धतमसे सूचीभेद्यं निरन्तरे । तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७ ॥ इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् । योगिनोऽन्तर्हिताकाशे यत्पश्यन्ति निरन्तरम् ॥ ८ ॥ अमनोगोचरं वाचां विषयं न कदाचन । अनामरूपवर्णं च न च स्थूलं न यत्कृशम् ॥ ९ ॥ अह्रस्वदीर्घमलघु गुरुत्वपरिवर्जितम् । न यत्रापचयः कश्चित्तथा नापचयोऽपि च ॥ १० ॥ अविधत्ते स चकितं यदस्तीति श्रुतिः पुनः । सत्यं ज्ञानमनन्तं च परानन्दम्परम्महः ॥ १ १ ॥ अप्रमेयमनाधारमविकारमनाकृति । निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम् ॥ १२ ॥ निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् । अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३ ॥ यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै । कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४ ॥ अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया । सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५ ॥ सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी । सर्वेकवन्द्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६ ॥ परिकल्प्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् । अद्वितीयमनाद्यन्तं सर्वाभासं चिदात्मकम् । अन्तर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम् ॥ १७ ॥ अमूर्ते यत्पराख्यं वै तस्य मूर्तिःसदाशिवः । अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ १८ ॥ शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः । स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९ ॥ प्रधानं प्रकृति तां च मायां गुणवतीं पराम् । बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २० ॥ सा शक्तिरम्बिका प्रोक्ता प्रकृतिः सकलेश्वरी । त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१ ॥ अस्या अष्टौभुजाश्चासन्विचित्रवदना शुभा । एका चन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२ ॥ नानाभरणसंयुक्ता नानागतिसमन्विता । नानायुधधरा देवी फुल्लपङ्कजलोचना ॥ २३ ॥ अचिन्त्यतेजसा युक्ता सर्वयोनिः समुद्यता । एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४ ॥ परः पुमानीश्वरः स शिवः शम्भुरनीश्वरः । शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५ ॥ पञ्चवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् । कर्पूरगौर सुसितो भस्मोद्धूलितविग्रहः ॥ २६ ॥ युगपच्च तया शक्त्या साकं कालस्वरूपिणा । शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा ॥ २७ ॥ तदेव काशिकेत्येतत् प्रोच्यते क्षेत्रमुत्तमम् । परं निर्वाणसङ्ख्यानं सर्वोपरि विराजितम् ॥ २८ ॥ ताभ्यां च रममाणाभ्यां तस्मिन् क्षेत्रे मनोरमे । परमानन्दरूपाभ्यां परमानन्दरूपिणी ॥ २९ ॥ मुने प्रलयकालेऽपि न तत्क्षेत्रं कदाचन । विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः ॥ ३० ॥
अस्यानन्दवनं नाम पुराकारि पिनाकिना । क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम् ॥ ३१ ॥ अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः । इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यऽपरः किल ॥ ३२ ॥ यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ । निर्वाणधारणं कुर्वः केवलं काशिशायिनौ ॥ ३३ ॥ स एव सर्वं कुरुतात् स एव परिपातु च । स एव संवृणोत्वन्ते मदनुग्रहतःसदा ॥ ३४ ॥ चेतःसमुद्रमाकुञ्च्य चिन्ताकल्लोललोलितम् । सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम् ॥ ३५ ॥ यस्य प्रसादात्तिष्ठावः सुखमानन्दकानने । परिक्षिप्तमनोवृत्तौ बहिश्चिन्तातुरे सुखम् ॥ ३६ ॥ सम्प्रधार्येति स विभुस्तया शक्त्या परेश्वरः । सव्ये व्यापारयाञ्चक्रे दशमेऽङ्गेसुधासवम् ॥ ३७ ॥ ततः पुमानाविरासीदेकस्त्रैलोक्यसुन्दरः । शान्तःसत्त्वगुणोद्रिक्तो गाम्भीर्यामितसागरः ॥ ३८ ॥ तथा च क्षमया युक्तो मुनेऽलब्धोपमोऽभवत् । इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः ॥ ३९ ॥ सुवर्णकृतिभृच्छ्रेष्ठदुकूलयुगलावृतः । लसत् प्रचण्डदोर्दण्डयुगलो ह्यपराजितः ॥ ४० ॥ ततः स पुरुषश्शम्भुं प्रणम्य परमेश्वरम् । नामानि कुरु मे स्वामिन्वद कर्मं जगाविति ॥ ४१ ॥ तच्छ्रुत्वा वचनं प्राह शङ्करः प्रहसन्प्रभुः । पुरुषं तं महेशानो वाचा मेघगभीरया ॥ ४२ ॥ शिव उवाच विष्ण्वतिव्यापकत्वात्ते नाम ख्यातं भविष्यति । बहून्यन्यानि नामानि भक्तसौख्यकराणि ह ॥ ४३ ॥ तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् । इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः ॥ ४४ ॥ ततोऽच्युतः शिवं नत्वा चकार विपुलं तपः । अन्तर्द्धानं गतः शक्त्या सलोकः परमेश्वरः ॥ ४९ ॥ दिव्यं द्वादशसाहस्रं वर्षं तप्त्वापि चाच्युतः । न प्राप स्वाभिलषितं सर्वदं शम्भुदर्शनम् ॥ ४६ ॥ तत्तत्संशयमापन्नश्चिन्तितं हृदि सादरम् । मयाद्य किं प्रकर्तव्यमिति विष्णुः शिवं स्मरन् ॥ ४७ ॥ एतस्मिन्नन्तरे वाणी समुत्पन्ना शिवाच्छुभा । तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये ॥ ४८ ॥ ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् । बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि ॥ ४९ ॥ ततः स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः । सुप्रीतो विस्मयं प्राप्तः किं यत्तवमहो इति ॥ ५० ॥ परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च । जलधारा हि संयाता विविधाश्शिवमायया ॥ ५१ ॥ अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने । ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम् ॥ ५२ ॥ तदा श्रान्तश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् । सुष्वाप परमप्रीतो बहुकालं विमोहितः ॥ ५३ ॥ नारायणेति नामापि तस्यासीच्छ्रुतिसंमतम् । नान्यत्किञ्चित्तदा ह्यासीत्प्राकृतं पुरुषं विना ॥ ५४ ॥ एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः । तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते ॥ ५५ ॥ प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः । अहङ्कारस्ततो जातस्त्रिविधो गुणभेदतः ॥ ५६ ॥ तन्मात्राश्च ततो जाताः पञ्चभूतानि वै तता । तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च ॥ ५७ ॥ तत्त्वानामिति सङ्ख्यानमुक्तं ते ऋषिसत्तम । जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना ॥ ५८ ॥ तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसङ्ख्यकम् । शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके ॥ ५९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्याने प्रथमखण्डे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६ श्रीगौरीशंकरार्पणमस्तु |