॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

पञ्चमोऽध्यायः ॥

नारदस्य काशीक्षेत्रगमनम्


सूत उवाच
अन्तर्हिते हरौ विप्रा नारदो मुनिसत्तमः ।
विचचार महीं पश्यञ्छिवलिङ्‌गानि भक्तितः ॥ १ ॥
पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ।
ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २ ॥
अथ तं विचरन्तं कौ नारदं दिव्यदर्शनम् ।
ज्ञात्वा शम्भुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३ ॥
शिरसा सुप्रणम्याशु गणावूचतुरादरात् ।
गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४ ॥
शिवगणावूचतुः
ब्रह्मपुत्र सुरर्षे हि शृणु प्रीत्यऽऽवयोर्वचः ।
तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५ ॥
आवां हरगणौ विप्र तवागस्कारिणौ मुने ।
स्वयंवरे राजपुत्र्या मायामोहितचेतसा ॥ ६ ॥
त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ।
ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७ ॥
स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ।
सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८ ॥
सूत उवाच
वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ।
प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९ ॥
नारद उवाच
शृणुतं मे महादेवगणौ मान्यतमौ सताम् ।
वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम् ॥ १० ॥
पुरा मम मतिभ्रष्टासीच्छिवेच्छावशाद् ध्रुवम् ।
सर्वथा मोहमापन्नः शप्तवान्वां कुशेमुषिः ॥ ११ ॥
यदुक्तं तत्तथा भावि तथापि शृणुतां गणौ ।
शापोद्धारमहं वच्मि क्षमेथामघमद्य मे ॥ १२ ॥
वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशत् ।
स्यातां विभवसंयुक्तौ बलिनौ सुप्रतापिनौ ॥ १३ ॥
सर्वब्रह्माण्डराजानौ शिवभक्तौ जितेन्द्रियौ ।
शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४ ॥
सूत उवाच
इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ।
उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५ ॥
नारदोऽपि परं प्रीतो ध्यायञ्छिवमनन्यधीः ।
विचचार महीं पश्यञ्छिवतीर्थान्यभीक्ष्णशः ॥ १६ ॥
काशीं प्राप्याथ काशीं सः सर्वोपरि विराजिताम् ।
शिवप्रियां शम्भुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७ ॥
दृष्ट्‍वा काशीं कृताऽर्थोभूत्काशीनाथं ददर्श ह ।
आनर्च परमप्रीत्या परमानन्दसंयुतः ॥ १८ ॥
स मुदः सेव्यतां काशीं कृतार्थो मुनिसत्तमः ।
नमन्संवर्णयन्भक्त्या संस्मरन्प्रेम विह्वलः ॥ १९ ॥
ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ।
शिवतत्त्वं विशेषेण ज्ञातुमिच्छुः स नारदः ॥ २० ॥
नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैः स्तवैः ।
पप्रच्छ शिवसत्तत्वं शिवसंयुक्तमानसः ॥ २१ ॥
नारद उवाच
ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ।
त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२ ॥
भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ।
दानमार्गञ्च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३ ॥
न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ।
चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४ ॥
निर्गुणोऽपि शिवस्तात सगुणः शङ्‌करः कथम् ।
शिवतत्त्वं न जानामि मोहितः शिवमायया ॥ २५ ॥
सृष्टेः पूर्वं कथं शम्भुःस्वरूपेण प्रतिष्ठितः ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६ ॥
तदन्ते च कथं देवःस तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शङ्‌करो लोकशङ्‌करः ॥ २७ ॥
सन्तुष्टश्च स्वभक्तेभ्यः परेभ्यश्च महेश्वरः ।
किं फलं यच्छति विधे तत्सर्वं कथयस्व मे ॥ २८ ॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुसंश्रुतम् ।
भक्तप्रयासं स महान्न पश्यति दयापरः ॥ २९ ॥
ब्रह्मा विष्णुर्महेशश्च त्रयो देवाः शिवांशजाः ।
महेशस्तत्र पूर्णांशः स्वयमेव शिवः परः ॥ ३० ॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा विभो ॥ ३१ ॥
तद्‌गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तथान्यच्च कथनीयं त्वयाऽनघ ॥ ३२ ॥
तदुत्पत्तिं विवाहं च शिवायास्तु विशेषतः ।
प्रब्रूहि मे प्रजानाथ गुहजन्म तथैव च ॥ ३३ ॥
बहुभ्यश्च श्रुतं पूर्वं न तृप्तोऽस्मि जगत्प्रभो ।
अतस्त्वां शरणं प्राप्तः कृपां कुरु ममोपरि ॥ ३४ ॥
इति श्रुत्वा वचस्तस्य नारदस्याङ्‌गजस्य हि ।
उवाच वचनं तत्र ब्रह्मा लोकपितामहः ॥ ३५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनोनाम पञ्चमोऽध्यायः ॥ ५



श्रीगौरीशंकरार्पणमस्तु


GO TOP