|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
चतुर्थोऽध्यायः ॥
नारदस्य विष्णूपदेशवर्णनम्
ऋषय ऊचुः
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा । धन्या तु शाम्भवी माया तदधीनं चराचरम् ॥ १ ॥ गतयोर्गणयोः शम्भोः स्वयमात्मेच्छया विभोः । किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः ॥ २ ॥ सूत उवाच विमोहितो मुनिर्दत्त्वा तयोः शापं यथोचितम् । जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया ॥ ३ ॥ शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् । क्रोधो दुर्विषहं कृत्वा विष्णुलोकं जगाम ह ॥ ४ ॥ उवाच वचनं कुद्धः समिद्ध इव पावकः । दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानः शिवेच्छया ॥ ५ ॥ नारद उवाच हे हरे त्वं महादुष्टः कपटी विश्वमोहनः । परोत्साहं न सहसे मायावी मलिनाशयः ॥ ६ ॥ मोहिनीरूपमादाय कपटं कृतवान्पुरा । असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि ॥ ७ ॥ चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः । भवेन्नष्टाऽखिला माया तव व्याजरते हरे ॥ ८ ॥ गतिः स कपटा तेऽतिप्रिया विष्णो विशेषतः । साधुस्वभावो न भवान्स्वतन्त्रः प्रभुणा कृतः ॥ ९ ॥ कृतं समुचितन्नैव शिवेन परमात्मना । तत्प्रभावबलं ध्यात्वा स्वतन्त्रकृतिकारकः ॥ १ ० ॥ त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः । विप्रं सर्वोपरि प्राह स्वोक्तवेदप्रमाणकृत् ॥ ११ ॥ तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् । यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन ॥ १२ ॥ अद्यापि निर्भयस्त्वं हि सङ्गं नाप्तस्तरस्विना । इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः ॥ १३ ॥ इत्थमुक्त्वा हरिं सोऽथ मुनिर्मायाविमोहितः । शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन् ॥ १४ ॥ स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः । अन्वकार्षीः स्वरूपेण येन कापट्यकार्यकृत् ॥ १५ ॥ तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे । यन्मुखं कृतवान्मे त्वं ते भवन्तु सहायिनः ॥ १६ ॥ त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः । मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः ॥ १७ ॥ इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः । विष्णुर्जग्राह तं शापं प्रशंसञ्शाम्भवीमजाम् ॥ १६ ॥ अथ शम्भुर्महालीलो निश्चकर्ष विमोहिनीम । स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यथा ॥ १९ ॥ अन्तर्हितायां मायायां पूर्ववन्मतिमानभूत् । नारदो विस्मितमनाः प्राप्तबोधो निराकुलः ॥ २० ॥ पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः । प्रशशंस तदा मायां शाम्भवीं ज्ञानिमोहिनीम् ॥ २१ ॥ अथ ज्ञात्वा मुनिःसर्वं मायाविभ्रममात्मनः । अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः ॥ २२ ॥ हर्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः । मया दुरुक्तयः प्रोक्ता मोहितेन कुबुद्धिना ॥ २३ ॥ दत्तः शापोऽपि ते नाथ वितथं कुरु तं प्रभो । महत्पापमकार्षं हि यास्यामि निरयं धुवम् ॥ २४ ॥ कमुपायं हरे कुर्यां दासोऽहं ते तमादिश । येन पापकुलं नश्येन्निरयो न भवेन्मम ॥ २५ ॥ इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः । पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः ॥ २६ ॥ अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः । विष्णुरुवाच न खेदं कुरु मे भक्तवरस्त्वं नात्र संशयः ॥ २७ ॥ शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् । निरयस्ते न भविता शिवः शं ते विधास्यति ॥ २८ ॥ यदकार्षीः शिववचो वितथं मदमोहितः । स दत्तवानीदृशं ते फलं कर्म फलप्रदः ॥ २९ ॥ शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् । गर्वापहर्ता स स्वामी शङ्करः परमेश्वरः ॥ ३० ॥ परं ब्रह्म परात्मा स सच्चिदानन्दबोधनः । निर्गुणो निर्विकारो च रजः सत्वतमः परः ॥ ३१ ॥ स एवदाय मायां स्वां त्रिधा भवति रूपतः । ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः ॥ ३२ ॥ निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः । परब्रह्माव्ययोऽनन्तो महादेवेति गीयते ॥ ३३ ॥ तत्सेवया विधिः स्रष्टा पालको जगतामहम् । स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा ॥ ३४ ॥ साक्षी शिवस्वरूपेण मायाभिन्नः स निर्गुणः । स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः ॥ ३५ ॥ शृणु त्वं नारद मुने सदुपायं सुखप्रदम् । सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा ॥ ३६ ॥ त्यक्त्वा स्वसंशयं सर्वं गायन् शङ्करसद्यशः । शत नाम शिवस्तोत्रं सदानन्यमतिर्जप ॥ ३७ ॥ यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति । इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः ॥ ३८ ॥
मुने न कुरु शोकं त्वं त्वया किञ्चित्कृतं नहि । स्वेच्छया कृतवान्शम्भुरिदं सर्वं न संशयः ॥ ३९ ॥ अहार्षित् त्वन्मतिं दिव्यां कामक्लेशमदात्स ते । त्वन्मुखाद्दापयाञ्चक्रे शापं मे स महेश्वरः ॥ ४० ॥ इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् । मृत्युञ्जयः कालकालो भक्तोद्धारपरायणः ॥ ४१ ॥ न मे शिवसमानोऽस्ति प्रियः स्वामी सुखप्रदः । सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः ॥ ४२ ॥ तस्योपास्यां कुरु मुने तमेव सततं भज । तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम् ॥ ४३ ॥ कायेन मनसा वाचा यः शङ्करमुपैति भोः । स पण्डित इति ज्ञेयः स जीवन्मुक्त उच्यते ॥ ४४ ॥ शिवेति नामदावाग्नेर्महापातकपर्वताः । भस्मीभवन्त्यनायासात् सत्यं सत्यं न संशयः ॥ ४५ ॥ पापमूलानि दुःखानि विविधान्यपि तान्यतः । शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा ॥ ४६ ॥ स वैदिकः स पुण्यात्मा स धन्यःस बुधो मुने । यः सदा कायवाक्चित्तैः शरणं याति शङ्करम् ॥ ४७ ॥ भवन्ति विविधा धर्मा येषां सद्यः फलोन्मुखाः । तेषां भवति विश्वासस्त्रिपुरान्तकपूजने ॥ ४८ ॥ पातकानि विनश्यन्ति यावन्ति शिवपूजया । भुवि तावन्ति पापानि न सन्त्येव महामुने ॥ ४९ ॥ ब्रह्महत्यादिपापानां राशयोप्यमिता मुने । शिवस्मृत्या विनश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ ५० ॥ शिवनामतरीं प्राप्य संसाराब्धिं तरन्ति ते । संसारमूलपापानि तस्य नश्यन्त्यसंशयम् ॥ ५१ ॥ संसारमूलभूतानां पातकानां महामुने । शिवनामकुठारेण विनाशो जायते ध्रुवम् ॥ ५२ ॥ शिवनामामृतं पेयं पापदावानलार्दितैः । पापदावाग्नितप्तानां शान्तिस्तेन विना न हि ॥ ५३ ॥ शिवेति नामपीयूषवर्षधारापरिप्लुतः । संसारदवमध्येऽपि न शोचति न संशयः ॥ ५४ ॥ न भक्तिः शङ्करे पुंसां रागद्वेषरतात्मनाम् । तद्विरुद्धजनानां हि मुक्तिर्भवति सर्वथा ॥ ५५ ॥ अनन्तजन्मभिर्येन तपस्तप्तं भविष्यति । तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे ॥ ५६ ॥ जातापि शङ्करे भक्तिरन्यसाधारणी वृथा । परन्त्वव्यभिचारेण शिवभक्तिरपेक्षिता ॥ ५७ ॥ यस्या साधारणी शम्भौ भक्तिरव्यभिचारिणी । तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ५८ ॥ कृत्वाप्यनन्तपापानि यदि भक्तिर्महेश्वरे । सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ५९ ॥ भवन्ति भस्मसाद्वृक्षा दवदग्धा यथा वने । तथा भवन्ति दग्धानि शाङ्कराणामघान्यपि ॥ ६० ॥ यो नित्यं भस्मपूताङ्गो शिवपूजोन्मुखो भवेत् । स तरत्येव संसारमपारमतिदारुणम् ॥ ६१ ॥ ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् । न लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः ॥ ६२ ॥ विलोक्य वेदानखिलाञ्छिवस्यैवार्चनं परम् । संसारनाशनोपाय इति पूर्वैर्विनिश्चितम् ॥ ६३ ॥ अद्यप्रभृति यत्नेन सावधानो यथाविधि । साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम् ॥ ६४ ॥ आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् । सर्वश्रुतिश्रुतं शैवम्मन्त्रञ्जप षडक्षरम् ॥ ६५ ॥ सर्वाङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान् । धारयस्वातिसद्भक्त्या समन्त्रं विधिपूर्वकम् ॥ ६६ ॥ शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा । पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः ॥ ६७ ॥ अप्रमादेन सततं शिवैकशरणो भव । शिवार्चनेन सततमानन्दः प्राप्यते यतः ॥ ६८ ॥ उरस्याधाय विशदे शिवस्य चरणाम्बुजौ । शिवतीर्थानि विचर प्रथमं मुनिसत्तम ॥ ६९ ॥ पश्यन्माहात्म्यमतुलं शङ्करस्य परात्मनः । गच्छानन्दवनं पश्चाच्छम्भुप्रियतमं मुने ॥ ७० ॥ तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः । नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि ॥ ७१ ॥ ततश्च भवता नूनं विधेयं गमनं मुने । ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः ॥ ७२ ॥ नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने । प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा ॥ ७३ ॥ स शैवप्रवरो ब्रह्मा माहात्म्यं शङ्करस्य ते । श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि ॥ ७४ ॥ अद्यतस्त्वं भव मुने शैवश्शिवपरायणः । मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति ॥ ७५ ॥ इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः । स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वन्तरधीयत ॥ ७६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥ ४ श्रीगौरीशंकरार्पणमस्तु |