|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
तृतीयोऽध्यायः ॥
नारदमोहनं वर्णनम्
ऋषय ऊचुः
सूतसूत महाभाग व्यासशिष्य नमोऽस्तु ते । अद्भुतेयं कथा तात वर्णिता कृपया हि नः ॥ १ ॥ मुनौ गते हरिस्तात किं चकार ततः परम् । नारदोपि गतः कुत्र तन्मे व्याख्यातुमर्हसि ॥ २ ॥ व्यास उवाच इत्याकर्ण्य वचस्तेषां सूतः पौराणिकोत्तमः । प्रत्युवाच शिवं स्मृत्वा नानासूतिकरं बुधः ॥ ३ ॥ सूत उवाच मुनौ यदृच्छया विष्णुर्गते तस्मिन्हि नारदे । शिवेच्छया चकाराशु माया मायाविशारदः ॥ ४ ॥ मुनिमार्गस्य मध्ये तु विरेचे नगरं महत् । शतयोजनविस्तारमद्भुतं सुमनोहरम् ॥ ५ ॥ स्वलोकादधिकं रम्यं नानावस्तुविराजितम् । नरनारीविहाराढ्यं चतुर्वर्णाकुलं परम् ॥ ६ ॥ तत्र राजा शीलनिधिर्नामैश्वर्यसमन्वितः । सुतास्वयंवरोद्युक्तो महोत्सवसमन्वितः ॥ ७ ॥ चतुर्दिग्भ्यः समायातैः संयुतो नृपनन्दनैः । नानावेषैः सुशोभैश्च तत्कन्यावरणोत्सुकैः ॥ ८ ॥ तत्तादृशं पुरं दृष्ट्वा मोहं प्राप्तोऽथ नारदः । कौतुकी तन्नृपद्वारं जगाम मदनैधितः ॥ ९ ॥ आगतं मुनिवर्यं तं दृष्ट्वा शीलनिधिर्नृपः । उपवेश्यार्चयाञ्चक्रे रत्नसिंहासने वरे ॥ १० ॥ अथ राजा स्वतनयां नामतः श्रीमतीं वराम् । समानीय नारदस्य पादयोः समपातयत् ॥ ११ ॥ तत्कन्यां प्रेक्ष्य स मुनिर्नारदः प्राह विस्मितः । केयं राजन्महाभागा कन्या सुरसुतोपमा ॥ १२ ॥ तस्य तद्वचनं श्रुत्वा राजा प्राह कृताञ्जलिः । दुहितेयं मम मुने श्रीमती नाम नामतः ॥ १३ ॥ प्रदानसमयं प्राप्ता वरमन्वेषती शुभम् । सा स्वयंवरसम्प्राप्ता सर्वलक्षणलक्षिता ॥ १४ ॥ अस्या भाग्यं वद मुने सर्वं जातकमादरात् । कीदृशं तनयेयं मे वरमाप्स्यति तद्वद ॥ १५ ॥ इत्युक्त्वा मुनिशार्दूलस्तामिच्छुः कामविह्वलः । समाभाष्य स राजानं नारदो वाक्यमब्रवीत् ॥ १६ ॥ सुतेयं तव भूपाल सर्वलक्षणलक्षिता । महाभाग्यवती धन्या लक्ष्मीरिव गुणालया ॥ १७ ॥ सर्वेश्वरोऽजितो वीरो गिरीशसदृशो विभुः । अस्याः पतिर्ध्रुवं भावी कामजित्सुरसत्तमः ॥ १८ ॥ इत्युक्त्वा नृपमामन्त्र्य ययौ यादृच्छिको मुनिः । बभूव कामविवशः शिवमायाविमोहितः ॥ १९ ॥ चित्ते विचिन्त्य स मुनिराप्नुयां कन्यकां कथम् । स्वयंवरे नृपालानामेकं मां वृणुयात्कथम् ॥ २० ॥ सौन्दर्यं सर्वनारीणां प्रियं भवति सर्वथा । तद्दृष्ट्वैव प्रसन्ना सा स्ववशा नात्र संशयः ॥ २१ ॥ विचार्येत्थं विष्णुरूपं ग्रहीतुं मुनिसत्तमः । विष्णुलोकं जगामाशु नारदः स्मरविह्वलः ॥ २२ ॥ प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह । रहसि त्वां प्रवक्ष्यामि स्ववृत्तान्तमशेषतः ॥ २३ ॥ तथेत्युक्ते तथा भूते शिवेच्छाकार्यकर्तरि । ब्रूहीत्युक्तवति श्रीशे मुनिराह च केशवम् ॥ २४ ॥ नारद उवाच त्वदीयो भूपतिः शीलनिधिः स वृषतत्परः । तस्य कन्या विशालाक्षी श्रीमती वरवर्णिनी ॥ २५ ॥ जगन्मोहिन्यभिख्या च त्रैलोक्येऽप्यतिसुन्दरी । परिणेतुमहं विष्णो तामिच्छाम्यद्य मा चिरम् ॥ २६ ॥ स्वयंवरं चकरासौ भूपतिस्तनयेच्छया । चतुर्दिग्भ्यः समायाता राजपुत्राः सहस्रशः ॥ २७ ॥ यदि दास्यसि रूपं मे तदा तां प्राप्नुयां ध्रुवम् । त्वद्रूपं सा विना कण्ठे जयमालां न धास्यति ॥ २८ ॥ स्वरूपं देहि मे नाथ सेवकोऽहं प्रियस्तव । वृणुयान्मां यथा सा वै श्रीमती क्षितिपात्मजा ॥ २९ ॥ सुत उवाच वचः श्रुत्वा मुनेरित्थं विहस्य मधुसूदनः । शाङ्करीं प्रभुतां बुद्ध्वा प्रत्युवाच दयापरः ॥ ३० ॥
विष्णुरुवाच स्वेष्टदेशं मुने गच्छ करिष्यामि हितं तव । भिषग्वरो यथार्त्तस्य यतः प्रियतरोऽसि मे ॥ ३१ ॥ इत्युक्त्वा मुनये तस्मै ददौ विष्णुर्मुखं हरे । स्वरूपमनुगृह्यास्य तिरोधानं जगाम सः ॥ ३२ ॥ एवमुक्तो मुनिर्हृष्टः स्वरूपं प्राप्य वै हरेः । मेने कृतार्थमात्मानं तद्यत्नं न बुबोध सः ॥ ३३ ॥ अथ तत्र गतः शीघ्रं नारदो मुनिसत्तमः । चक्रे स्वयंवरं यत्र राजपुत्रैः समाकुलम् ॥ ३४ ॥ स्वयंवरसभा दिव्या राजपुत्रसमावृता । शुशुभेऽतीव विप्रेन्द्रा यथा शक्रसभाऽपरा ॥ ३५ ॥ तस्यां नृपसभायां वै नारदः समुपाविशत् । स्थित्वा तत्र विचिन्त्येति प्रीतियुक्तेन चेतसा ॥ ३६ ॥ मां वरिष्यति नान्यं सा विष्णुरूपधरं ध्रुवम् । आननस्य कुरूपत्वं न वेद मुनिसत्तमः ॥ ३७ ॥ पूर्वरूपं मुनिं सर्वे ददृशुस्तत्र मानवाः। तद्भेदं बुबुधुस्ते न राजपुत्रादयो द्विजाः । ३८ ॥ तत्र रुद्रगणौ द्वौ तद्रक्षणार्थं समागतौ । विप्ररूपधरौ गूढौ तद्भेदं जज्ञतुः परम् ॥ ३९ ॥ मूढं मत्वा मुनिं तौ तन्निकटं जग्मतुर्गणौ । कुरुतस्तत्प्रहासं वै भाषमाणौ परस्परम् ॥ ४० ॥ पश्य नारद रूपं हि विष्णोरिव महोत्तमम् । मुखं तु वानरस्येव विकटं च भयङ्करम् ॥ ४१ ॥ इच्छत्ययं नृपसुतां वृथैव स्मरमोहितः । इत्युक्त्वा सच्छलं वाक्यमुपहासं प्रचक्रतुः ॥ ४२ ॥ न शुश्राव यथार्थं तु तद्वाक्यं स्मरविह्वलः । पर्यैक्षच्छ्रीमतीं तां वै तल्लिप्सुर्मोहितो मुनिः ॥ ४३ ॥ एतस्मिन्नन्तरे भूपकन्या चान्तःपुरात्तु सा । स्त्रीभिः समावृता तत्राजगाम वरवर्णिनी ॥ ४४ ॥ मालां हिरण्मयीं रम्यामादाय शुभलक्षणा । तत्र स्वयंवरे रेजे स्थिता मध्ये रमेव सा ॥ ४५ ॥ बभ्राम सा सभां सर्वां मालामादाय सुव्रता । वरमन्वेषती तत्र स्वात्माभीष्टं नृपात्मजा ॥ ४६ ॥ वानरास्यं विष्णुतनुं मुनिं दृष्ट्वा चुकोप सा । दृष्टिं निवार्य च ततः प्रस्थिताऽप्रीतमानसा ॥ ४७ ॥ न दृष्ट्वा स्ववरं तत्र त्रस्तासीन्मनसेप्सितम् । अन्तःसभा स्थिता कस्मिन्नर्पयामास न स्रजम् ॥ ४८ ॥ एतस्मिन्नन्तरे विष्णुराजगाम नृपाकृतिः । न दृष्टः कैश्चिदपरैः केवलं सा ददर्श हि ॥ ४९ ॥ अथ सा तं समालोक्य प्रसन्नवदनाम्बुजा । अर्पयामास तत्कण्ठे तां मालां वरवर्णिनी ॥ ५० ॥ तामादाय ततो विष्णू राजरूपधरः प्रभुः । अन्तर्धानमगात्सद्यः स्वस्थानं प्रययौ किल ॥ ५१ ॥ सर्वे राजकुमाराश्च निराशाः श्रीमतीं प्रति । मुनिस्तु विह्वलोऽतीव बभूव मदनातुरः ॥ ५२ ॥ तदा तावूचतुः सद्यो नारदं स्वरविह्वलम् । विप्ररूपधरौ रुद्रगणौ ज्ञानविशारदौ ॥ ५३ ॥ गणावूचतुः हे नारद मुने त्वं हि वृथा मदनमोहितः । तल्लिप्सुः स्वमुखं पश्य वानरस्येव गर्हितम् ॥ ५४ ॥ सूत उवाच इत्याकर्ण्य तयोर्वाक्यं नारदो विस्मितोऽभवत् । मुखं ददर्श मुकुरे शिवमायाविमोहितः ॥ ५५ ॥ स्वमुखं वानरस्येव दृष्ट्वा चुक्रोध सत्वरम् । शापं ददौ तयोस्तत्र गणयोर्मोहितो मुनिः ॥ ५६ ॥ युवां ममोपहासं वै चक्रतुर्ब्राह्मणस्य हि । भवेतां राक्षसौ विप्रवीर्यजौ वै तदाकृती ॥ ५७ ॥ श्रुत्वा हरगणावित्थं स्वशापं ज्ञानिसत्तमौ । न किञ्चिदूचतुस्तौ हि मुनिमाज्ञाय मोहितम् ॥ ५८ ॥ स्वस्थानं जग्मतुर्विप्रा उदासीनौ शिवस्तुतिम् । चक्रतुर्मन्यमानौ वै शिवेच्छां सकलां सदा ॥ ५९ ॥ इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदमोहवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |