|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
द्वितीयोऽध्यायः ॥
नारदतपोवर्णनम्
सूत उवाच
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः । ब्रह्मपुत्रो विनीतात्मा तपोऽर्थं मन आदधे ॥ १ ॥ हिमशैलगुहा काचिदेका परमशोभना । यत्समीपे सुरनदी सदा वहति वेगतः ॥ २ ॥ तत्राश्रमो महादिव्यो नानाशोभासमन्वितः । तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३ ॥ तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः । बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४ ॥ चक्रे मुनिः समाधिं तमहम्ब्रह्मेति यत्र ह । विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५ ॥ इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे । चकम्पेऽथ शुनासीरो मनः सन्तापविह्वलः ॥ ६ ॥ मनसीति विचिन्त्यासौ मुनिर्मे राज्यमिच्छति । तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७ ॥ सस्मार स स्मरं शक्रश्चेतसा देवनायकः । आजगाम द्रुतं कामः समधीर्महिषीसुतः ॥ ८ ॥ अथागतं स्मरं दृष्ट्वा सम्बोध्य सुरराट् प्रभुः । उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९ ॥ इन्द्र उवाच मित्रवर्य्य महावीर सर्वदा हितकारक । शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ १० ॥ त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः । मद्राज्यस्थिरता मित्र त्वदनुग्रहतः सदा ॥ ११ ॥ हिमशैलगुहायां हि मुनिस्तपति नारदः । मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२ ॥ याचेन्न विधितो राज्यं स ममेति विशङ्कितः । अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर ॥ १३ ॥ इत्याज्ञप्तो महेन्द्रेण स कामः समधुप्रियः । जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह ॥ १४ ॥ रचयामास तत्राशु स्वकलाः सकला अपि । वसन्तोपि स्वप्रभावं चकार विविधं मदात् ॥ १५ ॥ न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः । भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६ ॥ शृणुतादरतस्तत्र कारणं शौनकादयः । ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७ ॥ अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा । अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८ ॥ कामजीवनहेतोर्हि रत्या सम्प्रार्थितैः सुरैः । सम्प्रार्थित उवाचेदं शङ्करो लोकशङ्करः ॥ १९ ॥ कञ्चित्समयमासाद्य जीविष्यति सुराः स्मरः । परं त्विह स्मरोपायश्चरिष्यति न कश्चन ॥ २० ॥ इह यावद्दृष्यते भूर्जनैः स्थित्वाऽमराः सदा । कामबाणप्रभावोत्र न चलिष्यत्यसंशयम् ॥ २१ ॥ इति शम्भूक्तितः कामो मिथ्यात्मगतिकस्तदा । नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२ ॥ आचख्यौ सर्ववृत्तान्तं प्रभावं च मुनेः स्मरः । तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ॥ २३ ॥ विस्मितोभूत्सुराधीशः प्रशशंसाद्य नारदम् । तद्वृत्तान्तानभिज्ञो हि मोहितः शिवमायया ॥ २४ ॥ दुर्ज्ञेया शाम्भवी माया सर्वेषां प्राणिनामिह । भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ॥ २५ ॥ नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह । पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६ ॥ कामाज्जयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः । वृथैव विगतज्ञानः शिवमायाविमोहितः ॥ २७ ॥ धन्या धन्या महामाया शाम्भवी मुनिसत्तमाः । तद्गतिं न हि पश्यन्ति विष्णुब्रह्मादयोपि हि ॥ २८ ॥ तया संमोहितोतीव नारदो मुनिसत्तमः । कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९ ॥
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः । मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम् ॥ ३० ॥ तच्छ्रुत्वा शङ्करः प्राह नारदं भक्तवत्सलः । स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१ ॥ रुद्र उवाच हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः । वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः ॥ ३२ ॥ पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान् । गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन ॥ ३३ ॥ शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् । विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ॥ ३४ ॥ शास्ति स्मेत्थञ्च बहुशो रुद्रः सूतिकरः प्रभुः । नारदो न हितं मेने शिवमायाविमोहितः । ३५ ॥ प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः । न निवार्या जनैः कैश्चिदपीच्छा सैव शाङ्करी ॥ ३६ ॥ ततः स मुनिवर्यो हि ब्रह्मलोकं जगाम ह । विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७ ॥ तदाकर्ण्य विधिः सोथ स्मृत्वा शम्भुपदाम्बुजम् । विज्ञाय कारणं सर्वं निषिषेध सुतं तदा ॥ ३८ ॥ मेने हितं न विध्युक्तं नारदो ज्ञानिसत्तमः । शिवमायामोहितश्च रूढचित्तमदाङ्कुरः ॥ ३९ ॥ शिवेच्छा यादृशी लोके भवत्येव हि सा तदा । तदधीनं जगत्सर्वं वचस्यस्ति स्थितं यतः ॥ ४० ॥ नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः । मदाङ्कुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१ ॥ आगच्छन्तं मुनिं दृष्ट्वा नारदं विष्णुरादरात् । उत्थित्वाग्रे गतोऽरं तं शिश्लेष ज्ञातहेतुकः ॥ ४२ ॥ स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् । हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३ ॥ विष्णुरुवाच कुत आगम्यते तात किमर्थमिह चागतः । धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४ ॥ विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः । स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५ ॥ श्रुत्वा मुनिवचो विष्णुः समदं कारणं ततः । ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६ ॥ तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः । साञ्जलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७ ॥ विष्णुरुवाच देवदेव महादेव प्रसीद परमेश्वर । धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ॥ ४८ ॥ इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः । निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९ ॥ यत्कर्तव्यं शङ्करस्य स ज्ञात्वा विश्वपालकः । शिवशासनतः प्राह हृदाऽथ मुनिसत्तमम् ॥ ५० ॥ विष्णुरुवाच धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः । भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१ ॥ विकारास्तस्य सद्यो वै भवन्त्यखिलदुःखदाः । नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२ ॥ कथं कामविकारी स्याज्जन्मनाविकृतः सुधीः । इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३ ॥ विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् । नारद उवाच किं प्रभावः स्मरः स्वामिन् कृपा यद्यस्ति ते मयि ॥ ५४ ॥ इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |