॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

प्रथमोऽध्यायः ॥

मुनिप्रश्नवर्णनम्


विश्वोद्भवस्थितिलयादिषु हेतुमेकं
     गौरीपतिं विदिततत्त्वमनन्तकीर्तिम् ।
मायाश्रयं विगतमायमचिंत्यरूपं
     बोधस्वरूपममलं हि शिवं नमामि ॥ १ ॥
वन्दे शिवं तं प्रकृतेरनादिं
     प्रशान्तमेकम्पुरुषोत्तमं हि ।
स्वमायया कृत्स्नमिदं हि सृष्ट्वा
     नभोवदन्तर्बहिरास्थितो यः ॥ २ ॥
वन्देतरस्थं निजगूढरूपं
     शिवं स्वतः स्रष्टुमिदं विचष्टे ।
जगन्ति नित्यम्परितो भ्रमन्ति
     यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३ ॥
व्यास उवाच
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ।
तत्पुत्रश्च गणाधीशं नत्वैतद्वर्णयामहे ॥ ४ ॥
एकदा मुनयः सर्वे नैमिषारण्य वासिनः ।
पप्रच्छुर्वरया भक्त्या सूतं ते शौनकादयः ॥ ५ ॥
ऋषय ऊचुः
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ।
साध्यसाधनखण्डाख्या रम्याद्या भक्तवत्सला ॥ ६ ॥
सूत सूत महाभाग चिरञ्जीव सुखी भव ।
यच्छ्रावयसि नस्तात शांकरीं परमां कथाम् ॥ ७ ॥
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतं वयम् ।
अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ ॥ ८ ॥
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ।
नाज्ञातं विद्यते किंचिद् भूतं भव्यं भवच्च यत् ॥ ९ ॥
गुरोर्व्यासस्य सद्‌भक्त्या समासाद्य कृपां पराम् ।
सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ १० ॥
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ।
दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११ ॥
अगुणो गुणतां याति कथं लोके महेश्वरः ।
शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२ ॥
सृष्टेः पूर्वं कथं शम्भु स्वरूपेणावतिष्ठते ।
सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः ॥ १३ ॥
तदन्ते च कथं देवः स तिष्ठति महेश्वरः ।
कथं प्रसन्नतां याति शंकरो लोकशंकरः ॥ १४ ॥
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ।
स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५ ॥
सद्यः प्रसन्नो भगवान्भवतीत्यनुशुश्रुम ।
भक्तप्रयासं स महान्न पश्यति दयापरः ॥ १६ ॥
ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवाङ्‌गजाः ।
महेशस्तत्र पूर्णांशः स्वयमेव शिवोऽपरः ॥ १७ ॥
तस्याविर्भावमाख्याहि चरितानि विशेषतः ।
उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८ ॥
तद्‌गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ।
एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ ॥ १९ ॥
व्यास उवाच
इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
स्मृत्वा शम्भुपदाम्भोजं प्रत्युवाच मुनीश्वरान् ॥ २० ॥
सूत उवाच
सम्यक् पृष्टं भवद्‌भिश्च धन्या यूयं मुनीश्वराः ।
सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१ ॥
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ।
वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२ ॥
शम्भोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।
विना पशुघ्नं त्रिविधजनानन्दकरात्सदा । २३ ॥
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ।
मनः श्रोत्राभिरामश्च यत्तःसर्वार्थदः स वै ॥ २४ ॥
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ।
शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५ ॥
भवद्‌भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ।
पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६ ॥
श्रुत्वा सुतवचो ब्रह्मा शिवभक्तः प्रसन्नधीः ।
जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७ ॥
व्यास उवाच
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ।
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८ ॥
ऋषय ऊचुः
सूत सूत महाभाग शैवोत्तम महामते ।
श्रुत्वा तव वचो रम्यं चेतो नः सकुतूहलम् ॥ २९ ॥
कदा बभूव सुखकृद्विधिनारदयोर्महान् ।
संवादो यत्र गिरिशसुलीला भवमोचिनी ॥ ३० ॥
विधिनारदसंवादपूर्वकं शाङ्‌करं यशः ।
ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१ ॥
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ।
सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP