|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे
दशमोऽध्यायः ॥
परमशिवतत्त्ववर्णनम्
परमेश्वर उवाच
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत । सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि ॥ १ ॥ ब्रह्मणा निर्मिते लोके यदा दुःखं प्रजायते । तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २ ॥ सहायं ते करिष्यामि सर्वकार्ये च दुःसहे । तव शत्रून्हनिष्यामि दुःसाध्यान् परमोत्कटान् ॥ ३ ॥ विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् । विस्तारय हरे लोके तारणाय परो भव । गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ॥ ४ ॥ कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५ ॥ रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा । युवयोरन्तरं नैव तव रुद्रस्य किञ्चन ॥ ६ ॥ वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च । लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७ ॥ रुद्रभक्तो नरो यस्तु तव निन्दां करिष्यति । तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८ ॥ नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम । मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९ ॥ लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः । ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ १० ॥ इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् । कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११ ॥ सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः । भव त्वं सर्वथा श्रेष्ठः सर्वकामप्रसाधकः ॥ १२ ॥ सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया । सङ्कटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३ ॥ त्वां यः समाश्रितो नूनं मामेव स समाश्रितः । अन्तरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४ ॥ आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः । सन्देहोऽत्र न कर्त्तव्यो ब्रह्मविष्णुहरात्मनाम् ॥ १५ ॥ चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते । रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६ ॥ तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः । शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम् ॥ १७ ॥ ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते । सोऽपि वर्षशतं यावदात्ममानेन जीवति ॥ १८ ॥ वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम् । हरो वर्षशते याते नररूपेण संस्थितः ॥ १९ ॥ यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् । पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥ २० ॥ निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् । ब्रह्मविष्णुहराणां च गन्धर्वोरगरक्षसाम् ॥ २१ ॥
एकविंशसहस्राणि शतैः षड्भिः शतानि च । अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२ ॥ षड्भिरुच्छवासनिश्वासैः पलमेकं प्रवर्तितम् । घटी षष्टिपला प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३ ॥ निश्वासोच्छ्वासितानां च परिसङ्ख्या न विद्यते । सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४ ॥ इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया । तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५ ॥ ब्रह्मोवाच इत्याकर्ण्य वचः शम्भोर्मया च भगवान्हरिः । प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥ २६ ॥ विष्णुरुवाच शङ्कर श्रूयतामेतत्कृपासिन्धो जगत्पते । सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७ ॥ मम ध्येयःसदा त्वं च भविष्यसि न चान्यथा । भवतः सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८ ॥ क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम । चेतसो दूरतो नैव सङ्गच्छतु कदाचन ॥ २९ ॥ मम भक्तश्च यः स्वामिँस्तव निन्दा करिष्यति । तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ ३० ॥ त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः । एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१ ॥ महिमा च मदीयोऽद्य वर्द्धितो भवता ध्रुवम् । कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२ ॥ ब्रह्मोवाच तदा शम्भुस्तदीयं हि श्रुत्वा वचनमुत्तमम् । उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३ ॥ एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः । पस्पर्श सकलाङ्गेषु कृपया तु कृपानिधिः ॥ ३४ ॥ आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः । ददौ वराननेकांश्चावयोर्हितचिकीर्षया ॥ ३५ ॥ ततः स भगवाञ्छम्भुः कृपया भक्तवत्सलः । दृष्ट्या सम्पश्यतो शीघ्रं तत्रैवान्तरधीयतः ॥ ३६ ॥ तदाप्रभृति लोकेऽस्मिँल्लिङ्गपूजाविधिः स्मृतः । लिङ्गे प्रतिष्ठितः शम्भुर्भुक्तिमुक्तिप्रदायकः ॥ ३७ ॥ लिङ्गवेदिर्महादेवी लिङ्गं साक्षान्महेश्वरः । लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८ ॥ यस्तु लैङ्गं पठेन्नित्यमाख्यानं लिङ्गसन्निधौ । षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९ ॥ यस्तु लिङ्गसमीपे तु कार्यं किञ्चित्करोति च । तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ ४० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ १० ॥ श्रीगौरीशंकरार्पणमस्तु |