॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ चतुर्विंशोऽध्यायः ॥

भस्ममाहात्मम् -



[ Right click to 'save audio as' for downloading Audio ]


सूत उवाच -
द्विविधं भस्म सmप्रोक्तं सर्वमङ्‌गलदं परम् ।
तत्प्रकारमहं वक्ष्ये सावधानतया शृणु ॥ १ ॥
एकं ज्ञेयं महाभस्म द्वितीयं स्वल्प संज्ञकम् ।
महाभस्म इति प्रोक्तं भस्म नानाविधं परम् ॥ २ ॥
तद्‌भस्म त्रिविधं प्रोक्तं श्रोतं स्मार्तं च लौकिकम् ।
भस्मैव स्वल्पसञ्ज्ञं हि बहुधा परिकीर्तितम् ॥ ३ ॥
श्रौतं भस्म तथा स्मार्तं द्विजानामेव कीर्तितम् ।
अन्येषामपि सर्वेषामपरं भस्म लौकिकम् ॥ ४ ॥
धारणं मन्त्रतः प्रोक्तं द्विजानां मुनिपुङ्‌गवैः ।
केवलं धारणं ज्ञेयमन्येषां मन्त्रवर्जितम् ॥ ५ ॥
आग्नेयमुच्यते भस्म दग्धगोमय सम्भवम् ।
तदपि द्रव्यमित्युक्तं त्रिपुण्ड्रस्य महामुने ॥ ६ ॥
अग्निहोत्रोत्थितं भस्म सङ्‌ग्राह्यं वा मनीषिभिः ।
अन्ययज्ञोत्थितं वापि त्रिपुण्ड्रस्य च धारणे ॥ ७ ॥
अग्निरित्यादिभिर्मन्त्रैर्जाबालोपनिषद्‌गतैः ।
सप्तभिर्धूलनं ‌कार्यं भस्मना सजलेन च ॥ ८ ॥
वर्णानामाश्रमाणां च मन्त्रतोऽमन्त्रतोऽपि च ।
त्रिपुण्ड्रोद्धूलनं प्रोक्तं जाबालैरादरेण च ॥ ९ ॥
भस्मनोद्धूलनं चैव यथा तिर्यक्‌त्रिपुण्ड्रकम् ।
प्रमादादपि मोक्षार्थी न त्यजेदिति वै श्रुतिः ॥ १० ॥
शिवेन विष्णुना चैव धृतं तिर्यक्‌त्रिपुण्ड्रकम् ।
उमा देवी च लक्ष्म्या च स्तुतमन्यैश्च नित्यशः ॥ ११ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च सङ्‍करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२ ॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति समाचारो वर्णाश्रमसमन्वितः ॥ १३ ॥
उद्धूलनं त्रिपण्ड्रञ्च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति विनिर्मुक्तिः संसाराज्जन्मकोटिभिः ॥ १४ ॥
उद्धूलनं त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये ।
तेषां नास्ति शिवज्ञानं ‌कल्पकोटिशतैरपि ॥ १५ ॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
ते महापातकैर्युक्ता इति शास्त्रीयनिर्णयः ॥ १६ ॥
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ।
तेषामाचरितं सर्वं विपरीतफलाय हि ॥ १७ ॥
महापातकयुक्तानां जन्तूनां सर्वविद्विषाम् ।
त्रिपुण्ड्रोद्धूलनद्वेषो जायते सुदृढं मुने ॥ १८ ॥
शिवाग्निकार्यं यः कृत्वा कुर्यात्त्रियायुषात्मवित् ।
मुच्यतेसर्वपापैस्तु स्पृष्टेन भस्मना नरः ॥ १९ ॥
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवेन सहमोदते ॥ २० ॥
सितेन भस्मना कुर्याल्ललाटे तु त्रिपुण्ड्रकम् ।
योसावनादिभूतान्हि लोकानाप्तो मृतो भवेत् ॥ २१ ॥
अकृत्वा भस्मना स्नानं न जपेद्वै षडक्षरम् ।
त्रिपुण्ड्रं च रचित्वा तु विधिना भस्मना जपेत् ॥ २२ ॥
अदयो वाधमो वापि सर्वपापान्वितोऽपि वा ।
उपपापान्वितो वापि मूर्खो वा पतितोऽपि वा ॥ २३ ॥
यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः ।
सर्वतीर्थैश्च क्रतुभिः सांनिध्यं ‌क्रियते सदा ॥ २४ ॥
त्रिपुण्ड्रसहितो जीवः पूज्यः सर्वैः सुरासुरैः ।
पापान्वितोऽपि शुद्धात्मा किं पुनः श्रद्धया युतः ॥ २५ ॥
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः ।
गतो यदृच्छयाद्यापि तस्मिंस्तीर्थाः समागताः ॥ २६ ॥
बहुनात्र किमुक्तेन धार्यं भस्म सदा बुधैः ।
लिङ्‌गार्चनं सदा कार्यं जप्यो मन्त्रः षडक्षरः ॥ २७ ॥
ब्रह्मणा विष्णुना वापि रुद्रेण मुनिभिः सुरैः ।
भस्मधारणमाहात्म्यं न शक्यं परिभाषितुम् ॥ २८ ॥
इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च ।
पापात्सकृत्त्रिपुण्ड्रस्य धारणात्सोऽपि मुच्यते ॥ २९ ॥
ये भस्मधारिणं त्यक्त्वा कर्म कुर्वन्ति मानवाः ।
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ॥ ३० ॥
तेनाधीतं ‌गुरोः सर्वं तेन सर्वमनुष्ठितम् ।
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ॥ ३१ ॥
ये भस्मधारिणं दृष्ट्‍वा नराः कुर्वन्ति ताडनम् ।
तेषां चाण्डालतो जन्म ब्रह्मन्नूह्यं विपश्चिता ॥ ३२ ॥
मानस्तोकेन मन्त्रेण मन्त्रितं भस्मधारयेत् ।
ब्राह्मणः क्षत्रियश्चैव प्रोक्तेष्वङ्‌गेषु भक्तिमान् ॥ ३३ ॥
वैश्यस्त्रियम्बकेनैव शूद्रः पञ्चाक्षरेण तु ।
अन्यासां विधवास्त्रीणां विधिः प्रोक्तश्च शूद्रवत् ॥ ३४ ॥
पञ्चब्रह्मादिमनुभिर्गृहस्थस्य विधीयते ।
त्रियम्बकेन मनुना विधिर्वै ब्रह्मचारिणः ॥ ३५ ॥
अघोरेणाथ मनुना विपिनस्थविधिः स्मृतः ।
यतिस्तु प्रणवेनैव त्रिपुण्ड्रादीनि कारयेत् ॥ ३६ ॥
अतिवर्णाश्रमी नित्यं शिवोऽहं भावनात्परात् ।
शिवयोगी च नियतमीशानेनापि धारयेत् ॥ ३७ ॥
न त्याज्यं सर्ववर्णैश्च भस्मधारणमुत्तमम् ।
अन्यैरपि यथा जीवैः सदेति शिवशासनम् ॥ ३८ ॥
भस्मस्नानेन यावन्तः कणाः स्वाङ्गे प्रतिष्ठिताः ।
तावन्ति शिवलिङ्‌गानि तनौ धत्ते हि धारकः ॥ ३९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि च सङ्‌कराः ।
स्त्रियोऽथ विधवा बालाः प्राप्ताः पाखण्डिकास्तथा ॥ ४० ॥
ब्रह्मचारी गृही वन्यः संन्यासी वा व्रती तथा ।
नार्यो भस्म त्रिपुण्ड्राङ्‌का मुक्ता एव न संशयः ॥ ४१ ॥
ज्ञानाज्ञानधृतो वापि वह्निदाहसमो यथा ।
ज्ञानाज्ञानधृतं भस्म पावयेत्सकलं नरम् ॥ ४२ ॥
नाश्नीयाज्जलमन्नमल्पमपि वा
     भस्माक्षधृत्या विना
भुक्त्वा वाथ गृही वनीपतियति-
     र्वर्णी तथा सङ्‌करः ।
एनोभुङ् नरकं प्रयाति स तदा
     गायत्रि जापेन तद्
वर्णानां तु यतेस्तु मुख्यप्रणवा-
     जापेन मुक्तिर्भवेत् ॥ ४३ ॥
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ॥ ४४ ॥
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ।
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ॥ ४५ ॥
ये निन्दन्ति महेश्वरन्त्रिजगता-
     माधारभूतंहरं
ये निन्दन्ति त्रिपुण्ड्रधारणकरं
     दोषस्तु तद्दर्शने ।
ते वै सङ्‌करसूकरासुरखर-
     श्वक्रोष्टुकीटोपमा
जाता एव भवन्ति पापपरमा-
     स्ते नारकाः केवलम् ॥ ४६ ॥
ते दृष्ट्‍वा शशिभास्करौनिशि दिने-
     स्वप्नेपि नो केवलं
पश्यन्तु श्रुतिरुद्रसूक्तजपतो
     मुच्येत तेनादृताः ।
सत्सम्भाषणतो भवेद् हि नरकं
     निस्तारवानास्थितं
ये भस्मादिविधारणं हि पुरुषं
     निन्दन्ति मन्दा हि ते ॥ ४७ ॥
न तान्त्रिकस्त्वधिकृतो नोर्ध्वपुण्ड्रधरोमुने ।
सन्तप्तचक्रचिह्नोऽत्र शिवयज्ञे बहिष्कृतः ॥ ४८ ॥
तत्रैते बहवो लोका बृहज्जाबालचोदिताः ।
ते विचार्याः प्रयत्‍नेन ततो भस्मरतो भवेत् ॥ ४९ ॥
यच्चन्दनैश्चन्दनकेऽपि मिश्रं
     धार्यं हि भस्मैव त्रिपुण्ड्रभस्मना ।
विभूतिभालोपरि किञ्चनापि
     धार्यं सदा नो यदि सन्ति बुद्धयः ॥ ५० ॥
स्त्रीभिस्त्रिपुण्ड्रमलकावधि धारणीयं
     भस्मद्विजादिभिरथो विधवाभिरेवम् ।
तद्वत्सदाश्रमवतां विशदा विभूति-
     र्धार्यापवर्गफलदा सकलाघहन्त्री ॥ ५१ ॥
त्रिपुण्ड्रं कुरुते यस्तु भस्मना विधिपूर्वकम् ।
महापातकसङ्‌घातैर्मुच्यते चोपपातकैः ॥ ५२ ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
ब्रह्मक्षत्त्राश्च विट्शूद्रास्तथान्ये पतिताधमाः ॥ ५३ ॥
उद्धूलनन्त्रिपुण्ड्रं च धृत्वा शुद्धा भवन्ति च ।
भस्मनो विधिना सम्यक्पापराशिं विहाय च ॥ ५४ ॥
भस्मधारी विशेषेण स्त्रीगोहत्यादिपातकैः ।
वीरहत्याऽश्वहत्याभ्यां मुच्यते नात्र संशयः ॥ ५५ ॥
परद्रव्यापहरणं परदाराभिमर्शनम् ।
परनिन्दा परक्षेत्रहरणं परपीडनम् ॥ ५६ ॥
सस्यारामादिहरणं गृहदाहादिकर्म च ।
गोहिरण्यमहिष्यादितिलकम्बलवाससाम् ॥ ५७ ॥
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः ।
दशवेश्यामतङ्‌गीषु वृषलीषु नटीषु च ॥ ५८ ॥
रजस्वलासु कन्यासु विधवासु च मैथुनम् ।
मांसचर्मरतादीनां लवणस्य च विक्रयः ॥ ५९ ॥
पैशुन्यं कूटवादश्च साक्षिमिथ्याभिलाषिणाम् ।
एवमादीन्यसंख्यानि पापानि विविधानि च ।
सद्य एव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् ॥ ६० ॥
शिवद्रव्यापहरणं शिवनिन्दा च कुत्रचित् ।
निन्दा च शिवभक्तानां प्रायश्चित्तैर्न शुद्ध्यति ॥ ६१ ॥
रुद्राक्षं यस्य गात्रेषु ललाटे तु त्रिपुण्ड्रकम् ।
स चाण्डालोऽपि सम्पूज्यः सर्ववर्णोत्तमोत्तमः ॥ ६२ ॥
यानि तीर्थानि लोकेस्मिन्गङ्‌गाद्याः सरितश्च याः ।
स्नातो भवति सर्वत्र ललाटे तु स्त्रिपुण्ड्रकम् ॥ ६३ ॥
सप्तकोटि महामन्त्राः पञ्चाक्षरपुरःसराः ।
तथान्ये कोटिशो मन्त्राः शैवकैवल्यहेतवः ॥ ६४ ॥
अन्ये मन्त्राश्च देवानां सर्वसौख्यकरा मुने ।
ते सर्वे तस्य वश्याः स्युर्यो बिभर्ति त्रिपुण्ड्रकम् ॥ ६५ ॥
सहस्रं पूर्वजातानां सहस्रं जनयिष्यताम् ।
स्ववंशजानां ज्ञातीनामुद्धरेद्यस्त्रिपुण्ड्रकृत् ॥ ६६ ॥
इह भुक्त्वाऽखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ।
जीवितान्ते च मरणं सुखेनैव प्रपद्यते ॥ ६७ ॥
अष्टैश्वर्यगुणोपेतं प्राप्यदिव्यवपुः शिवम् ।
दिव्यं विमानमारुह्य दिव्यत्रिदशसेवितम् ॥ ६८ ॥
विद्याधराणां सर्वेषां ‌गन्धर्वाणां महौजसाम् ।
इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम् ॥ ६९ ॥
भुक्त्वा भोगान् सुविपुलान् प्रजेशानां पदेषु च ।
ब्रह्मणः पदमासाद्य तत्र कन्याशतं रमेत् ॥ ७० ॥
तत्र ब्रह्मायुषो मानं भुक्त्वा भोगाननेकशः ।
विष्णोर्लोके लभेद्‌भोगं यावद्‌ब्रह्मशतात्ययः ॥ ७१ ॥
शिवलोकं ततः प्राप्य लब्ध्वेष्टं काममक्षयम् ।
शिवसायुज्यमाप्नोति संशयो नात्र जायताम् ॥ ७२ ॥
सर्वोपनिषदां सारं समालोक्य मुहुर्मुहुः ।
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुण्ड्रकम् ॥ ७३ ॥
विभूतिं निन्दते यो वै ब्राह्मणः सोऽन्यजातकः ।
प्रयाति नरके घोरे यावद्‌ब्रह्मा चतुर्मुखः ॥ ७४ ॥
श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने ।
धृतत्रिपुण्ड्रः पूतात्मा मृत्युं जयति मानवः ॥ ७५ ॥
जलस्नानं मलत्यागे भस्मस्नानं सदा शुचि ।
मन्त्रस्नानं हरेत्पापं ज्ञानस्नाने परं पदम् ॥ ७६ ॥
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति भस्मस्नानकरो नरः ॥ ७७ ॥
भस्मस्नानं परं तीर्थं ‌गङ्‌गास्नानं दिने दिने ।
भस्मरूपी शिवः साक्षाद्‌भस्म त्रैलोक्यपावनम् ॥ ७८ ॥
न तदूनं न तद्ध्यानं न तद्दानं जपो न सः ।
त्रिपुण्ड्रेण विना येन विप्रेण यदनुष्ठितम् ॥ ७९ ॥
वानप्रस्थस्य कन्यानां दीक्षाहीननॄणां तथा ।
मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ॥ ८० ॥
एवं त्रिपुण्ड्रं यः कुर्यान्नित्यं नियतमानसः ।
शिवभक्तः स विज्ञेयो भुक्तिं मुक्तिं च विन्दति ॥ ८१ ॥
यस्याङ्‌गे नैव रुद्राक्ष एकोऽपि बहुपुण्यदः ।
तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्ररहितो यदि ॥ ८२ ॥
एवं त्रिपुण्ड्रमाहात्म्यं समासात्कथितं मया ।
रहस्यं सर्व जन्तूनां गोपनीयमिदं त्वया ॥ ८३ ॥
तिस्रो रेखा भवन्त्येव स्थानेषु मुनिपुङ्‌गवाः ।
ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने ॥ ८४ ॥
भ्रुवोर्मध्यं समारभ्य यावदन्तो भवेद्‌भ्रुवोः ।
तावत्प्रमाणं सन्धार्यं ललाटे च त्रिपुण्ड्रकम् ॥ ८५ ॥
मध्यमानामिकाङ्‌गुल्या मध्ये तु प्रतिलोमतः ।
अङ्‌गुष्ठेन कृता रेखा त्रिपुण्ड्राख्याऽभिधीयते ॥ ८६ ॥
मध्येङ्‌गुलिभिरादाय तिसृभिर्भस्म यत्‍नतः ।
त्रिपुण्ड्रं धारयेद्‌भक्त्या भुक्तिमुक्तिप्रदं परम् ॥ ८७ ॥
तिसृणामपि रेखानां प्रत्येकं नवदेवताः ।
सर्वत्राङ्‌गेषु ता वक्ष्ये सावधानतया शृणु ॥ ८८ ॥
अकारो गार्हपत्याग्निर्भूर्धर्मश्च रजोगुणः ।
ऋग्वेदश्च क्रियाशक्तिः प्रातःसवनमेव च ॥ ८९ ॥
महादेवश्च रेखायाः प्रथमायाश्च देवता ।
विज्ञेया मुनिशार्दूलाः शिवदीक्षापरायणैः ॥ ९० ॥
उकारो दक्षिणाग्निश्च नभस्तत्त्वं यजुस्तथा ।
मध्यन्दिनं च सवनमिच्छाशक्त्यन्तरात्मकौ ॥ ९१ ॥
महेश्वरश्च रेखाया द्वितीयायाश्च देवता ।
विज्ञेयामुनिशार्दूल शिवदीक्षापरायणैः ॥ ९२ ॥
मकाराहवनीयौ च परमात्मा तमोदिवौ ।
ज्ञानशक्तिः सामवेदस्तृतीयं सवनं तथा ॥ ९३ ॥
शिवश्चैव च रेखायास्तृतियायाश्च देवता ।
विज्ञेया मुनिशार्दूल शिवदीक्षापरायणौ ॥ ९४ ॥
एवं नित्यं नमस्कृत्य सद्‌भक्त्या स्थानदेवताः ।
त्रिपुण्ड्रं धारयेच्छुद्धौ भुक्तिं मुक्तिं च विन्दति ॥ ९५ ॥
इत्युक्ताः स्थानदेवाश्च सर्वाङ्‌गेषु मुनिश्वर ।
तेषां सम्बन्धिनो भक्त्या स्थानानि शृणु साम्प्रतम् ॥ ९६ ॥
द्वात्रिंशत्स्थानके वार्धषोडशस्थानकेपि च ।
अष्टस्थाने तथा चैव पञ्चस्थानेऽपि ता न्यसेत् ॥ ९७ ॥
उत्तमाङ्‌गे ललाटे च कर्णयोर्नेत्रयोस्तथा ।
नासावक्त्रगलेष्वेवं हस्तयोरुभयोस्ततः ॥ ९८ ॥
कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः ।
नाभौ मुष्कद्वये चैवमूर्वोर्गुल्फे च जानुनि ॥ ९९ ॥
जङ्‌घाद्वये पदद्वन्द्वे द्वात्रिंशत्स्थानमुत्तमम् ।
अग्न्यब्भूवायुदिग्देशदिक्पालान्वसुभिः सह ॥ १०० ॥
धरा ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभातश्च वसवोऽष्टौ प्रकीर्तिताः ॥ १०१ ॥
एतेषां नाममात्रेण त्रिपुण्ड्रं धारयेद्‌बुधाः ।
कुर्याद्वा षोडशस्थाने त्रिपुण्ड्रं तु समाहितः ॥ १०२ ॥
शीर्षके च ललाटे च कण्ठे चांसद्वये भुजे ।
कूर्परे मणिबन्धे च हृदये नाभिपार्श्वके ॥ १०३ ॥
पृष्ठे चैवं प्रतिष्ठाय यजेत्तत्राश्विदैवते ।
शिवं शक्तिं तथारुद्रमीशं नारदमेव च ॥ १०४ ॥
वामादिनवशक्तींश्च एताः षोडश देवताः ।
नासत्यो दस्रकश्चैव अश्विनौ द्वौ प्रकीर्तितौ ॥ १०५ ॥
अथवा मूर्ध्नि केशे च कर्णयोर्वदने तथा ।
बाहुद्वये च हृदये नाभ्यामूरुयुगे तथा ॥ १०६ ॥
जानुद्वये च पदयोः पृष्ठभागे च षोडश ।
शिवश्चन्द्रश्च रुद्रः को विघ्नेशो विष्णुरेव वा ॥ १०७ ॥
श्रीश्चैव हृदये शम्भुस्तथा नाभौ प्रजापतिः ।
नागश्च नागकन्याश्च उभयोर्ऋषिकन्यकाः ॥ १०८ ॥
पादयोश्च समुद्राश्च तीर्थाः पृष्ठे विशालतः ।
इत्येवं षोडशस्थानमष्टस्थानमथोच्यते ॥ १०९ ॥
गुह्यस्थानं ललाटश्च कर्णद्वयमनुत्तमम् ।
अंसयुग्मं च हृदयं नाभिरित्येवमष्टकम् ॥ ११० ॥
ब्रह्मा च ऋषयः सप्त देवताश्च प्रकीर्तिताः ।
इत्येवं तु समुद्दिष्टं भस्मविद्‌भिर्मुनीश्वराः ॥ १११ ॥
अथ वा मस्तकं बाहू हृदयं नाभिरेव च ।
पञ्चस्थानान्यमून्याहुर्धारणे भस्मविज्जनाः ॥ ११२ ॥
यथासम्भवनं कुर्याद्देशकालाद्यपेक्षया ।
उद्धूलनेऽप्यशक्तिश्चेत्त्रिपुण्ड्रादीनि कारयेत् ॥ ११३ ॥
त्रिनेत्रं त्रिगुणाधारं त्रिवेदजनकं शिवम् ।
स्मरन्नमः शिवायेति ललाटे तु त्रिपुण्ड्रकम् ॥ ११४ ॥
ईशाभ्यां नम इत्युक्त्वा पार्श्वयोश्च त्रिपुण्ड्रकम् ।
बीजाभ्यां नम इत्युक्त्वा धारयेत्तु प्रकोष्ठयोः ॥ ११५ ॥
कुर्यादधः पितृभ्यां च उमेशाभ्यां तथोपरि ।
भीमायेति ततः पृष्ठे शिरसः पश्चिमे तथा ॥ ११६ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
भस्मधारणवर्णनोनाम चतुर्विंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP