|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ पञ्चविंशोऽध्यायः ॥ रुद्राक्षमाहात्म्यम् - [ Right click to 'save audio as' for downloading Audio ]
सूत उवाच -
शौनकर्षे महाप्राज्ञ शिवरूप महापते । शृणुरुद्राक्षमाहात्म्यं समासात्कथयाम्यहम् ॥ १ ॥ शिवप्रियतमो ज्ञेयो रुद्राक्षः परपावनः । दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः ॥ २ ॥ पुरा रुद्राक्षमहिमा देव्यग्रे कथितो मुने । लोकोपकरणार्थाय शिवेन परमात्मना ॥ ३ ॥ शिव उवाच - शृणु देवि महेशानि रुद्राक्ष महिमा शिवे । कथयामि तव प्रीत्या भक्तानां हितकाम्यया ॥ ४ ॥ दिव्यवर्षसहस्राणि महेशानि पुनः पुरा । तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ॥ ५ ॥ स्वतन्त्रेण परेशेन लोकोपकृतिकारिणा । लीलया परमेशानि चक्षुरुन्मीलितं मया ॥ ६ ॥ पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिन्दवः । तत्राश्रुबिन्दुतो जाता वृक्षा रुद्राक्षसञ्ज्ञकाः ॥ ७ ॥ स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् । ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ॥ ८ ॥ भूमौ गौडोद्भवांश्चक्रे रुद्राक्षाञ्छिववल्लभान् । मथुरायामयोध्यायां लङ्कायां मलये तथा ॥ ९ ॥ सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा । परानसह्यपापौघभेदनाञ्छ्रुतिनोदनान् ॥ १० ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया । रुद्राक्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ११ ॥ श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः । स्वजातीयं नृभिर्धार्यं रुद्राक्षं वर्णतः क्रमात् ॥ १२ ॥ वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः । शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा ॥ १३ ॥ धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् । बदरीफलमात्रं तु मध्यमं सम्प्रकीर्तितम् ॥ १४ ॥ अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते । शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया ॥ १५ ॥ बदरीफलमात्रं च यत्स्यात्किल महेश्वरि । तथापि फलदं लोके सुखसौभाग्यवर्धनम् ॥ १६ ॥ धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् । गुञ्जया सदृशं यत्स्यात्सर्वार्थफलसाधनम् ॥ १७ ॥ यथा यथा लघुः स्याद्वै तथाधिकफलप्रदः । एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः ॥ १८ ॥ रुद्राक्षधारणं प्रोक्तं पापनाशनहेतवे । तस्माच्च धारणीयो वै सर्वार्थसाधनो ध्रुवम् ॥ १९ ॥ यथा च दृश्यते लोके रुद्राक्ः फलदः शुभः । न तथा दृश्यतेऽन्या च मालिका परमेश्वरि ॥ २० ॥ समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः । रुद्राक्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा ॥ २१ ॥ क्रिमिदुष्टं छिन्नभिन्नं कण्टकैर्हीनमेव च । व्रणयुक्तमवृत्तं च रुद्राक्षान्षड् विवर्जयेत् ॥ २२ ॥ स्वयमेव कृतद्वारं रुद्राक्षं स्यादिहोत्तमम् । यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ॥ २३ ॥ रुद्राक्षधारणं प्रोक्तं महापातकनाशनम् । रुद्रसंख्याशतं धृत्वा रुद्ररूपो भवेन्नरः ॥ २४ ॥ एकादशशतानीह धृत्वा यत्फलमाप्यते । तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि ॥ २५ ॥ शतार्धेन युतैः पञ्चशतैर्वै मुकुटं मतम् । रुद्राक्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः ॥ २६ ॥ त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः । रुद्राक्षैरुपवीतं व निर्मीयाद्भक्तितत्परः ॥ २७ ॥ शिखायां च त्रयं प्रोक्तं रुद्रक्षाणां महेश्वरि । कर्णयोः षट् च षट् चैव वामदक्षिणयोस्तथा ॥ २८ ॥ शतमेकोत्तरं कण्ठे बाह्वोर्वै रुद्रसंख्यया । कूर्परद्वारयोस्तत्र मणिबन्धे तथा पुनः ॥ २९ ॥ उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः । शेषानुर्वरितान्पञ्च सम्मितान्धारयेत्कटौ ॥ ३० ॥ एतत्संख्या धृता येन रुद्राक्षाः परमेश्वरि । तद्रूपं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ॥ ३१ ॥ एवम्भूतं स्थितं ध्याने यदा कृत्वासने जनम् । शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ॥ ३२ ॥ शतादिकसहस्रस्य विधिरेष प्रकीर्तितः । तदभावे प्रकारोन्यः शुभः सम्प्रोच्यते मया ॥ ३३ ॥ शिखायामेकरुद्राक्षं शिरसा त्रिंशतं वहेत् । पञ्चाशच्च गले दध्याद्बाह्वोः षोडश षोडश ॥ ३४ ॥ मणिबन्धे द्वादश द्विस्कन्धे पञ्चशतं वहेत् । अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ॥ ३५ ॥ एवं सहस्ररुद्राक्षान्धारयेद्यो दृढव्रतः । तं नमन्ति सुराः सर्वे यथारुद्रस्तथैव सः ॥ ३६ ॥ एकं शिखायां रुद्राक्षं चत्वारिंशत्तु मस्तके । द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ॥ ३७ ॥ एकैकं कर्णयोः षट् षट् बाह्वोः षोडश षोडश । करयोरविमानेन द्विगुणेन मुनीश्वर ॥ ३८ ॥ संख्या प्रीतिर्धृता येन सोऽपि शैवजनः परः । शिववत्पूजनीयो हि वन्द्यः सर्वैरभीक्ष्णशः ॥ ३९ ॥ शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च । अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ ४० ॥ अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः । पञ्चदशाक्षग्रथितां वामदेवेन चोदरे ॥ ४१ ॥ पञ्च ब्रह्मभिरङ्गैश्च त्रिमालां पञ्च सप्त च । अथ वा मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ॥ ४२ ॥ मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च । श्लेष्मान्तकं विड्वराहं भक्षणे वर्जयेत्ततः ॥ ४३ ॥ वलक्षं रुद्राक्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्राणां प्रमुदितमुमे पीतमसकृत् । ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रैः श्रुतिगदितमार्गोऽयमगजे ॥ ४४ ॥ वर्णी वनी गृहयतीर्नियमेन दध्या- देतद्रहस्यपरमो न हि जातु तिष्ठेत् । रुद्राक्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयान्ति ॥ ४५ ॥ आदावामलकात्स्वतो लघुतरा रुग्णास्ततःकण्टकैः सन्दष्टाः कृमिभिस्तनूपकरण- च्छिद्रेण हीनास्तथा । धार्यानैव शुभेप्सुभिश्चणकव- द्रुद्राक्षमप्यन्ततो रुद्राक्षो मम लिङ्गमङ्गलमुमे सूक्ष्मं प्रशस्तं सदा ॥ ४६ ॥ सर्वाश्रमाणां वर्णानां स्त्रीशूद्राणां शिवाज्ञया । धार्याः सदैव रुद्राक्षा यतीनां प्रणवेन हि ॥ ४७ ॥
दिवा बिभ्रद्रात्रिकृतै रात्रौ बिभ्रद्दिवाकृतैः । प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ॥ ४८ ॥ ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये । ये रुद्राक्षधरास्ते वै यमलोकं प्रयान्ति न ॥ ४९ ॥ रुद्राक्षमेकं शिरसा बिभर्ति तथात्रिपुण्ड्रं च ललाटमध्ये । पञ्चाक्षरं ये हि जपन्ति मन्त्रं पूज्याभवद्भिः खलु ते हि साधवः ॥ ५० ॥ यस्याङ्गे नास्ति रुद्राक्षस्त्रिपुण्ड्रं भालपट्टके । मुखे पञ्चाक्षरं नास्ति तमानय यमालयम् ॥ ५१ ॥ ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्राक्षधारिणः । ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ॥ ५२ ॥ एवमाज्ञापयामास कालोऽपि निजकिङ्करान् । तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ॥ ५३ ॥ अत एव महादेवि रुद्राक्षोऽप्यघनाशनः । तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ॥ ५४ ॥ हस्ते बाहौ तथा मूर्ध्नि रुद्राक्षं धारयेत्तु यः । अवध्यः सर्वभूतानां रुद्ररूपी चरेद्भुवि ॥ ५५ ॥ सुरासुराणां सर्वेषां वन्दनीयः सदा स वै । पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ॥ ५६ ॥ ध्यानज्ञानावमुक्तोऽपि रुद्राक्षं धारयेत्तु यः । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५७ ॥ रुद्राक्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् । दशकोटिगुणं पुण्यं धारणाल्लभते नरः ॥ ५८ ॥ यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै । तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ॥ ५९ ॥ त्रिपुण्ड्रेण च संयुक्तं रुद्राक्षाविलसाङ्गकम् । मृत्युञ्जयं जपन्तं च दृष्ट्वा रुद्रफलं लभेत् ॥ ६० ॥ पञ्चदेवप्रियश्चैव सर्वदेवप्रियस्तथा । सर्वमन्त्राञ्जपेद्भक्तो रुद्राक्षमालया प्रिये ॥ ६१ ॥ विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः । रुद्रभक्तो विशेषेण रुद्राक्षान्धारयेत्सदा ॥ ६२ ॥ रुद्राक्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् । शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ॥ ६३ ॥ एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः । तस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥ ६४ ॥ यत्र सम्पूजितस्तत्र लक्ष्मीर्दूरतरा नहि । नश्यन्त्युपद्रवाः सर्वे सर्वकामा भवन्ति हि ॥ ६५ ॥ द्विवक्त्रो देवदेवेशः सर्वकामफलप्रदः । विशेषतः स रुद्राक्षो गोवधं नाशयेद्द्रुतम् ॥ ६६ ॥ त्रिवक्त्रो यो हि रुद्राक्षः साक्षात्साधनदः सदा । तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ॥ ६७ ॥ चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति । दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ॥ ६८ ॥ पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नामतः प्रभुः । सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ॥ ६९ ॥ अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् । इत्यादि सर्वपापानि पञ्चवक्त्रो व्यपोहति ॥ ७० ॥ षड्वक्त्रः कार्तिकेयस्तु धारणाद्दक्षिणे भुजे । ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ॥ ७१ ॥ सप्तवक्त्रो महेशानि ह्यनङ्गो नाम नामतः । धारणात्तस्य देवेशि दरिद्रोऽपीश्वरो भवेत् ॥ ७२ ॥ रुद्राक्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः । धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ॥ ७३ ॥ भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः । दुर्गा वा तदधिष्ठात्री नवरूपा महेश्वरी ॥ ७४ ॥ तं धारयेद्वामहस्ते रुद्राक्षं भक्तितत्परः । सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ॥ ७५ ॥ दशवक्त्रो महेशानि स्वयं देवो जनार्दनः । धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ॥ ७६ ॥ एकादशमुखो यस्तु रुद्राक्षः परमेश्वरि । स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ॥ ७७ ॥ द्वादशास्यं तु रुद्राक्षः धारयेत्केशदेशके । आदित्याश्चैव ते सर्वे द्वादशैव स्थितास्तथा ॥ ७८ ॥ त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः । सर्वान्कामानवाप्नोति सौभाग्यं मङ्गलं लभेत् ॥ ७९ ॥ चतुर्दशमुखो यो हि रुद्राक्षः परमः शिवः । धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति ॥ ८० ॥ इति रुद्राक्षभेदा हि प्रोक्ता वै मुखभेदतः । तत्तन्मन्त्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ॥ ८१ ॥ ॐ ह्रीं नमः १ ॐ नमः २ ॐ क्लीं नमः ३ ॐ ह्रीं नमः ४ ॐ ह्रीं नमः ५ ॐ ह्रीं हुं नमः ६ ॐ ह्रीं नमः ७ ॐ हुं नमः ८ ॐ ह्रीं हुं नमः ९ ॐ ह्रीं नमः १० ॐ ह्रीं हुं नमः ११ ॐ क्षौं रौं नमः १२ ॐ ह्रीं नमः १३ ॐ नमः १४ भक्तिश्रद्धायुतश्चैव सर्वकामार्थसिद्धये । रुद्राक्षान्धारयेन्मन्त्रैर्देवि आलस्य वर्जितः ॥ ८२ ॥ विना मन्त्रेण हो धत्ते रुद्राक्षं भुवि मानवः । स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥ ८३ ॥ रुद्राक्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः । डाकिनी शाकिनी चैव ये चान्ये द्रोहकारकाः ॥ ८४ ॥ कृत्रिमं चैव यत्किञ्चिदभिचारादिकं च यत् । तत्सर्वं दूरतो याति दृष्ट्वा शङ्कितविग्रहम् ॥ ८५ ॥ रुद्राक्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति । देवीगणपतिः सूर्यः सुराश्चान्येऽपि पार्वति ॥ ८६ ॥ एवं ज्ञात्वा तु माहात्म्यं रुद्राक्षस्य महेश्वरि । सम्यग्धार्याः समन्त्राश्च भक्त्या धर्मविवृद्धये ॥ ८७ ॥ इत्युक्तं गिरिजाग्रे हि शिवेनपरमात्मना । भस्मरूद्राक्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ॥ ८८ ॥ शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्राक्षधारिणौ । तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ॥ ८९ ॥ भस्मरुद्राक्षधारी यः शिवभक्तः स उच्यते । पञ्चाक्षरजपासक्तः परिपूर्णश्च सन्मुखे ॥ ९० ॥ विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो नाभीष्टफलदायकः ॥ ९१ ॥ तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर । भस्मरुद्राक्षमाहात्म्यं सर्वकाम समृद्धिदम् ॥ ९२ ॥ एतद्यः शृणुयान्नित्यं माहात्म्यं परमं शुभम् । रुद्राक्षभस्मनोर्भक्त्या सर्वान्कामानवाप्नुयात् ॥ ९३ ॥ इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः । लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ॥ ९४ ॥ विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः । सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ॥ ९५ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्राक्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः ॥ समाप्तेयं प्रथमा विद्येश्वरसंहिता ॥ श्रीगौरीशंकरार्पणमस्तु |