॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ त्रयोविंशोऽध्यायः ॥

रुद्राक्षमाहात्म्यं शिवनाममहिमा च -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
तदेव व्यासतो ब्रूहि भस्ममाहात्म्यमुत्तमम् ॥ १ ॥
तथा रुद्राक्षमाहात्म्यं नाम माहात्म्यमुत्तमम् ।
त्रितयं ब्रूहि सुप्रीत्या ममानन्दय मानसम् ॥ २ ॥
सूत उवाच -
साधु पृष्टं भवद्‌भिश्च लोकानां हितकारकम् ।
भवन्तो वै महाधन्याः पवित्राः कुलभूषणाः ॥ ३ ॥
येषां चैव शिवः साक्षाद्दैवतं परमं शुभम् ।
सदाशिवकथा लोके वल्लभा भवतां सदा ॥ ४ ॥
ते धन्याश्च कृतार्थाश्च सफलं देहधारणम् ।
उद्धृतं च कुलं तेषां ये शिवं समुपासते ॥ ५ ॥
शिवनाम मुखे यस्य सदाशिवशिवेति च ।
पापानि न स्पृशन्त्येव खदिराङ्‌गारङ्‌कं यथा ॥ ६ ॥
श्रीशिवाय नमस्तुभ्यं मुखं व्याहरते यदा ।
तन्मुखं पावनं तीर्थं सर्वपापविनाशनम् ॥ ७ ॥
तन्मुखं च तथा यो वै पश्यति प्रीतिमान्नरः ।
तीर्थजन्यं फलं तस्य भवतीति सुनिश्चितम् ॥ ८ ॥
यत्र त्रयं सदा तिष्ठेदेतच्छुभतरं द्विजाः ।
तस्य स्पर्शनमात्रेण वेणीस्नान फलं लभेत् ॥ ९ ॥
शिवनामविभूतिश्च तथा रुद्राक्ष एव च ।
एतत्त्रयं महापुण्यं त्रिवेणीसदृशं स्मृतम् ॥ १० ॥
एतत्त्रयं शरीरे च यस्य तिष्ठति नित्यशः ।
तस्यैव दर्शनं लोके दुर्लभं पापहारकम् ॥ ११ ॥
तद्दर्शनं यथा वेणी नोभयोरन्तरं मनाक् ।
एवं यो न विजानाति स पापिष्ठो न संशयः ॥ १२ ॥
विभूतिर्यस्य नो भाले नाङ्‌गे रुद्राक्षधारणम् ।
नास्ये शिवमयी वाणी तं त्यजेदधमं यथा ॥ १३ ॥
शैवं नाम यथा गङ्‌गा विभूतिर्यमुना मता ।
रुद्राक्षं विधिना प्रोक्ता सर्वपापविनाशिनी ॥ १४ ॥
शरीरे च त्रयं यस्य तत्फलं चैकतः स्थितम् ।
एकतो वेणिकायाश्च स्नानजं तु फलं बुधैः ॥ १५ ॥
तदेवं तुलितं पूर्वं ब्रह्मणा हितकारिणा ।
समानं चैव तज्जातं तस्माद्धार्यं सदा बुधैः ॥ १६ ॥
तद्दिनं हि समारभ्य ब्रह्मविष्ण्वादिभिः सुरैः ।
धार्यते त्रितयं तच्च दर्शनात्पापहारकम् ॥ १७ ॥
ऋष्य ऊचुः
ईदृशं हि फलं प्रोक्तं नामादित्रितयोद्‌भवम् ।
तन्माहात्म्यं विशेषेण वक्तुमर्हसि सुव्रत ॥ १८ ॥
सूत उवाच
ऋषयो हि महाप्राज्ञाः सच्छैवा ज्ञानिनां वराः ।
तन्माहात्म्यं हि सद्‌भक्त्या शृणुतादरतो द्विजाः ॥ १९ ॥
स गूढमपि शास्त्रेषु पुराणेषु श्रुतिष्वपि ।
भवत्स्नेहान्मया विप्राः प्रकाशः क्रियतेऽधुना ॥ २० ॥
कस्तत्त्रितयमाहात्म्यं सञ्जानाति द्विजोत्तमाः ।
महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् ॥ २१ ॥
वच्म्यहं नाममाहात्म्यं यथा भक्ति समासतः ।
शृणुत प्रीतितो विप्राः सर्वपापहरं परम् ॥ २२ ॥
शिवेति नामदावाग्नेर्महापातकपर्वताः ।
भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः ॥ २३ ॥
पापमूलानि दुःखानि विविधान्यपि शौनक ।
शिवनामैकनश्यानि नान्यनश्यानि सर्वथा ॥ २४ ॥
स वैदिकः स पुण्यात्मा स धन्यः स बुधो मतः ।
शिवनामजपासक्तो यो नित्यं भुवि मानव ॥ २५ ॥
भवन्ति विविधा धर्मास्तेषां सद्यः फलोन्मुखाः ।
येषां भवति विश्वासः शिवनामजपे मुने ॥ २६ ॥
पातकानि विनश्यन्ति यावन्ति शिवनामतः ।
भुवि तावन्ति पापानि क्रियन्ते न नरैर्मुने ॥ २७ ॥
ब्रह्महत्यादिपापानां राशीनप्रमितान्मुने ।
शिवनाम द्रुतं प्रोक्तं नाशयत्यखिलान्नरैः ॥ २८ ॥
शिवनामतरीं प्राप्य संसाराब्धिं तरन्ति ये ।
संसारमूलपापानि तानि नश्यन्त्यसंशयम् ॥ २९ ॥
संसारमूलभूतानां पातकानां महामुने ।
शिवनाम कुठारेण विनाशो जायते ध्रुवम् ॥ ३० ॥
शिवनामामृतं पेयं पापदावानलार्दितैः ।
पापदावाग्नितप्तानां शान्तिस्तेन विना न हि ॥ ३१ ॥
शिवेति नामपीयूषवर्षवर्षधारापरिप्लुताः ।
संसारदवमध्येऽपि न शोचन्ति कदाचन ॥ ३२ ॥
शिवनाम्नि महद्‌भक्तिर्जाता येषां महात्मनाम् ।
तद्विधानां तु सहसा मुक्तिर्भवति सर्वथा ॥ ३३ ॥
अनेकजन्मभिर्येन तपस्तप्तं मुनीश्वर ।
शिवनाम्नि भवेद्‌भक्तिः सर्वपापापहारिणी ॥ ३४ ॥
यस्यासाधारणी शम्भुनाम्नि भक्तिरखण्डिता ।
तस्यैव मोक्षः सुलभो नान्यस्येति मतिर्मम ॥ ३५ ॥
कृत्वाप्यनेकपापानि शिवनामजपादरः ।
सर्वपापविनिर्मुक्तो भवत्येव न संशयः ॥ ३६ ॥
भवन्ति भस्मसाद्वृक्षा दवदग्धा यथा वने ।
तथा तावन्ति दग्धानि पापानि शिवनामतः ॥ ३७ ॥
यो नित्यं भस्मपूताङ्‌गः शिवनामजपादरः ।
स तरत्येव संसारमघोरमपि शौनक ॥ ३८ ॥
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।
न लिप्यते नरः पापैः शिवनामजपादरः ॥ ३९ ॥
विलोक्य वेदानखिलाञ्छिवनामजपः परम् ।
संसारतारणोपाय इतिपूर्वैर्विनिश्चितम् ॥ ४० ॥
किं बहूक्त्या मुनिश्रेष्ठाः श्लोकेनैकेन वच्म्यहम् ।
शिवाभिधानमाहात्म्यं सर्वपापापहारणम् ॥ ४१ ॥
पापानां हरणं शम्भोर्नामः शक्तिर्हि पावनी ।
शक्नोति पातकं तावत्कर्तुं नापि नरः क्वचित् ॥ ४२ ॥
शिवनामप्रभावेण लेभे सद्‌गतिमुत्तमाम् ।
इन्द्रद्युम्ननृपः पूर्वं महापापयुतो मुने ॥ ४३ ॥
तथा काचिद्‌द्विजा योषाऽसौ मुनेबहुपापिनी ।
शिवनामप्रभावेण लेभे सद्‌गतिमुत्तमाम् ॥ ४४ ॥
इत्युक्तं वो द्विजश्रेष्ठा नाममाहात्म्यमुत्तमम् ।
शृणुध्वं भस्ममाहात्म्यं सर्वपावनपावनम् ॥ ४५ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे
शिवनममाहात्म्यवर्णनोनाम त्रयोविंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP