॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ द्वाविंशोऽध्यायः ॥

शिवनैवेद्यभक्षणनिर्णयः बिल्वमाहात्म्यं च -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
अग्राह्यं शिवनैवेद्यमिति पूर्वं श्रुतं वचः ।
ब्रूहि तन्निर्णयं बिल्वमाहात्म्यमपि सन्मुने ॥ १ ॥
सूत उवाच -
शृणुध्वं मुनयःसर्वे सावधानतयाऽधुना ।
सर्वं वदामि सप्रीत्या धन्या यूयं शिवव्रताः ॥ २ ॥
शिवभक्तः शुचिः शुद्धः सद्‌व्रतीदृढनिश्चयः ।
भक्षयेच्छिवनैवेद्यं त्यजेदग्राह्यभावनाम् ॥ ३ ॥
दृष्ट्‍वापि शिवनैवेद्यं यान्ति पापानि दूरतः ।
भक्ते तु शिवनैवेद्ये पुण्यान्या यान्ति कोटिशः ॥ ४ ॥
अलं यागसहस्रेणाप्यलं यागार्बुदैरपि ।
भक्षिते शिवनैवेद्ये शिवसायुज्यमाप्नुयात् ॥ ५ ॥
यद्‌गृहेशिवनैवेद्य प्रचारोऽपिप्रजायते ।
तद्‌गृहं पावनं सर्वमन्यपावनकारणम् ॥ ६ ॥
आगतं शिवनैवेद्यं गृहीत्वा शिरसा मुदा ।
भक्षणीयं प्रयत्‍नेन शिवस्मरणपूर्वकम् ॥ ७ ॥
आगतं शिवनैवेद्यमन्यदा ग्राह्यमित्यपि ।
विलम्बे पापसम्बन्धो भवत्येव हि मानवः ॥ ८ ॥
न यस्य शिवनैवेद्य ग्रहणेच्छाप्रजायते ।
स पापिष्ठगरिष्ठः स्यान्नरकं यात्यपि ध्रुवम् ॥ ९ ॥
हृदये चन्द्रकान्ते च स्वर्णरूप्यादिनिर्मिते ।
शिवदीक्षावता भक्तेनेदं भक्ष्यमितीर्यते ॥ १० ॥
शिवदीक्षान्वितोभक्तो महाप्रसादसञ्ज्ञकम् ।
सर्वेषामपि लिङ्‌गानां नैवेद्यं भक्षयेच्छुभम् ॥ ११ ॥
अन्यदीक्षायुजां नॄणां शिवभक्तिरतात्मनाम् ।
शृणुध्वं निर्णयं प्रीत्या शिवनैवेद्यभक्षणे ॥ १२ ॥
शालग्रामोद्‌भवे लिङ्‌गे रसलिङ्‌गे तथा द्विजाः ।
पाषाणे राजते स्वर्णे सुरसिद्धप्रतिष्ठिते ॥ १३ ॥
काश्मीरे स्फाटिके रात्‍ने ज्योतिर्लिङ्‌गेषु सर्वशः ।
चान्द्रायणसमं प्रोक्तं शम्भोर्नैवेद्यभक्षणम् ॥ १४ ॥
ब्रह्महापि शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
भक्षयित्वा द्रुतं तस्य सर्वपापं प्रणश्यति ॥ १५ ॥
चण्डाधिकारो यत्रास्ति तद्‌भोक्तव्यं न मानवैः ।
चण्डाधिकारो नो यत्र भोक्तव्यं तच्च भक्तितः ॥ १६ ॥
बाणलिङ्‌गे च लौहे च सिद्धेलिङ्‌गे स्वयम्भुवि ।
प्रतिमासु च सर्वासु न चण्डोधिकृतोभवेत् ॥ १७ ॥
स्नापयित्वा विधानेन योलिङ्‌गस्नापनोदकम् ।
त्रिः पिबेत्त्रिविधं पापं तस्येहाशु विनश्यति ॥ १८ ॥
अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलासङ्‌गात्सर्वं याति पवित्रताम् ॥ १९ ॥
लिङ्‌गोपरि च यद्द्रव्यं तदग्राह्यं मुनीश्वराः ।
सुपवित्रं च तज्ज्ञेयं यल्लिङ्‌गस्पर्शबाह्यतः ॥ २० ॥
नैवेद्यनिर्णयः प्रोक्त इत्थं वो मुनिसत्तमाः ।
शृणुध्वं बिल्वमाहात्म्यं सावधानतयाऽऽदरात् ॥ २१ ॥
महादेवस्वरूपोऽयं बिल्वो देवैरपि स्तुतः ।
यथाकथञ्चिदेतस्य महिमा ज्ञायते कथम् ॥ २२ ॥
पुण्यतीर्थानि यावन्ति लोकेषु प्रथितान्यपि ।
तानि सर्वाणि तीर्थानि बिल्वमूले वसन्ति हि ॥ २३ ॥
बिल्वमूले महादेवं लिङ्‌गरूपिणमव्ययम् ।
यः पूजयति पुण्यात्मा स शिवं प्राप्नुयाद्ध्रुवम् ॥ २४ ॥
बिल्वमूले जलैर्यस्तु मूर्धानमभिषिञ्चति ।
स सर्वतीर्थस्नातः स्यात्स एव भुवि पावनः ॥ २५ ॥
एतस्य बिल्वमूलस्याथालवालमनुत्तमम् ।
जलाकुलं महादेवो दृष्ट्‍वा तुष्टो भवत्यलम् ॥ २६ ॥
पूजयेद्‌बिल्वमूलं यो गन्धपुष्पादिभिर्नरः ।
शिवलोकमवाप्नोति सन्ततिर्वर्धते सुखम् ॥ २७ ॥
बिल्वमूले दीपमालां यः कल्पयति सादरम् ।
स तत्त्वज्ञानसम्पन्नो महेशान्तर्गतो भवेत् ॥ २८ ॥
बिल्वशाखां समादाय हस्तेन नवपल्लवम् ।
गृहीत्वा पूजयेद्‌बिल्वं स च पापैः प्रमुच्यते ॥ २९ ॥
बिल्वमूले शिवरतं भोजयेद्यस्तु भक्तितः ।
एकं वा कोटिगुणितं तस्य पुण्यं प्रजायते ॥ ३० ॥
बिल्वमूले क्षीरयुक्तमन्नमाज्येन संयुतम् ।
यो दद्याच्छिवभक्ताय स दरिद्रो न जायते ॥ ३१ ॥
साङ्‌गोपाङ्‌गमिति प्रोक्तं शिवलिङ्‌गप्रपूजनम् ।
प्रवृत्तानां निवृत्तानां भेदतो द्विविधं द्विजाः ॥ ३२ ॥
प्रवृत्तानां पीठपूजां सर्वाभीष्टप्रदा भुवि ।
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ॥ ३३ ॥
नैवेद्यमभिषेकान्ते शाल्यन्नेन समाचरेत् ।
पूजान्ते स्थापयेल्लिङ्‌गं पुटे शुद्धे पृथग्गृहे ॥ ३४ ॥
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ।
निवृत्तानां परं सूक्ष्मं लिङ्‌गमेव विशिष्यते ॥ ३५ ॥
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ।
पूजां कृत्वा तथा लिङ्‌गं शिरसा धारयेत्सदा ॥ ३६ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे शिवनैवेद्यवर्णनोनाम द्वाविंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP