॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ एकोनविंशोऽध्यायः ॥

पार्थिवपूजनमाहात्म्यं भस्मप्रकाराभिधानं च -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
सूत सूत चिरञ्जीव धन्यस्त्वं शिवभक्तिमान् ।
सम्यगुक्तस्त्वया लिङ्‌गमहिमा सत्फलप्रदः ॥ १ ॥
यत्रपार्थिवमाहेशलिङ्‌गस्य महिमाऽधुना ।
सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः ॥ २ ॥
सूत उवाच -
शृणुध्वमृषयः सर्वे सद्‌भक्त्यादरतोऽखिलाः ।
शिवपार्थिवलिङ्‌गस्य महिमा प्रोच्यते मया ॥ ३ ॥
उक्तेष्वेतेषु लिङ्‌गेषु पार्थिवं लिङ्‌गमुत्तमम् ।
तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ॥ ४ ॥
हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।
सम्पूज्य पार्थिवं लिङ्‌गं प्रापुः सर्वेप्सितं द्विजाः ॥ ५ ॥
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अन्येऽपि बहवः सिद्धिं तं सम्पूज्य ‌गताः परम् ॥ ६ ॥
कृते रत्‍नमयं लिङ्‌गं त्रेतायां हेमसम्भवम् ।
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे ॥ ७ ॥
अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वराः ।
अनन्यपूजिता विप्रास्ततस्तस्मान्महत्फलम् ॥ ८ ॥
यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ।
एवं सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ ९ ॥
यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।
तथा सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १० ॥
यथा सर्वेषु मन्त्रेषु प्रणवो हि महान्स्मृतः ।
तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि ॥ ११ ॥
यथा सर्वेषु वर्णेषु ब्राह्मणः श्रेष्ठ उच्यते ।
तथा सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १२ ॥
यथा पुरीषु सर्वासु काशी श्रेष्ठतमा स्मृता ।
तथा सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १३ ॥
यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।
तथा सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १४ ॥
यथा देवीषु सर्वासु शैवी शक्तिः परा स्मृता ।
तथा सर्वेषु लिङ्‌गेषु पार्थिवं श्रेष्ठमुच्यते ॥ १५ ॥
प्रकृत्य पार्थिवं लिङ्‌गं योऽन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा स्नानदानादिकं वृथा ॥ १६ ॥
पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।
तुष्टिदं पुष्टिदं श्रीदं ‌कार्यं साधकसत्तमैः ॥ १७ ॥
यथालब्धोपचारैश्च भक्तिश्रद्धासमन्वितः ।
पूजयेत्पार्थिवं लिङ्‌गं सर्वकामार्थसिद्धिदम् ॥ १८ ॥
यः कृत्वा पार्थिवं लिङ्‌गं पूजयेच्छुभवेदिकम् ।
इहैव धनवाञ्छ्रीमानन्ते रुद्रोऽभिजायते ॥ १९ ॥
त्रिसन्ध्यं योर्चयंल्लिङ्‌गं ‌कृत्वा बिल्वेन पार्थिवम् ।
दशैकादशकं यावत्तस्य पुण्यफलं शृणु ॥ २० ॥
अनेनैव स्वदेहेन रुद्रलोके महीयते ।
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि ॥ २१ ॥
जीवन्मुक्तः स वै ज्ञानी शिव एव न संशयः ।
तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते ॥ २२ ॥
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्‌गं तु पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ २३ ॥
मृतेनाप्रमितान्वर्षाञ्छिवलोके हि तिष्ठति ।
सकामः पुनरागत्य राजेन्द्रो भारते भवेत् ॥ २४ ॥
निष्कामः पूजयेन्नित्यं पार्थिवं लिङ्‌गमुत्तमम् ।
शिवलोके सदा तिष्ठेत्ततस्य सायुज्यमाप्नुयात् ॥ २५ ॥
पार्थिवं शिवलिङ्‌गं च विप्रो यदि न पूजयेत् ।
स याति नरकं ‌घोरं शूलप्रोतं सुदारुणम् ॥ २६ ॥
यथाकथञ्चिद्विधिना रम्यं लिङ्‌गं प्रकारयेत् ।
पञ्चसूत्रविधानं च पार्थिवेन विचारयेत् ॥ २७ ॥
अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।
द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत् ॥ २८ ॥
रत्‍नजं हेमजं लिङ्‌गं पारदं स्फाटिकं तथा ।
पार्थिवं पुष्परागोत्थमखण्डं तु प्रकारयेत् ॥ २९ ॥
अखण्डं तु चरं लिङ्‌गं द्विखण्डमचरं स्मृतम् ।
खण्डाखण्डविचारोऽयं सचराचरयोः स्मृतः ॥ ३० ॥
वेदिका तु महाविद्या लिङ्‌गं देवो महेश्वरः ।
अतो हि स्थावरे लिङ्‌गे स्मृता श्रेष्ठा द्विखण्डिता ॥ ३१ ॥
द्विखण्डं स्थावरं लिङ्‌गं ‌कर्तव्यं हि विधानतः ।
अखण्डं जङ्‌गमं प्रोक्तं शैवसिद्धान्तवेदिभिः ॥ ३२ ॥
द्विखण्डं तु चरं लिङ्‌गं ‌कुर्वन्त्यज्ञानमोहिताः ।
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः ॥ ३३ ॥
अखण्डं स्थावरं लिङ्‌गं द्विखण्डं चरमेवच ।
ये कुर्वन्ति नरा मूढा न पूजाफलभागिनः ॥ ३४ ॥
तस्माच्छास्त्रोक्तविधिना अखण्डं चरसंज्ञकम् ।
द्विखण्डं स्थावरं लिङ्‌गं कर्तव्यं परया मुदा ॥ ३५ ॥
अखण्डे तु चरे पूजा सम्पूर्णफलदायिनी ।
द्विखण्डे तु चरे पूजा महाहानिप्रदा स्मृता ॥ ३६ ॥
अखण्डे स्थावरे पूजा न कामफलदायिनी ।
प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः ॥ ३७ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
साध्यसाधनखण्डे पार्थिवशिवलिङ्‌गपूजनमाहात्म्यवर्णनं
नामैकोनविंशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP