॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ अष्टादशोऽध्यायः ॥

बंधमोक्षस्वरूपं शिवलिंगमाहात्म्यं च -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
बन्धमोक्षस्वरूपं हि ब्रूहि सर्वार्थवित्तम ।
सूत उवाच -
बन्धं मोक्षं तथोपायं वक्ष्येऽहं शृणुतादरात् ॥ १ ॥
प्रकृत्याद्यष्टबन्धेन बद्धो जीवः स उच्यते ।
प्रकृत्याद्यष्टबन्धेन निर्मुक्तो मुक्त उच्यते ॥ २ ॥
प्रकृत्यादिवशीकारो मोक्ष इत्युच्यते स्वतः ।
बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स कथ्यते ॥ ३ ॥
प्रकृत्यग्रे ततो बुद्धिरहङ्‌कारो गुणात्मकः ।
पञ्चतन्मात्रमित्येतत्प्रकृत्याद्यष्टकं विदुः ॥ ४ ॥
प्रकृत्याद्यष्टजो देहो देहजं कर्म उच्यते ।
पुनश्च कर्मजो देहो जन्मकर्म पुनः पुनः ॥ ५ ॥
शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मं च कारणम् ।
स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिन्द्रियभोगदम् ॥ ६ ॥
कारणं त्वात्मभोगार्थं जीवकर्मानुरूपतः ।
सुखं दुःखं पुण्यपापैः कर्मभिः फलमश्नुते ॥ ७ ॥
तस्माद्धि कर्मरज्ज्वा हि बद्धो जीवः पुनः पुनः ।
शरीरत्रयकर्मभ्यां चक्रवद्‌भ्राम्यते सदा ॥ ८ ॥
चक्रभ्रमनिवृत्यर्थं चक्रकर्तारमीडयेत् ।
प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः ॥ ९ ॥
चक्रकर्ता महेशो हि प्रकृतेः परतो यतः ।
जीवन् पिबति वा बालो वमत्यथ जलं यथा ॥ १० ॥
शिवस्तथा प्रकृत्यादि वशीकृत्याधितिष्ठति ।
सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः ।
शिव एव हि सर्वज्ञः परिपूर्णश्च निःस्पृहः ॥ ११ ॥
सर्वज्ञता तृप्तिरनादिबोधः
     स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च महेश्वरस्य
     यन्मानसैश्वर्यमवैति वेदः ॥ १२ ॥
अतः शिवप्रसादेन प्रकृत्यादि वशं भवेत् ।
शिवप्रसादलाभार्थं शिवमेव प्रपूजयतेत् ॥ १३ ॥
निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् ।
शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् ॥ १४ ॥
लिङ्‌गे वेरे भक्तजने शिवमुद्दिश्य पूजयेत् ।
कायेन मनसा वाचा धनेनापि प्रपूजयेत् ॥ १५ ॥
पूजया तु महेशो हि प्रकृतेः परमः शिवः ।
प्रसादं कुरुते सत्यं पूजकस्य विशेषतः ॥ १६ ॥
शिवप्रसादात्कर्माद्यं क्रमेण स्ववशं भवेत् ।
कर्मारभ्य प्रकृत्यन्तं यदा सर्वं वशं भवेत् ॥ १७ ॥
तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते ।
प्रसादात्परमेशस्य कर्मदेहो यदा वशः ॥ १८ ॥
तदा वै शिवलोके तु वासः सालोक्यमुच्यते ।
सामीप्यं यान्ति साम्बस्य तन्मात्रे च वशं गते ॥ १९ ॥
तदा तु शिवसायुज्यमायुधाद्यैः क्रियादिभिः ।
महाप्रसादलाभे च बुद्धिश्चापि वशं भवेत् ॥ २० ॥
बुद्धिस्तु कार्यं प्रकृतेस्तत्सृष्टिरिति कथ्यते ।
पुनर्महाप्रसादेन प्रकृतिर्वशमेष्यति ॥ २१ ॥
शिवस्य मानसैश्वर्यं तदाऽयत्‍नं भविष्यति ।
सार्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते ॥ २२ ॥
तत्सायुज्यमिति प्राहुर्वेदागमपरायणाः ।
एवं क्रमेण मुक्तिः स्याल्लिङ्‌गादौ पूजया स्वतः ॥ २३ ॥
अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् ।
शिवक्रिया शिवतपः शिवमन्त्रजपः सदा ॥ २४ ॥
शिवज्ञानं शिवध्यानमुत्तरोत्तरमभ्यसेत् ।
आसूतेरामृतेः कालं नयेद्वै शिवचिन्तया ॥ २५ ॥
पद्यादिभिश्च कुसुमैरर्चयेच्छिवमेष्यति ॥
ऋषय ऊचुः
लिङ्‌गादौ शिवपूजाया विधानं ब्रूहि सुव्रतः ॥ २६ ॥
सूत उवाच
लिङ्‌गानां च क्रमं वक्ष्ये यथावच्छृणुत द्विजाः ।
तदेव लिङ्‌गं प्रथमं प्रणवं सार्वकामिकम् ॥ २७ ॥
सूक्ष्मप्रणवरूपं हि सूक्ष्मरूपं तु निष्कलम् ।
स्थूललिङ्‌गं हि सकलं तत्पञ्चाक्षरमुच्यते ॥ २८ ॥
तयोः पूजा तपः प्रोक्तं साक्षान्मोक्षप्रदे उभे ।
पौरुषप्रकृतिभूतानि लिङ्‌गानि सुबहूनि च ॥ २९ ॥
तानि विस्तरतो वक्तुं शिवो वेत्ति न चापरः ।
भूविकाराणि लिङ्‌गानि ज्ञातानि प्रब्रवीमि वः ॥ ३० ॥
स्वयम्भू प्रथमं लिङ्‌गं बिन्दुलिङ्‌गं द्वितीयकम् ।
प्रतिष्ठितं चरं चैव गुरुलिङ्‌गं तु पञ्चमम् ॥ ३१ ॥
देवर्षितपसा तुष्टः सान्निध्यार्थं तु तत्र वै ।
पृथिव्यन्तर्गतः शर्वो बीजं वै नादरूपतः ॥ ३२ ॥
स्थावराङ्‌कुरवद्‌भूमिमुद्‌भिद्य व्यक्त एव सः ।
स्वयम्भूतं जातमिति स्वयम्भूरिति तं विदुः ॥ ३३ ॥
तल्लिङ्‌गपूजया ज्ञानं स्वयमेव प्रवर्धते ।
सुवर्णरजतादौ वा पृथिव्यां स्थण्डिलेपि वा ॥ ३४ ॥
स्वहस्ताल्लिखितं लिङ्‌गं शुद्धप्रणवमन्त्रकम् ।
यन्त्रलिङ्‌गं समालिख्य प्रतिष्ठावाहनं चरेत् ॥ ३५ ॥
बिन्दुनादमयं लिङ्‌गं स्थावरं जङ्‌गमं च यत् ।
भावनामयमेतद्धि शिवदृष्टं न संशयः ॥ ३६ ॥
यत्र विश्वस्यते शम्भुस्तत्र तस्मै फलप्रदः ।
स्वहस्ताल्लिख्यते यन्त्रे स्थावरादावकृत्रिमे ॥ ३७ ॥
आवाह्य पूजयेच्छम्भुं षोडशैरुपचारकैः ।
स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् ॥ ३८ ॥
देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि ।
समन्त्रेणात्महस्तेन कृतं यच्छुद्धमण्डले ॥ ३९ ॥
शुद्धभावनया चैव स्थापितं लिङ्‌गमुत्तमम् ।
तल्लिङ्‌गं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते ॥ ४० ॥
तल्लिङ्‌गं पूजयानित्यं पौरुषैश्वर्यमाप्नुयात् ।
महद्‌भिर्ब्राह्मणैश्चापि राजभिश्च महाधनैः ॥ ४१ ॥
शिल्पिना कल्पितं लिङ्‌गं मन्त्रेण स्थापितं च यत् ।
प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्यभोगदम् ॥ ४२ ॥
यदूर्जितं च नित्यं च तद्धि पौरुषमुच्यते ।
यद्दुर्बलमनित्यं च तद्धि प्राकृतमुच्यते ॥ ४३ ॥
लिङ्‌गं नाभिस्तथा जिह्वा नासाग्रं च शिखा क्रमात् ।
कट्यादिषु त्रिलोकेषु लिङ्‌गमाध्यात्मिकं चरम् ॥ ४४ ॥
पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः ।
वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः ॥ ४५ ॥
षाष्टिकं प्राकृतं ज्ञेयं शालिगोधूमपौरुषम् ।
ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्टसिद्धिदम् ॥ ४६ ॥
सुस्त्रीधनादिविषयं प्राकृतं प्राहुरास्तिकाः ।
प्रथमं चरलिङ्‌गेषु रसलिङ्‌गं प्रकथ्यते ॥ ४७ ॥
रसलिङ्‌गं ब्राह्मणानां सर्वाभीष्टप्रदं भवेत् ।
बाणलिङ्‌गं क्षत्रियाणां महाराज्यप्रदं शुभम् ॥ ४८ ॥
स्वर्णलिङ्‌गं तु वैश्यानां महाधनपतित्वदम् ।
शिलालिङ्‌गं तु शूद्राणां महाशुद्धिकरं शुभम् ॥ ४९ ॥
स्फाटिकं बाणलिङ्‌गं च सर्वेषां सर्वकामदम् ।
स्वीयाभावेऽन्यदीयं तु पूजायां न निषिद्ध्यते ॥ ५० ॥
स्त्रीणां तु पार्थिवं लिङ्‌गं सभतॄणां विशेषतः ।
विधवानां प्रवृत्तानां स्फाटिकं परिकीर्तितम् ॥ ५१ ॥
विधवानां प्रवृत्तानां रसलिङ्‌गं विशिष्यते ।
बाल्ये वा यौवने वापि वार्धके वापि सुव्रताः ॥ ५२ ॥
शुद्धस्फटिकलिङ्‌गं तु स्त्रीणां तत्सर्वभोगदम् ।
प्रवृत्तानां पीठपूजा सर्वाभीष्टप्रदा भुवि ॥ ५३ ॥
पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् ।
अभिषेकान्ते च नैवेद्यं शाल्यन्नेन समाचरेत् ॥ ५४ ॥
पूजान्ते स्थापयेल्लिङ्‌गं सम्पुटेषु पृथग्गृहे ।
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् ॥ ५५ ॥
निवृत्तानां परं सूक्ष्मं लिङ्‌गमेव विशिष्यते ।
विभूत्याभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् ॥ ५६ ॥
पूजां ‌कृत्वाऽथ तल्लिङ्‌गं शिरसा धारयेत्सदा ।
विभूतिस्त्रिविधां प्रोक्ता लोकवेदशिवाग्निभिः ॥ ५७ ॥
लोकाग्निजमथो भस्म द्रव्यशुद्ध्यर्थमावहेत् ।
मृद्दारुलोहरूपाणां धान्यानां च तथैव च ॥ ५८ ॥
तिलादीनां च द्रव्याणां वस्त्रादीनां तथैव च ।
तथा पर्युषितानां च भस्मना शुद्धिरिष्यते ॥ ५९ ॥
श्वादिभिर्दूषितानां च भस्मना शुद्धिरिष्यते ।
सजलं निर्जलं भस्म यथायोग्यं तु योजयेत् ॥ ६० ॥
वेदाग्निजं तथा भस्म तत्कर्मान्तेषु धारयेत् ।
मन्त्रेण क्रियया जन्यं ‌कर्माग्नौ भस्मरूपधृक् ॥ ६१ ॥
तद्‌भस्मधारणात्कर्म स्वात्मन्यारोपितं भवेत् ।
अघोरेणात्ममन्त्रेण बिल्वकाष्ठं प्रदाहयेत् ॥ ६२ ॥
शिवाग्निरिति सम्प्रोक्तस्तेन दग्धं शिवाग्निजम् ।
कपिलागोमयं पूर्वं केवलं गव्यमेव वा ॥ ६३ ॥
शम्यश्वत्थपलाशान्वा वटारग्वधबिल्वकान् ।
शिवाग्निना दहेच्छुद्धं तद्वै भस्म शिवाग्निजम् ॥ ६४ ॥
दर्भाग्नौ वा दहेत्काष्ठं शिवमन्त्रं समुच्चरन् ।
सम्यक्संशोध्य वस्त्रेण नवकुम्भे निधापयेत् ॥ ६५ ॥
दीप्त्यर्थं तत्तु सङ्‌ग्राह्यं मन्यते पूज्यतेऽपि च ।
भस्मशब्दार्थ एवं हि शिवः पूर्वं तथाऽकरोत् ॥ ६६ ॥
यथा स्वविषये राजा सारं ‌गृह्णाति यत्करम् ।
यथा मनुष्याःसस्यादीन्दग्ध्वा सारं भजन्ति वै ॥ ६७ ॥
यथा हि जाठराग्निश्च भक्ष्यादीन्विविधान्बहून् ।
दग्ध्वा सारतरं सारात्स्वदेहं परिपुष्यति ॥ ६८ ॥
तथा प्रपञ्चकर्ताऽपि स शिवः परमेश्वरः ।
स्वाधिष्ठेयप्रपञ्चस्य दग्ध्वा सारं गृहीतवान् ॥ ६९ ॥
दग्ध्वा प्रपञ्चं तद्‌भस्म स्वात्मन्यारोपयच्छिवः ।
उद्धूलनस्य व्याजेन जगत्सारं गृहीतवान् ॥ ७० ॥
स्वरत्‍नं स्थापयामास स्वकीये हि शरीरके ।
केशमाकाशसारेण वायुसारेण वै मुखम् ॥ ७१ ॥
हृदयं चाग्निसारेण त्वपां सारेण वै कटिम् ।
जानु चावनिसारेण तद्वत्सर्वं तदङ्‌गकम् ॥ ७२ ॥
ब्रह्मविष्ण्वोश्च रुद्राणां सारं चैव त्रिपुण्ड्रकम् ।
तथा तिलकरूपेण ललाटान्ते महेश्वरः ॥ ७३ ॥
भ्रूवृद्धया सर्वमेतद्धि मन्यते स्वयमित्यसौ ।
प्रपञ्चसारसर्वस्वमनेनैव वशीकृतम् ॥ ७४ ॥
तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः ।
यथा सर्व मृगाणां च हिंसको मृगहिंसकः ॥ ७५ ॥
अस्य हिंसा मृगो नास्ति तस्मात्सिंह इतीरितः ।
शं नित्यं सुखमानन्दमिकारः पुरुषः स्मृतः ॥ ७६ ॥
वकारः शक्तिरमृतं मेलनं शिव उच्यते ।
तस्मादेवं स्वमात्मानं शिवं ‌कृत्वार्चयेच्छिवम् ॥ ७७ ॥
तस्मादुद्धूलनं पूर्वं त्रिपुण्ड्रं धारयेत्परम् ।
पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् ॥ ७८ ॥
दिवा वा यदि वा रात्रौ नारी वाथ नरोपि वा ।
पूजार्थं सजलं भस्म त्रिपुण्ड्रेणैव धारयेत् ॥ ७९ ॥
त्रिपुण्ड्रं सजलं भस्म धृत्वा पूजां ‌करोति यः ।
शिवपूजाफलं साङ्‌गं तस्यैव हि सुनिश्चितम् ॥ ८० ॥
भस्म वै शिवमन्त्रेण धृत्वा ह्यत्याश्रमी भवेत् ।
शिवाश्रमीति संम्प्रोक्तः शिवैकपरमो यतः ॥ ८१ ॥
शिवव्रतैकनिष्ठस्य नाशौचं न च सूतकम् ।
ललाटेऽग्रे सितं भस्म तिलकं धारयेन्मृदा ॥ ८२ ॥
स्वहस्ताद्‌गुरुहस्ताद्वा शिवभक्तस्य लक्षणम् ।
गुणान्‌रुन्ध इति प्रोक्तो गुरुशब्दस्य विग्रहः ॥ ८३ ॥
सविकारान्‌राजसादीन्गुणान्‌रुन्धे व्यपोहति ।
गुणातीतः परशिवो गुरुरूपं समाश्रितः ॥ ८४ ॥
गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः ।
विश्वस्तानां तु शिष्याणां ‌गुरुरित्यभिधीयते ॥ ८५ ॥
तस्माद्‌गुरुशरीरं तु गुरुलिङ्‌गं भवेद्‌बुधः ।
गुरुलिङ्‌गस्य पूजा तु गुरुशुश्रूषणं भवेत् ॥ ८६ ॥
श्रुतं ‌करोति शुश्रूषा कायेन मनसा गिरा ।
उक्तं यद्‌गुरुणा पूर्वं शक्यं वाऽशक्यमेव वा ॥ ८७ ॥
करोत्येव हि पूतात्मा प्राणैरपि धनैरपि ।
तस्माद्वै शासने योग्यः शिष्य इत्यभिधीयते ॥ ८८ ॥
शरीराद्यर्थकं सर्वं ‌गुरोर्दत्त्वा सुशिष्यकः ।
अग्रपाकं निवेद्याग्रे भुञ्जीयाद्‌गुर्वनुज्ञया ॥ ८९ ॥
शिष्यःपुत्र इति प्रोक्तः सदाशिष्यत्वयोगतः ।
जिह्वालिङ्‌गान्मन्त्रशुक्रं ‌कर्णयोनौ निषिच्य वै ॥ ९० ॥
जातः पुत्रो मन्त्रपुत्रः पितरं पूजयेद्‌गुरुम् ।
निमज्जयति पुत्रं वै संसारे जनकः पिता ॥ ९१ ॥
सन्तारयति संसाराद्‌गुरुर्वै बोधकः पिता ।
उभयोरन्तरं ज्ञात्वा पितरं ‌गुरुमर्चयेत् ॥ ९२ ॥
अङ्‌गशुश्रूषया चापि धनाद्यैः स्वार्जितैर्गुरुम् ।
पादादिकेशपर्यन्तं लिङ्‌गान्यङ्‌गानि यद्‌गुरोः ॥ ९३ ॥
धनरूपैः पादुकाद्यैः पादसङ्‌ग्रणादिभिः ।
स्नानाभिषेकनैवेद्यैर्भोजनैश्च प्रपूजयेत् ॥ ९४ ॥
गुरुपूजैव पूजा स्याच्छिवस्य परमात्मनः ।
गुरुसेवा तु यत्सर्वमात्मशुद्धिकरं भवेत् ॥ ९५ ॥
गुरोः शेषः शिवोच्छिष्टजलमन्नादि निर्मितम् ।
शिष्याणां शिवभक्तानां ‌ग्राह्यं भोज्यं भवेद्‌द्विजाः ॥ ९६ ॥
गुर्वनुज्ञाविरहितं चोरवत्सकलं भवेत् ।
गुरोरपि विशेषज्ञं यत्‍नाद्‌ गृह्णीत वै गुरुम् ॥ ९७ ॥
अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः ।
आदौ च विघ्नशमनं ‌कर्तव्यं ‌कर्मपूर्तये ॥ ९८ ॥
निर्विघ्नेन कृतं साङ्‌गं ‌कर्म वै सफलं भवेत् ।
तस्मात्सकलकर्मादौ विघ्नेशं पूजयेद्बुधः ॥ ९९ ॥
सर्वबाधानिवृत्त्यर्थं सर्वान्देवान्यजेद्‌बुधः ।
ज्वरादिग्रंथिरोगांश्च बाधा ह्याध्यात्मिकी मता ॥ १०० ॥
पिशाचजम्बुकादीनां वल्मीकाद्युद्‌भवे तथा ।
अकस्मादेव गोधादिजन्तूनां पतनेऽपि च ॥ १०१ ॥
गृहे कच्छपसर्पस्त्रीदुर्जनादर्शनेऽपि च ।
वृक्षनारीगवादीनां प्रसूतिविषयेऽपि च ॥ १०२ ॥
भावि दुःखं समायाति तस्मात्ते भौतिका मता ।
अमेध्याशनिपातश्च महामारी तथैव च ॥ १०३ ॥
ज्वरमारी विसूचिश्च गोमारी च मसूरिका ।
जन्मर्क्षग्रहसङ्‌क्रान्तिग्रहयोगाः स्वराशिके ॥ १०४ ॥
दुःस्वप्नदर्शनाद्याश्च मता वै ह्याधिदैविकाः ।
शवचाण्डालपतितस्पर्शादन्तर्गृहे गते ॥ १०५ ॥
एतादृशे समुत्पन्ने भाविदुःखस्य सूचके ।
शान्तियज्ञं तु मतिमान्कुर्यात्तद्दोषशान्तये ॥ १०६ ॥
देवालयेऽथ गोष्ठे वा चैत्ये वापि गृहाङ्‌गणे ।
प्रादेशोन्नतधिष्ण्ये वै द्विहस्ते च स्वलङ्‌कृते ॥ १०७ ॥
भारमात्रं व्रीहिधान्यं प्रस्थाप्य परिसृत्य च ।
मध्ये विलिख्य कमलं तथा दिक्षु विलिख्य वै ॥ १०८ ॥
तन्तुना वेष्टितं ‌कुम्भं नवगुग्गुलधूपितम् ।
मध्ये स्थाप्य महाकुम्भं तथा दिक्ष्वपि विन्यसेत् ॥ १०९ ॥
सनालाम्रककूर्चादीन्कलशांश्च तथाष्टसु ।
पूरयेन्मन्त्रपूतेन पञ्चद्रव्ययुतेन हि ॥ ११० ॥
प्रक्षिपेन्नव रत्‍नानि नीलादीन्क्रमशस्तथा ।
कर्मज्ञं च सपत्‍नीकमाचार्यं वरयेद्‌बुधः ॥ १११ ॥
सुवर्णप्रतिमां विष्णोरिन्द्रादीनां च निक्षिपेत् ।
सशिरस्के मध्यकुम्भे विष्णुमावाह्य पूजयेत् ॥ ११२ ॥
प्रागादिषु यथामन्त्रमिन्द्रादीन्क्रमशो यजेत् ।
तत्तन्नाम्ना चतुर्थ्यां च नमोन्तेन यथाक्रमम् ॥ ११३ ॥
आवाहनादिकं सर्वं आचार्येणैव कारयेत् ।
आचार्यं ऋत्विजा सार्धं तन्मात्रान्प्रजपेच्छतम् ॥ ११४ ॥
कुम्भस्य पश्चिमे भागे जपान्ते होममाचरेत् ।
कोटिं लक्षं सहस्रं वा शतमष्टोत्तरं बुधाः ॥ ११५ ॥
एकाहं वा नवाहं वा तथा मण्डलमेव वा ।
यथायोग्यं प्रकुर्वीत कालदेशानुसारतः ॥ ११६ ॥
शमीहोमश्च शान्त्यर्थे वृत्त्यर्थे च पलाशकम् ।
समिदन्नाज्यकैर्द्रव्यैर्नाम्ना मन्त्रेण वा हुनेत् ॥ ११७ ॥
प्रारम्भे यत्कृतं द्रव्यं तत्क्रियान्तं समाचरेत् ।
पुण्याहं वाचयित्वान्ते दिने संप्रोक्ष्ययेज्जलैः ॥ ११८ ॥
ब्राह्मणान्भोजयेत्पश्चाद्यावदाहुतिसंख्यया ।
आचार्यश्च हविष्याशी ऋत्विजश्च भवेद्‌ बुधाः ॥ ११९ ॥
आदित्यादीन्ग्रहानिष्ट्‍वा सर्वहोमान्त एव हि ।
ऋत्विभ्यो दक्षिणां दद्यान्नवरत्‍नं यथाक्रमम् ॥ १२० ॥
दश दानं ततः कुर्याद्‌भूरिदानं ततः परम् ।
बालानामुपनीतानां ‌गृहिणां वनिनां धनम् ॥ १२१ ॥
कन्यानां च सभर्तॄणां विधवानां ततः परम् ।
तन्त्रोपकरणं सर्वमाचार्याय निवेदयेत् ॥ १२२ ॥
उत्पातानां च मारीणां दुःखस्वामी यमः स्मृतः ।
तस्माद्यमस्य प्रीत्यर्थं ‌कालदानं प्रदापयेत् ॥ १२३ ॥
शतनिष्केण वा कुर्याद्दशनिष्केण वा पुनः ।
पाशाङ्‌कुशधरं कालं कुर्यात्पुरुषरूपिणम् ॥ १२४ ॥
तत्स्वर्णप्रतिमादानं ‌कुर्याद्दक्षिणया सह ।
तिलदानं ततः कुर्यात्पूर्णायुष्यप्रसिद्धये ॥ १२५ ॥
आज्यावेक्षणदानं च कुर्याद्व्याधिनिवृत्तये ।
सहस्रं भोजयेद्विप्रान्दरिद्रः शतमेव वा ॥ १२६ ॥
वित्ताभावे दरिद्रस्तु यथाशक्ति समाचरेत् ।
भैरवस्य महापूजां ‌कुर्याद्‌भूतादिशान्तये ॥ १२७ ॥
महाभिषेकं नैवेद्यं शिवस्यान्ते तु कारयेत् ।
ब्राह्मणान्भोजयेत्पश्चाद्‌भूरिभोजनरूपतः ॥ १२८ ॥
एवं ‌कृतेन यज्ञेन दोषशान्तिमवाप्नुयात् ।
शान्तियज्ञमिमं ‌कुर्याद्वर्षे वर्षे तु फाल्गुने ॥ १२९ ॥
दुर्दर्शनादौ सद्यो वै मासमात्रे समाचरेत् ।
महापापादिसम्प्राप्तौ कुर्याद्‌भैरवपूजनम् ॥ १३० ॥
महाव्याधिसमुत्पत्तौ सङ्‌कल्पं पुनराचरेत् ।
सर्वाभावे दरिद्रस्तु दीपदानमथाचरेत् ॥ १३१ ॥
तदप्यशक्तः स्नात्वा वै यत्किञ्चिद्दानमाचरेत् ।
दिवाकरं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् ॥ १३२ ॥
सहस्रमयुतं लक्षं ‌कोटिं वा कारयेद् बुधः ।
नमस्कारात्मयज्ञेन तुष्टाः स्युः सर्वदेवताः ॥ १३३ ॥
त्वत्स्वरूपेर्पिता बुद्धिर्न तेऽशून्ये च रोचते ।
या चास्त्यस्मदहन्तेति त्वयि दृष्टे विवर्जिता ॥ १३४ ॥
नम्रोऽहं हि स्वदेहेन भो महांस्त्वमसि प्रभो ।
न शून्यो मत्स्वरूपो वै तव दासोऽस्मि साम्प्रतम् ॥ १३५ ॥
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् ।
अथात्र शिवनैवेद्यं दत्त्वा ताम्बूलमाहरेत् ॥ १३६ ॥
शिवप्रदक्षिणं ‌कुर्यात्स्वयमष्टोत्तरं शतम् ।
सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् ॥ १३७ ॥
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् ।
दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् ॥ १३८ ॥
धर्मेणैव हि पापानामपनोदनमीरितम् ।
शिवोद्देशकृतो धर्मः क्षमः पापविनोदने ॥ १३९ ॥
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् ।
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् ॥ १४० ॥
जननं मरणं द्वन्द्वं मायाचक्रमितीरितम् ।
शिवस्य माया चक्रे हि बलिपीठं तदुच्यते ॥ १४१ ॥
बलिपीठं समारभ्य प्रादक्षिण्यक्रमेण वै ।
पदे पदान्तरं ‌गत्वा बलिपीठं समाविशेत् ॥ १४२ ॥
नमस्कारं ततः कुर्यात्प्रदक्षिणमितीरितम् ।
निर्गमाज्जननं प्राप्तं नमस्त्वात्मसमर्पणम् ॥ १४३ ॥
जननं मरणं द्वन्द्वं शिवमायासमर्पितम् ।
शिवमायार्पितद्वन्द्वो न पुनस्त्वात्मभाग्भवेत् ॥ १४४ ॥
यावद्देहं ‌क्रियाधीनः स जीवो बद्ध उच्यते ।
देहत्रयवशीकारे मोक्ष इत्युच्यते बुधैः ॥ १४५ ॥
मायाचक्रप्रणेता हि शिवः परमकारणम् ।
शिवमायार्पितद्वन्द्वं शिवस्तु परिमार्जति ॥ १४६ ॥
शिवेन कल्पितं द्वन्द्वं तस्मिन्नेव समर्पयेत् ।
शिवस्यातिप्रियं विद्यात्प्रदक्षिणं नमो बुधाः ॥ १४७ ॥
प्रदक्षिणनमस्काराः शिवस्यपरमात्मनः ।
षोडशैरुपचारैश्च कृता पूजाफलप्रदा ॥ १४८ ॥
प्रदक्षिणाऽविनाश्यं हि पातकं नास्ति भूतले ।
तस्मात्प्रदक्षिणेनैव सर्वपापं विनाशयेत् ॥ १४९ ॥
शिवपूजापरो मौनी सत्यादिगुणसंयुतः ।
क्रियातपोजपज्ञानध्यानेष्वेकैकमाचरेत् ॥ १५० ॥
ऐश्वर्यं दिव्यदेहश्च ज्ञानमज्ञानसंक्षयः ।
शिवसान्निध्यमित्येतत्क्रियादीनां फलं भवेत् ॥ १५१ ॥
करणेन फलं याति तमसः परिहापनात् ।
जन्मनः परिमार्जित्वाज्ज्ञबुद्ध्या जनितानिव ॥ १५२ ॥
यथादेशं यथाकालं यथादेहं यथाधनम् ।
यथायोग्यं प्रकुर्वीत क्रियादीञ्छिवभक्तिमान् ॥ १५३ ॥
न्यायार्जितसुवित्तेन वसेत्प्राज्ञः शिवस्थले ।
जीवहिंसादिरहितमतिक्लेशविवर्जितम् ॥ १५४ ॥
पञ्चाक्षरेण जप्तं च तोयमन्नं विदुः सुखम् ।
अथवाऽऽहुर्दरिद्रस्य भिक्षान्नं ज्ञानदं भवेत् ॥ १५५ ॥
शिवभक्तस्य भिक्षान्नं शिवभक्तिविवर्धनम् ।
शम्भुसत्रमिति प्राहुर्भिक्षान्नं शिवयोगिनः ॥ १५६ ॥
येन केनाप्युपायेन यत्रकुत्रापि भूतले ।
शुद्धान्नभुक्सदा मौनी रहस्यं न प्रकाशयेत् ॥ १५७ ॥
प्रकाशयेत्तु भक्तानां शिवमाहात्म्यमेव हि ।
रहस्यं शिवमन्त्रस्य शिवो जानाति नापरः ॥ १५८ ॥
शिवभक्तो वसेन्नित्यं शिवलिङ्‌गं समाश्रितः ।
स्थाणुलिङ्‌गाश्रयेणैव स्थाणुर्भवति भूसुराः ॥ १५९ ॥
पूजया चरलिङ्‌गस्य क्रमान्मुक्तो भवेद्ध्रुवम् ।
सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् ॥ १६० ॥
व्यासेन यत्पुरा प्रोक्तं यच्छ्रुतं हि मया पुरा ।
भद्रमस्तु हि वोऽस्माकं शिवभक्तिर्दृढाऽस्तु सा ॥ १६१ ॥
य इमं पठतेऽध्यायं यः शृणोति नरः सदा ।
शिवज्ञानं स लभते शिवस्य कृपया बुधाः ॥ १६२ ॥
इति श्रीशैवे महापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे
शिवलिङ्‌गमहिमावर्णनं नामाष्टादशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP