॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ सप्तदशोऽध्यायः ॥

प्रणवपंचाक्षरमंत्रमाहात्म्यम् -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
प्रणवस्य च माहात्म्यं षड्लिङ्‌गस्यमहामुने ।
शिवभक्तस्य पूजां च क्रमशो ब्रूहि नः प्रभो ॥ १ ॥
सूत उवाच -
तपोधनैर्भवद्‌भिश्च सम्यक्प्रश्नस्त्वयं कृतः ।
अस्योत्तरं महादेवो जानाति स्म न चापरः ॥ २ ॥
तथापि वक्ष्ये तमहं शिवस्य कृपयैव हि ।
शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ॥ ३ ॥
यो हि प्रकृतिजातस्य संसारस्य महोदधेः ।
नवं नौकान्तरमिति प्रणवं वै विदुर्बुधाः ॥ ४ ॥
प्रः प्रपञ्चो न नास्तीति युष्माकं प्रणवं विदुः ।
प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥ ५ ॥
स्वमंत्रजापकानां च पूजकानां च योगिनाम् ।
सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥ ६ ॥
तमेव मायारहितं नूतनं परिचक्षते ।
प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥ ७ ॥
नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ।
प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥ ८ ॥
सूक्ष्ममेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ।
सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥ ९ ॥
जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारं हि तस्य हि ।
मन्त्रेणार्थानुसन्धानं स्वदेहविलयावधि ॥ १० ॥
स्वदेहे गलिते पूर्णं शिवं प्राप्नोति निश्चयः ।
केवलं मन्त्रजापो तु योगं प्राप्नोति निश्चयः ॥ ११ ॥
षट्त्रिंशत्कोटिजापी तु निश्चयं योगमाप्नुयात् ।
सूक्ष्मं च द्विविधं ज्ञेयं ह्रस्वदीर्घविभेदतः ॥ १२ ॥
अकारश्च उकारश्च मकारश्च ततः परम् ।
बिन्दुनादयुतं तद्धि शब्दकालकलान्वितम् ॥ १३ ॥
दीर्घप्रणवमेवं हि योगिनामेव हृद्‌गतम् ।
मकारं तन्त्रितत्त्वं हि ह्रस्वप्रणव उच्यते ॥ १४ ॥
शिवः शक्तिस्तयोरैक्यं मकारं तु त्रिकात्मकम् ।
ह्रस्वमेवं हि जाप्यं स्यात्सर्वपापक्षयैषिणाम् ॥ १५ ॥
भूवायुकनकार्णोद्योः शब्दाद्याश्च तथा दश ।
आशान्वये दश पुनः प्रवृत्ता इति कथ्यते ॥ १६ ॥
ह्रस्वमेव प्रवृत्तानां निवृत्तानां तु दीर्घकम् ।
व्याहृत्यादौ च मन्त्रादौ कामं शब्दकलायुतम् ॥ १७ ॥
वेदादौ च प्रयोज्यं स्याद्वन्दने सन्ध्ययोरपि ।
नवकौटिजपाञ्जप्त्वा संशुद्धःपुरुषो भवेत् ॥ १८ ॥
पुनश्च नवकोट्या तु पृथिवीजयमाप्नुयात् ।
पुनश्च नवकोट्या तु ह्यपां जयमवाप्नुयात् ॥ १९ ॥
पुनश्च नवकोट्या तु तेजसां जयमाप्नुयात् ।
पुनश्च नवकोट्या तु वायोर्जयमवाप्नुयात् ।
आकाशजयमाप्नोति नवकोटिजपेन वै ॥ २० ॥
गन्धादीनां क्रमेणैव नवकोटिजपेन वै ।
अहङ्‌कारस्य च पुनर्नवकोटिजपेन वै ॥ २१ ॥
सहस्रमन्त्रजप्तेन नित्यशुद्धो भवेत्पुमान् ।
ततः परं स्वसिद्ध्यर्थं जपो भवति हि द्विजाः ॥ २२ ॥
एवमष्टोत्तरशतकोटिजप्तेन वै पुनः ।
प्रणवेन प्रबुद्धस्तु शुद्धयोगमवाप्नुयात् ॥ २३ ॥
शुद्धयोगेन संयुक्तो जीवन्मुक्तो न संशयः ।
सदा जपन्सदा ध्यायञ्छिवं प्रणवरूपिणम् ॥ २४ ॥
समाधिस्थो महायोगी शिव एव न संशयः ।
ऋषिच्छन्दो देवतादि न्यस्य देहे पुनर्जपेत् ॥ २५ ॥
प्रणवं मातृकायुक्तं देहे न्यस्य ऋषिर्भवेत् ।
दशमातृषडध्वादि सर्वं न्यासफलं लभेत् ॥ २६ ॥
प्रवृत्तानां च मिश्राणां स्थूलप्रणवमिष्यते ।
क्रियातपोजपैर्युक्तास्त्रिविधाः शिवयोगिनः ॥ २७ ॥
धनादिविभवैश्चैव कराद्यङ्‌गैर्नमादिभिः ।
क्रियया पूजया युक्तः क्रियायोगीति कथ्यते ॥ २८ ॥
पूजायुक्तश्च मितभुग्बाह्यन्द्रियजयान्वितः ।
परद्रोहादिरहितस्तपोयोगीति कथ्यते ॥ २९ ॥
एतैर्युक्तःसदा शुद्धः सर्वकामादिवर्जितः ।
सदा जपपरः शान्तो जपयोगीति तं विदुः ॥ ३० ॥
उपचारैः षोडशभिः पूजया शिवयोगिनाम् ।
सालोक्यादिक्रमेणैव शुद्धो मुक्तिं लभेन्नरः ॥ ३१ ॥
जपयोगमथो वक्ष्ये गदतः शृणुत द्विजाः ।
तपः कर्तुर्जपः प्रोक्तो यज्जपन्परिमार्जते ॥ ३२ ॥
शिवनामनमःपूर्वं चतुर्थ्यां पञ्चतत्त्वकम् ।
स्थूलप्रणवरूपं हि शिवपञ्चाक्षरं द्विजाः ॥ ३३ ॥
पञ्चाक्षरजपेनैव सर्वसिद्धिं लभेन्नरः ।
प्रणवेनादिसंयुक्तं सदा पञ्चाक्षरं जपेत् ॥ ३४ ॥
गुरूपदेशं सङ्‌गम्य सुखवासे सुभूतले ।
पूर्वपक्षे समारभ्य कृष्णभूतावधि द्विजाः ॥ ३५ ॥
माघं भाद्रं विशिष्टं तु सर्वकालोत्तमोत्तमम् ।
एकवारं मिताशी तु वाग्यतो नियतेन्द्रियः ॥ ३६ ॥
स्वस्य राज्ञ पितॄणां च नित्यं शुश्रूषणं चरेत् ।
सहस्रजपमात्रेण भवेच्छुद्धोऽन्यथा ऋणी ॥ ३७ ॥
पञ्चाक्षरं पञ्चलक्षं जपेच्छिवमनुस्मरन् ।
पद्मासनस्थं शिवदं गङ्‌गाचन्द्रकलान्वितम् ॥ ३८ ॥
वामोरुस्थितशक्त्या च विराजन्तं महागणैः ।
मृगटङ्‌कधरं देवं वरदाभयपाणिकम् ॥ ३९ ॥
सदानुग्रहकर्तारं सदाशिवमनुस्मरन् ।
सम्पूज्य मनसा पूर्वं हृदि वा सूर्यमण्डले ॥ ४० ॥
जपेत्पञ्चाक्षरीं विद्यां प्राङ्मुखः शुद्धकर्मकृत् ।
प्रातः कृष्णचतुर्दश्यां नित्यकर्म समाप्य च ॥ ४१ ॥
मनोरमे शुचौ देशे नियतः शुद्धमानसः ।
पञ्चाक्षरस्य मन्त्रस्य सहस्रं द्वादशं जपेत् ॥ ४२ ॥
वरयेच्च सपत्‍नीकाञ्छैवान्वै ब्राह्मणोत्तमान् ।
एकं गुरुवरं शिष्टं वरयेत्साम्बमूर्तिकम् ॥ ४३ ॥
ईशानं चाथ पुरुषमघोरं वाममेव च ।
सद्योजातं च पञ्चैव शिवभक्तान्द्विजोत्तमान् ॥ ४४ ॥
पूजाद्रव्याणि सम्पाद्य शिवपूजां समारभेत् ।
शिवपूजां च विधिवत्कृत्वा होमं समारभेत् ॥ ४५ ॥
मुखान्तं च स्वसूत्रेण कृत्वा होमं समाचरेत् ।
दशैकं वा शतैकं वा सहस्रैकमथापि वा ॥ ४६ ॥
कापिलेन घृतेनैव जुहुयात्स्वयमेव हि ।
कारयेच्छिवभक्तैर्वाप्यष्टोत्तरशतं बुधः ॥ ४७ ॥
होमान्ते दक्षिणा देया गुरोर्गोमिथुनं तथा ।
ईशानादिस्वरूपांस्तान्गुरुं साम्बं विभाव्य च ॥ ४८ ॥
तेषां पत्सिक्ततोयेन स्वशिरः स्नानमाचरेत् ।
षट्त्रिंशत्कोटितीर्थेषु सद्यः स्नानफलं लभेत् ॥ ४९ ॥
दशाङ्‌गमन्नं तेषां वै दद्याद्वै भक्तिपूर्वकम् ।
पराबुद्ध्यागुरोः पत्‍नीमीशानादिक्रमेण तु ॥ ५० ॥
परमान्नेन सम्पूज्य यथाविभवविस्तरम् ।
रुद्राक्षवस्त्रपूर्वं च वटकापूपकैर्युतम् ॥ ५१ ॥
बलिदानं ततः कृत्वा भूरि भोजनमाचरेत् ।
ततः सम्प्रार्थ्य देवेशं जपं तावत्समापयेत् ॥ ५२ ॥
पुरश्चरणमेवं तु कृत्वा मन्त्री भवेन्नरः ।
पुनश्च पञ्चलक्षेण सर्वपापक्षयो भवेत् ॥ ५३ ॥
अतलादि समारभ्य सत्यलोकावधि क्रमात् ।
पञ्चलक्षजपात्तत्तल्लोकैश्वर्यमवाप्नुयात् ॥ ५४ ॥
मध्येमृतश्चेद्‌भोगान्ते भूमौ तज्जापको भवेत् ।
पुनश्च पञ्चलक्षेण ब्रह्मसामीप्यमाप्नुयात् ॥ ५५ ॥
पुनश्च पञ्चलक्षेण सारूप्यैश्वर्यमाप्नुयात् ।
आहत्य शतलक्षेण साक्षाद्‌ब्रह्मसमो भवेत् ॥ ५६ ॥
कार्यब्रह्मण एवं हि सायुज्यं प्रतिपद्य वै ।
यथेष्टं भोगमाप्नोति तद्‌ब्रह्म प्रलयावधि ॥ ५७ ॥
पुनः कल्पान्तरे वृत्ते ब्रह्मपुत्रः स जायते ।
पुनश्च तपसी दीप्तः क्रमान्मुक्तो भविष्यति ॥ ५८ ॥
पृथ्व्यादिकार्यभूतेभ्यो लोका वै निर्मिताः क्रमात् ।
पातालादि च सत्यान्तं ब्रह्मलोकाश्चतुर्दश ॥ ५९ ॥
सत्यादूर्ध्वं ‌क्षमान्तं वै विष्णुलोकाश्चतुर्दश ।
क्षमलोके कार्यविष्णुर्वैकुण्ठे वरपत्तने ॥ ६० ॥
कार्यलक्ष्म्या महाभोगिरक्षां ‌कृत्वाऽधितिष्ठति ।
तदूर्ध्वगाश्च शुच्यन्तां लोकाष्टाविंशतिः स्थिताः ॥ ६१ ॥
शुचौ लोके तु कैलासे रुद्रो वै भूतहृत्स्थितः ।
षडुत्तराश्च पञ्चाशदहिंसान्तास्तदूर्ध्वगाः ॥ ६२ ॥
अहिंसालोकमास्थाय ज्ञानकैलासके पुरे ।
कार्येश्वरस्तिरोभावं सर्वान्कृत्वाऽधितिष्ठति ॥ ६३ ॥
तदन्ते कालचक्रं हि कालातीतस्ततः परम् ।
शिवेनाधिष्ठितिस्तत्र कालश्चक्रेश्वराह्वयः ॥ ६४ ॥
माहिषं धर्ममास्थाय सर्वान्कालेन युञ्जति ।
असत्यश्चाशुचिश्चैव हिंसाचैवाथ निर्घृणा ॥ ६५ ॥
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् ।
नास्तिक्यलक्ष्मीर्दुःसङ्‌गो वेदबाह्यध्वनिः सदा ॥ ६६ ॥
क्रोधसङ्‌गः कृष्णवर्णो महामहिषवेषवान् ।
तावन् महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ॥ ६७ ॥
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् ।
तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ॥ ६८ ॥
मालक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते ।
मालक्ष्मीर्ज्ञानभोगी वै याति मायेति कथ्यते ॥ ६९ ॥
तदूर्ध्वं नित्यभोगो हि तदर्वाङ् नश्वरं विदुः ।
तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् ॥ ७० ॥
तदर्वाक्पाशबन्धो हि तदूर्ध्वं नहि बन्धनम् ।
तदर्वाक्परिवर्तन्ते काम्यकर्मानुसारिणः ॥ ७१ ॥
निष्कामकर्मभोगस्तु तदूर्ध्वं परिकीर्तितः ।
तदर्वाक्परिवर्तन्ते बिन्दुपूजापरायणाः ॥ ७२ ॥
तदूर्ध्वं हि व्रजन्त्येव निष्कामा लिङ्‌गपूजकाः ।
तदर्वाक्परिवर्तन्ते शिवान्यसुरपूजकाः ॥ ७३ ॥
शिवैकनिरता ये च तदूर्ध्वं सम्प्रयान्ति ते ।
तदर्वाग्जीवकोटिः स्यात्तदूर्ध्वं परकोटिकाः ॥ ७४ ॥
सांसारिकास्तदर्वाक्च मुक्ताः खलु तदूर्ध्वगाः ।
तदर्वाक्परिवर्तन्ते प्राकृतद्रव्यपूजकाः ॥ ७५ ॥
तदूर्ध्वं हि व्रजन्त्येते पौरुषद्रव्यपूजकाः ।
तदर्वाक्छक्तिलिङ्‌गं तु शिवलिङ्‌गं तदूर्ध्वकम् ॥ ७६ ॥
तदर्वागावृतं लिङ्‌गं तदूर्ध्वं हि निराकृति ।
तदर्वाक्कल्पितं लिङ्‌गं तदूर्ध्वं वै न कल्पितम् ॥ ७७ ॥
तदर्वाग्बाह्यलिङ्‌गं स्यादन्तरङ्‌गं तदूर्ध्वकम् ।
तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ॥ ७८ ॥
तदर्वाग्बिन्दुरूपं हि नादरूपं तदुत्तरम् ।
तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ॥ ७९ ॥
नमस्कारस्तदूर्ध्वं हि मदाहङ्‌कारनाशनः ।
जनं तस्मात्तिरोधानं प्रत्यायाति न ना यतः ॥ ८० ॥
ज्ञानशब्दार्थ एवं हि तिरोधाननिवारणात् ।
तदर्वाक्परिवर्तन्ते ह्याधिभौतिकपूजकाः ॥ ८१ ॥
आध्यात्मिकार्चका एव तदूर्ध्वं सम्प्रयान्ति वै ।
तावद्वै वेदिभागं तन्महालोकात्मलिङ्‌गके ॥ ८२ ॥
प्रकृत्याद्यष्टबन्धोपि वेद्यन्ते सम्प्रतिष्ठतः ।
एवमेतादृशं ज्ञेयं सर्वं लौकिकवैदिकम् ॥ ८३ ॥
अधर्ममहिषारूढं कालचक्रं तरन्ति ते ।
सत्यादिधर्मयुक्ता ये शिवपूजापराश्च ये ॥ ८४ ॥
तदूर्ध्वं वृषभो धर्मो ब्रह्मचर्यस्वरूपधृक् ।
सत्यादिपादयुक्तस्तु शिवलोकाग्रतः स्थितः ॥ ८५ ॥
क्षमाशृङ्‌गः शमश्रोत्रो वेदध्वनिविभूषितः ।
आस्तिक्यचक्षुर्निश्वासगुरुबुद्धिमना वृषः ॥ ८६ ॥
क्रियादिवृषभा ज्ञेयाः कारणादिषु सर्वदा ।
तं क्रियावृषभं धर्मं कालातीतोऽधितिष्ठति ॥ ८७ ॥
ब्रह्मविष्णुमहेशानां स्वस्वायुर्दिनमुच्यते ।
तदूर्ध्वं न दिनं रात्रिर्न जन्ममरणादिकम् ॥ ८८ ॥
पुनः कारणसत्यान्ताः कारणब्रह्मणस्तथा ।
गन्धादिभ्यस्तु भूतेभ्यस्तदूर्ध्वं निर्मिताः सदा ॥ ८९ ॥
सूक्ष्मगन्धस्वरूपा हि स्थिता लोकाश्चतुर्दश ।
पुनः कारणविष्णोर्वै स्थिता लोकाश्चतुर्दश ॥ ९० ॥
पुनः कारणरुद्रस्य लोकाष्टाविंशका मताः ।
पुनश्च कारणेशस्य षट्पञ्चाशत्तदूर्ध्वगाः ॥ ९१ ॥
ततः परं ब्रह्मचर्यलोकाख्यं शिवसंमतम् ।
तत्रैव ज्ञानकैलासे पञ्चावरणसंयुते ॥ ९२ ॥
पञ्चमण्डलसंयुक्तं पञ्चब्रह्मकलान्वितम् ।
आदिशक्तिसमायुक्तमादिलिङ्‌गं तु तत्र वै ॥ ९३ ॥
शिवालयमिदं प्रोक्तं शिवस्य परमात्मनः ।
परशक्त्या समायुक्तस्तत्रैव परमेश्वरः ॥ ९४ ॥
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ।
पञ्चकृत्यप्रवीणोऽसौ सच्चिदानन्दविग्रहः ॥ ९५ ॥
ध्यानधर्मः सदा यस्य सदानुग्रहतत्परः ।
समाध्यासनमासीनः स्वात्मारामोविराजते ॥ ९६ ॥
तस्यसन्दर्शनं साध्य‌ं कर्मध्यानादिभिः क्रमात् ।
नित्यादिकर्मयजनाच्छिवकर्ममतिर्भवेत् ॥ ९७ ॥
क्रियादिशिवकर्मभ्यः शिवज्ञानं प्रसाधयेत् ।
तद्दर्शनगताः सर्वे मुक्ता एव नसंशयः ॥ ९८ ॥
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि ।
क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ॥ ९९ ॥
शिवस्य दर्शनं लब्धा स्वात्मारामत्वमेव हि ।
यथा रविः स्वकिरणादशुद्धिमपनेष्यति ॥ १०० ॥
कृपाविचक्षणः शम्भुरज्ञानमपनेष्यति ।
अज्ञानविनिवृत्तौ तु शिवज्ञानं प्रवर्तते ॥ १०१ ॥
शिवज्ञानात्स्वस्वरूपमात्मारामत्वमेष्यति ।
आत्मारामत्वसंसिद्धौ कृतकृत्यो भवेन्नरः ॥ १०२ ॥
पुनश्च शतलक्षेण ब्रह्मणः पदमाप्नुयात् ।
पुनश्च शतलक्षेण विष्णोः पदमवाप्नुयात् ॥ १०३ ॥
पुनश्च शतलक्षेण रुद्रस्य पदमाप्नुयात् ।
पुनश्च शतलक्षेण ऐश्वर्यं पदमाप्नुयात् ॥ १०४ ॥
पुनश्चैवंविधेनैव जपेन सुसमाहितः ।
शिवलोकादिभूतं हि कालचक्रमवाप्नुयात् ॥ १०५ ॥
कालचक्रं पञ्चचक्रमेकैकेन क्रमोत्तरे ।
सृष्टिमोहौ ब्रह्मचक्रं भोगमोहौ तु वैष्णवम् ॥ १०६ ॥
कोपमोहौ रौद्रचक्रं भ्रमणं चैश्वरं विदुः ।
शिवचक्रं ज्ञानमोहौ पञ्चचक्रं विदुर्बुधाः ॥ १०७ ॥
पुनश्च दशकोट्या हि कारणब्रह्मणः पदम् ।
पुनश्च दशकोट्या हि तत्पदैश्वर्यमाप्नुयात् ॥ १०८ ॥
एवं क्रमेण विष्ण्वादेः पदं लब्ध्वा महौजसः ।
क्रमेण तत्पदैश्वर्यं लब्ध्वा चैव महात्मनः ॥ १०९ ॥
शतकोटिमनुं जप्त्वा पञ्चोत्तरमतन्द्रितः ।
शिवलोकमवाप्नोति पञ्चमावरणाद्‌बहिः ॥ ११० ॥
राजसं मण्डपं तत्र नन्दीसंस्थानमुत्तमम् ।
तपोरूपश्च वृषभस्तत्रैव परिदृश्यते ॥ १११ ॥
सद्योजातस्य तत्स्थानं पञ्चमावरणं परम् ।
वामदेवस्य च स्थानं चतुर्थावरणं पुनः ॥ ११२ ॥
अघोरनिलयं पश्चात्तृतीयावरणं परम् ।
पुरुषस्यैव साम्बस्य द्वितीयावरणं शुभम् ॥ ११३ ॥
ईशानस्य परस्यैव प्रथमावरणं ततः ।
ध्यानधर्मस्य च स्थानं पञ्चमं मण्डपं ततः ॥ ११४ ॥
बलिनाथस्य संस्थानं तत्र पूर्णामृतप्रदम् ।
चतुर्थं मण्डपं पश्चाच्चन्द्रशेखरमूर्तिमत् ॥ ११५ ॥
सोमस्कन्दस्य च स्थानं तृतीयं मण्डपं परम् ।
द्वितीयं मण्डपं नृत्यमण्डपं प्राहुरास्तिकाः ॥ ११६ ॥
प्रथमं मूलमायायाः स्थानं तत्रैव शोभनम् ।
ततः परं गर्भगृहं लिङ्‌गस्थानं परं शुभम् ॥ ११७ ॥
नन्दिसंस्थानतः पश्चान्न विदुः शिववैभवम् ।
नन्दीश्वरो बहिस्तिष्ठन्पञ्चाक्षरमुपासते ॥ ११८ ॥
एवं गुरुक्रमाल्लब्धं नन्दीशाच्च मया पुनः ।
ततः परं स्वसंवेद्यं शिवेनैवानुभावितम् ॥ ११९ ॥
शिवस्य कृपया साक्षाच्छिवलोकस्य वैभवम् ।
विज्ञातुं शक्यते सर्वैर्नान्यथेत्याहुरास्तिकाः ॥ १२० ॥
एवं क्रमेण मुक्ताः स्युर्ब्राह्मणा वै जितेन्द्रियः ।
अन्येषां च क्रमं वक्ष्ये गदतः शृणुतादरात् ॥ १२१ ॥
गुरूपदेशाज्जाप्यं वै ब्राह्मणानां नमोऽन्तकम् ।
पञ्चाक्षरं पञ्चलक्षमायुष्यं प्रजपेद्विधिः ॥ १२२ ॥
स्त्रीत्वापनयनार्थं तु पञ्चलक्षं जपेत्पुनः ।
मन्त्रेण पुरुषो भूत्वा क्रमान्मुक्तो भवेद्‌बुधः ॥ १२३ ॥
क्षत्रियः पञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ।
पुनश्च पञ्चलक्षेण क्षत्त्रियो ब्राह्मणो भवेत् ॥ १२४ ॥
मन्त्रसिद्धिर्जपाच्चैव क्रमान्मुक्तो भवैन्नरः ।
वैश्यस्तु पञ्चलक्षेण वैश्यत्वमपनेष्यति ॥ १२५ ॥
पुनश्च पञ्चलक्षेण मन्त्रक्षत्त्रिय उच्यते ।
पुनश्च पञ्चलक्षेण क्षत्त्रत्वमपनेष्यति ॥ १२६ ॥
पुनश्च पञ्चलक्षेण मन्त्रब्राह्मण उच्यते ।
शूद्रश्चैव नमोऽन्तेन पञ्चविंशतिलक्षतः ॥ १२७ ॥
मन्त्रविप्रत्वमापद्य पश्चाच्छुद्धो भवेद्‍द्विजः ।
नारीवाथ नरो वाथ ब्राह्मणो वान्य एव वा ॥ १२८ ॥
नमोन्तं वा नमः पूर्वमातुरः सर्वदा जपेत् ।
ततः स्त्रीणां तथैवोह्य गुरुर्निर्दर्शयेत्क्रमात् ॥ १२९ ॥
साधकः पञ्चलक्षान्ते शिवप्रीत्यर्थमेव हि ।
महाभिषेकनैवेद्यं कृत्वा भक्तांश्च पूजयेत् ॥ १३० ॥
पूजया शिवभक्तस्य शिवः प्रीततरो भवेत् ।
शिवस्य शिवभक्तस्य भेदो नास्ति शिवो हि सः ॥ १३१ ॥
शिवस्वरूपमन्त्रस्य धारणाच्छिव एव हि ।
शिवभक्तशरीरे हि शिवे तत्परमो भवेत् ॥ १३२ ॥
शिवभक्ताः क्रियाः सर्वा वेदसर्वक्रियां विदुः ।
यावद्यावच्छिवं मन्त्रं येन जप्तं भवेत्क्रमात् ॥ १३३ ॥
तावद्वै शिवसान्निध्यं तस्मिन्देहे न संशयः ।
देवीलिङ्‌गं भवेद्‌रूपं शिवभक्तस्त्रियास्तथा ॥ १३४ ॥
यावन्मन्त्रं जपेद्देव्यास्तावत्सान्निध्यमस्ति हि ।
शिवंसम्पूजयेद्धीमान्स्वयं वै शब्दरूपभाक् ॥ १३५ ॥
स्वयं चैव शिवो भूत्वा परां शक्तिं प्रपूजयेत् ।
शक्तिं वेरं च लिङ्‌गं च ह्यालेख्य मायया यजेत् ॥ १३६ ॥
शिवलिङ्‌गं शिवं मत्वा स्वात्मानं शक्तिरूपकम् ।
शक्तिलिङ्‌गं च देवीं च मत्वा स्वं शिवरूपकम् ॥ १३७ ॥
शिवलिङ्‌गं नादरूपं बिन्दुरूपं तु शक्तिकम् ।
उपप्रधानभावेन अन्योन्यासक्तलिङ्‌गकम् ॥ १३८ ॥
पूजयेच्च शिवं शक्ति स शिवो मूलभावनात् ।
शिवभक्ताञ्छिवमंत्ररूपकाञ्छिवरूपकान् ॥ १३९ ॥
षोडशैरुपचारैश्च पूजयेदिष्टमाप्नुयात् ।
येन शुश्रूषणाद्यैश्च शिवभक्तस्य लिङ्‌गिनः ॥ १४० ॥
आनन्दं जनयेद्विद्वाञ्छिवः प्रीततरो भवेत् ।
शिवभक्तान्सपत्‍नीकान्पत्‍न्या सह सदैव तत् ॥ १४१ ॥
पूजयेद्‌भोजनाद्यैश्च पञ्च वा दश वा शतम् ।
धने देहे च मन्त्रे च भावनायामवञ्चकः ॥ १४२ ॥
शिवशक्तिस्वरूपेण न पुनर्जायते भुवि ।
नाभेरधो ब्रह्मभागमाकच्छं विष्णुभागकम् ॥ १४३ ॥
मुखं लिङ्‌गमिति प्रोक्तं शिवभक्तशरीरकम् ।
मृतान्दाहादियुक्तान्वा दाहादिरहितान्मृतान् ॥ १४४ ॥
उद्दिश्य पूजयेदादिपितरं शिवमेव हि ।
पूजां कृत्वादिमातुश्च शिवभक्तांश्च पूजयेत् ॥ १४५ ॥
पितृलोकं समासाद्य क्रमान्मुक्तो भवेन्मृतः ।
क्रियायुक्तदशभ्यश्च तपोयुक्तो विशिष्यते ॥ १४६ ॥
तपोयुक्तशतेभ्यश्च जपयुक्तो विशिष्यते ।
जपयुक्तसहस्रेभ्यः शिवज्ञानी विशिष्यते ॥ १४७ ॥
शिवज्ञानिषुलक्षेषु ध्यानयुक्तो विशिष्यते ।
ध्यानयुक्तेषु कोटिभ्यः समाधिस्थो विशिष्यते ॥ १४८ ॥
उत्तरोत्तरवैशिष्ट्यात्पूजायामुत्तरोत्तरम् ।
फलं वैशिष्ट्यरूपं च दुर्विज्ञेयं मनीषिभिः ॥ १४९ ॥
तस्माद्वै शिवभक्तस्य महिमानं वेत्ति को नरः ।
शिवशक्त्योः पूजनं च शिवभक्तस्य पूजनम् ॥ १५० ॥
कुरुते यो नरो भक्त्या स शिवः शिवमेधते ।
य इमं पठतेऽध्यायमर्थवद्वेदसंमतम् ॥ १५१ ॥
शिवज्ञानी भवेद्विप्रः शिवेन सह मोदते ।
श्रावयेच्छिवभक्तांश्च विशेषज्ञो मनीश्वराः ॥ १५२ ॥
शिवप्रसादसिद्धिः स्याच्छिवस्य कृपया बुधाः ॥ १५३ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
प्रणवपञ्चाक्षरमंत्रमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP