|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ षोडशोऽध्यायः ॥ पार्थिवपूजनप्रकारास्तत्फलानि च - [ Right click to 'save audio as' for downloading Audio ]
ऋषय ऊचुः -
पार्थिवप्रतिमापूजाविधानं ब्रूहि सत्तम । येन पूजाविधानेन सर्वाभिष्टमवाप्यते ॥ १ ॥ सूत उवाच - पृष्टं सुसाधु युष्माभिः सदा सर्वार्थदायकम् । सद्यो दुःखस्य शमनं शृणुत प्रब्रवाम वः ॥ २ ॥ अपमृत्युहरं कालमृत्योश्चापि विनाशनम् । सद्यः कलत्रपुत्रादिधनधान्यप्रदं द्विजाः ॥ ३ ॥ अन्नादिभोज्यं वस्त्रादि सर्वमुत्पद्यते यतः । ततो मृदादिप्रतिमापूजाभीष्टप्रदा भुवि ॥ ४ ॥ पुरुषाणां च नारीणामधिकारोऽत्र निश्चितम् । नद्यां तडागे कूपे वा जलान्तर्मृदमाहरेत् ॥ ५ ॥ संशोध्य गन्धचूर्णेन पेषयित्वा सुमण्डपे । हस्तेन प्रतिमां कुर्यात्क्षीरेण च सुसंस्कृताम् ॥ ६ ॥ अङ्गप्रत्यङ्गकोपेतामायुधैश्च समन्विताम् । पद्मासनस्थितां कृत्वा पूजयेदादरेण हि ॥ ७ ॥ विघ्नेशादित्यविष्णूनामम्बायाश्च शिवस्य च । शिवस्य शिवलिङ्गं च सर्वदा पूजयेद्द्विज ॥ ८ ॥ षोडशैरुपचारैश्च कुर्यात्तत्फलसिद्धये । पुष्पेण प्रोक्षणं कुर्यादभिषेकं समन्त्रकम् ॥ ९ ॥ शाल्यन्नेनैव नैवेद्यं सर्वं कुडवमानतः । गृहे तु कुडवं ज्ञेयं मानुषे प्रस्थमिष्यते ॥ १० ॥ दैवे प्रस्थत्रयं योग्यं स्वयम्भोः प्रस्थपञ्चकम् । एवं पूर्णफलं विद्यादधिकं वै द्वयं त्रयम् ॥ ११ ॥ सहस्रपूजया सत्यं सत्यलोकं लभेद्द्विजः । द्वादशाङ्गुलमायामं द्विगुणं च ततोऽधिकम् ॥ १२ ॥ प्रमाणमङ्गुलस्यैकं तदूर्ध्वं पञ्चकत्रयम् । अयोदारुकृतं पात्रं शिवमित्युच्यते बुधैः ॥ १३ ॥ तदष्टभागः प्रस्थः स्यात्तच्चतुष्कुडवं मतम् । दशप्रस्थं शतप्रस्थं सहस्रप्रस्थमेव च ॥ १४ ॥ जलतैलादिगन्धानां यथायोग्यं च मानतः । मानुषार्षस्वयम्भूनां महापूजेति कथ्यते ॥ १५ ॥ अभिषेकादात्मशुद्धिर्गन्धात्पुण्यमवाप्यते । आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते ॥ १६ ॥ दीपाज्ज्ञानमवाप्नोति ताम्बूलाद्भोगमाप्नुयात् । तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् ॥ १७ ॥ नमस्कारो जपश्चैव सर्वाभीष्टप्रदावुभौ । पूजान्ते च सदा कार्यौ भोगमोक्षार्थिभिर्नरैः ॥ १८ ॥ सम्पूज्य मनसा पूर्वं कुर्यात्तत्तत्सदा नरः । देवानां पूजया चैव तत्तल्लोकमवाप्नुयात् ॥ १९ ॥ तदवान्तरलोके च यथेष्टं भोग्यमाप्यते । तद्विशेषान्प्रवक्ष्यामि शृणुत श्रद्धया द्विजाः ॥ २० ॥ विघ्नेशपूजया सम्यग्भूर्लोकेऽभीष्टमाप्नुयात् । शुक्रवारे चतुर्थ्यां च सिते श्रावणभाद्रके ॥ २१ ॥ भिषगृक्षे धनुर्मासे विघ्नेशं विधिवद्यजेत् । शतं पूजासहस्रं वा तत्संख्याङ्कदिनैर्व्रजेत् ॥ २२ ॥ देवाग्निश्रद्धया नित्यं पुत्रदं चेष्टदं नृणाम् । सर्वपापप्रशमनं तत्तद्दुरितनाशनम् ॥ २३ ॥ वारपूजां शिवादीनामात्मशुद्धिप्रदां विदुः । तीथिनक्षत्रयोगानामाधारं सार्वकामिकम् ॥ २४ ॥ तथा वृद्धिक्षयाभावात्पूर्णब्रह्मात्मकं विदुः । उदयादुदयं वारो ब्रह्मप्रभृति कर्मणाम् ॥ २५ ॥ तिथ्यादौ देवपूजा हि पूर्णभोगप्रदा नृणाम् । पूर्वभागः पितॄणान्तु निशि युक्तः प्रशस्यते ॥ २६ ॥ परभागस्तु देवानां दिवा युक्तः प्रशास्यते । उदयव्यापिनी ग्राह्या मध्याह्ने यदि सा तिथिः ॥ २७ ॥ देवकार्ये तथा ग्राह्यास्थितिऋक्षादिकाः शुभाः । सम्यग्विचार्यवारादीन्कुर्यात्पूजाजपादिकम् ॥ २८ ॥ पूजार्यते ह्यनेनेति वेदेष्वर्थस्य योजना । पूर्भोगफलसिद्धिश्च जायते तेन कर्मणा ॥ २९ ॥ मनोभावांस्तथाज्ञानमिष्टभोगार्थयोजनात् । पूजाशब्दर्थ एवं हि विश्रुतो लोकवेदयोः ॥ ३० ॥ नित्यनैमित्तिकं कालात्सद्यः काम्ये स्वनुष्ठिते । नित्यं मासं च पक्षं च वर्षं चैव यथाक्रमम् ॥ ३१ ॥ तत्तत्कर्मफलप्राप्तिस्तादृक्पापक्षयः क्रमात् । महागणपतेः पूजा चतुर्थ्यां कृष्णपक्षके ॥ ३२ ॥ पक्षपापक्षयकरी पक्षभोगफलप्रदा । चैत्रे चतुर्थ्यां पूजा च कृता मासफलप्रदा ॥ ३३ ॥ वर्षभोगप्रदा ज्ञेया कृता वै सिंहभाद्रके । श्रवण्यादित्यवारे च सप्तम्यां हस्तभे दिने ॥ ३४ ॥ माघशुक्ले च सप्तम्यामादित्ययजनं चरेत् । ज्येष्ठभाद्रकसौम्ये च द्वादश्यां श्रवणर्क्षके ॥ ३५ ॥ कृतं विष्णुयजनमिष्टसम्पत्करं विदुः । श्रावणे विष्णुयजनमिष्टारोग्यप्रदं भवेत् ॥ ३६ ॥ गवादीन्द्वादशानर्थान्साङ्गान्दत्त्वा तु यत्फलम् । तत्फलं समवाप्नोति द्वादश्यां विष्णुतर्पणात् ॥ ३७ ॥ द्वादश्यां द्वादशान्विप्रान्विष्णोर्द्वादशनामतः । षोडशैरुपचारैश्च यजेत्तत्प्रीतिमाप्नुयात् ॥ ३८ ॥ एवं च सर्वदेवानां तत्तद् द्वादशनामकैः । द्वादशब्रह्मयजनं तत्तत्प्रीतिकरं भवेत् ॥ ३९ ॥ कर्कटे सोमवारे च नवम्यां मृगशीर्षके । अम्बां यजेद्भूतिकामः सर्वभोगफलप्रदाम् ॥ ४० ॥ आश्वयुक्छुक्लनवमी सर्वाभीष्टफलप्रदा । आदिवारे चतुर्दश्यां कृष्णपक्षे विशेषतः ॥ ४१ ॥ आर्द्रायां च महार्द्रायां शिवपूजा विशिष्यते । माघकृष्णचतुर्दश्यां सर्वाभीष्टफलप्रदा ॥ ४२ ॥ आयुष्करी मृत्युहरा सर्वसिद्धिकरी नृणाम् । ज्येष्ठमासे महार्द्रायां चतुर्दशीदिनेपि च ॥ ४३ ॥ मार्गशीर्षार्द्रकायां वा षोडशैरुपचारकैः । तत्तन्मूर्तिशिवं पूज्य तस्य वै पाददर्शनम् ॥ ४४ ॥ शिवस्य यजनं ज्ञेयं भोगमोक्षप्रदं नृणाम् । वारादिदेवयजनं कार्तिके हि विशिष्यते ॥ ४५ ॥ कार्तिके मासि सम्प्राप्ते सर्वान्देवान्यजेद्बुधः । दानेन तपसा होमैर्जपेन नियमेन च ॥ ४६ ॥ षोडशैरुपचारैश्च प्रतिमाविप्रमन्त्रकैः । ब्राह्मणानां भोजनेन निष्कामार्तिकरो भवेत् ॥ ४७ ॥ कार्तिके देवयजनं सर्वभोगप्रदं भवेत् । व्याधीनां हरणं चैव भवेद्भूतग्रहक्षयः ॥ ४८ ॥ कार्तिकादित्यवारेषु नृणामादित्यपूजनात् । तैलकार्पासदानात्तु भवेत्कुष्ठादिसङ्क्षयः ॥ ४९ ॥ हरीतकीमरीचीनां वस्त्रक्षीरादिदानतः । ब्रह्मप्रतिष्ठया चैव क्षयरोगक्षयो भवेत् ॥ ५० ॥ दीपसर्षपदानाच्च अपस्मारक्षयो भवेत् । कृत्तिकासोमवारेषु शिवस्य यजनं नृणाम् ॥ ५१ ॥ महादारिद्र्यशमनं सर्वसम्पत्करं भवेत् । गृहक्षेत्रादिदानाच्च गृहोपकरणादिना ॥ ५२ ॥ कृत्तिकाभौमवारेषु स्कन्दस्य यजनान्नृणाम् । दीपघण्टादिदानाद्वै वाक्सिद्धिरचिराद्भवेत् ॥ ५३ ॥ कृत्तिकासौम्यवारेषु विष्णोर्वै यजनं नृणाम् । दध्योदनस्य दानं च सत्सन्तानकरं भवेत् ॥ ५४ ॥ कृत्तिकागुरुवारेषु ब्रह्मणो यजनाद्धनैः । मधुस्वर्णाज्यदानेन भोगवृद्धिर्भवेन्नृणाम् ॥ ५५ ॥ कृत्तिकाशुक्रवारेषु गजतुण्डस्य याजनात् । गन्धपुष्पान्नदानेन भोग्यवृद्धिर्भवेन्नृणाम् ॥ ५६ ॥ वन्ध्या सुपुत्रं लभते स्वर्णरौप्यादिदानतः । कृत्तिकाशनिवारेषु दिक्पालानां च वन्दनम् ॥ ५७ ॥ दिग्गजानां च नागानां सेतुपानां च पूजनम् । त्र्यम्बकस्य च रुद्रस्य विष्णोः पापहरस्य च ॥ ५८ ॥
ज्ञानदं ब्रह्मणश्चैव धन्वन्तर्यश्विनोस्तथा । रोगापमृत्युहरणं तत्कालव्यात्रशान्तिदम् ॥ ५९ ॥ लवणायसतैलानां माषादीनां च दानतः । त्रिकटुफलगन्धानां जलादीनां च दानतः ॥ ६० ॥ द्रवाणां कठिनानां च प्रस्थेन पलमानतः । स्वर्गप्राप्तिर्धनुर्मासे ह्युषःकाले च पूजनम् ॥ ६१ ॥ शिवादीनां च सर्वेषां क्रमाद्वै सर्वसिद्धये । शाल्यन्नस्य हविष्यस्य नैवेद्यं शस्तमुच्यते ॥ ६२ ॥ विविधान्नस्य नैवेद्यं धनुर्मासे विशिष्यते । मार्गशीर्षेऽन्नदस्यैव सर्वमिष्टफलं भवेत् ॥ ६३ ॥ पापक्षयं चेष्टसिद्धिं चारोग्यं धर्ममेव च । सम्यग्वेदपरिज्ञानं सदनुष्ठानमेव च ॥ ६४ ॥ इहामुत्र महाभोगानन्ते योगं च शाश्वतम् । वेदान्तज्ञानसिद्धिं च मार्गशीर्षान्नदो लभेत् ॥ ६५ ॥ मार्गशीर्षे ह्युषःकाले दिनत्रयमथापि वा । यजेद्देवान्भोगकामो नाधनुर्मासिको भवेत् ॥ ६६ ॥ यावत्सङ्गवकालं तु धनुर्मासो विधीयते । धनुर्मासे निराहारो मासमात्रं जितेन्द्रियः ॥ ६७ ॥ आमध्याह्नं जपेद्विप्रो गायत्रीं वेदमातरम् । पञ्चाक्षरादिकान्मन्त्रान्पश्चादासुप्तिकं जपेत् ॥ ६८ ॥ ज्ञानं लब्ध्वा च देहान्ते विप्रो मुक्तिमवाप्नुयात् । अन्येषां नरनारीणां त्रिःस्नानेन जपेन च ॥ ६९ ॥ सदा पञ्चाक्षरस्यैव विशुद्धं ज्ञानमाप्यते । इष्टमन्त्रान्सदा जप्त्वा महापापक्षयं लभेत् ॥ ७० ॥ धनुर्मासे विशेषेण महानैवेद्यमाचरेत् । शालितण्डुलभारेण मरीचप्रस्थकेन च ॥ ७१ ॥ गणनाद्द्वादशं सर्वं मध्वाज्यकुडवेन हि । द्रोणयुक्तेन मुद्गेन द्वादशव्यञ्जनेन च ॥ ७२ ॥ घृतपक्वैरपूपैश्च मोदकैः शालिकादिभिः । द्वादशैश्च दधिक्षीरैर्द्वादशप्रस्थकेन च ॥ ७३ ॥ नारिकेलफलादीनां तथा गणनया सह । द्वादशक्रमुकैर्युक्तं षट्त्रिंशत्पत्रकैर्युतम् ॥ ७४ ॥ कर्पूरखुरचूर्णेन पञ्चसौगन्धिकैर्युतम् । ताम्बूलयुक्तं तु यदा महानैवेद्यलक्षणम् ॥ ७५ ॥ महानैवेद्यमेतद्वै देवतार्पणपूर्वकम् । वर्णानुक्रमपूर्वेण तद्भक्तेभ्यः प्रदापयेत् ॥ ७६ ॥ एवं चौदननैवेद्याद्भूमौ राष्ट्रपतिर्भवेत् । महानैवेद्यदानेन नरः स्वर्गमवाप्नुयात् ॥ ७७ ॥ महानैवेद्यदानेन सहस्रेण द्विजर्षभाः । सत्यलोके च तल्लोके पूर्णमायुरवाप्नुयात् ॥ ७८ ॥ सहस्राणां च त्रिंशत्या महानैवेद्यदानतः । तदूर्ध्वलोकमाप्यैव न पुनर्जन्मभाग्भवेत् ॥ ७९ ॥ सहस्राणां च षट्त्रिंशज्जन्मनैवेद्यमीरितम् । तावन्नैवेद्यदानं तु महापूर्णं तदुच्यते ॥ ८० ॥ महापूर्णस्य नैवेद्यं जन्मनैवेद्यमिष्यते । जन्मनैवेद्यदानेन पुनर्जन्म न विद्यते ॥ ८१ ॥ ऊर्जे मासि दिने पुण्ये जन्मनैवेद्यमाचरेत् । सङ्क्रान्तिपातजन्मर्क्षपौर्णमास्यादिसंयुते ॥ ८२ ॥ अब्दजन्मदिने कुर्याज्जन्मनैवेद्यमुत्तमम् । मासान्तरेषु जन्मर्क्षपूर्णयोगदिनेपि च ॥ ८३ ॥ मेलने च शनेर्वापि तावत्साहस्रमाचरेत् । जन्मनैवेद्यदानेन जन्मार्पणफलं लभेत् ॥ ८४ ॥ जन्मार्पणाच्छिवः प्रीतः स्वसायुज्यं ददाति हि । इदं तज्जन्मनैवेद्यं शिवस्यैव प्रदापयेत् ॥ ८५ ॥ योनिलिङ्गस्वरूपेण शिवो जन्मानिरूपकः । तस्माज्जन्मनिवृत्त्यर्थः जन्मपूजा शिवस्य हि ॥ ८६ ॥ बिन्दुनादात्मकं सर्वं जगत्स्थावरजङ्गमम् । बिन्दुः शक्तिः शिवो नादः शिवशक्त्यात्मकं जगत् ॥ ८७ ॥ नादाधारमिदं बिन्दु बिन्द्वाधारमिदं जगत् । जगदाधारभूतौ हि बिन्दुनादौ व्यवस्थितौ ॥ ८८ ॥ बिन्दुनादयुतं सर्वं सकलीकरणं भवेत् । सकलीकरणाज्जन्म जगत्प्राप्नोत्यसंशयः ॥ ८९ ॥ बिन्दुनादात्मकं लिङ्गं जगत्कारणमुच्यते । बिन्दुर्देवी शिवो नादः शिवलिङ्गं तु कथ्यते ॥ ९० ॥ तस्माज्जन्मनिवृत्त्यर्थं शिवलिङ्गं प्रपूजयेत् । माता देवी बिन्दुरूपा नादरूपः शिवः पिता ॥ ९१ ॥ पूजिताभ्यां पितृभ्यां तु परमानन्द एव हि । परमानन्दलाभार्थं शिवलिङ्गं प्रपूजयेत् ॥ ९२ ॥ सा देवी जगतां माता स शिवो जगतः पिता । पित्रोः शुश्रूषके नित्यं कृपाधिक्यं हि वर्धते ॥ ९३ ॥ कृपयान्तर्गतैश्वर्यं पूजकस्य ददाति हि । तस्मादन्तर्गतानन्दलाभार्थं मुनिपुङ्गवाः ॥ ९४ ॥ पितृमातृस्वरूपेण शिवलिङ्गं प्रपूजयेत् । भर्गः पुरुषरूपो हि भर्गा प्रकृतिरुच्यते ॥ ९५ ॥ अव्यक्तान्तरधिष्ठानं गर्भः पुरुष उच्यते । सुव्यक्तान्तरधिष्ठानं गर्भः प्रकृतिरुच्यते ॥ ९६ ॥ पुरुषत्वादिगर्भो हि गर्भवाञ्जनको यतः । पुरुषात्प्रकृतौ युक्तं प्रथमं जन्म कथ्यते ॥ ९७ ॥ प्रकृतेर्व्यक्ततां यातं द्वितीयं जन्म कथ्यते । जन्म जन्तुर्मृत्युजन्म पुरुषात्प्रतिपद्यते ॥ ९८ ॥ अन्यतो भाव्यतेऽवश्यं मायया जन्म कथ्यते । जीर्यते जन्मकालाद्यत्तस्माज्जीव इति स्मृतः ॥ ९९ ॥ जन्यते तन्यते पाशैर्जीवशब्दार्थ एव हि । जन्मपाशनिवृत्त्यर्थं जन्मलिङ्गं प्रपूजयेत् ॥ १०० ॥ भं वृद्धिं गच्छतीत्यर्थाद्भगः प्रकृतिरुच्यते । प्राकृतैः शब्दमात्राद्यैः प्राकृतेन्द्रियभोजनात् ॥ १०१ ॥ भगस्य दं भोगमिति शब्दार्थो मुख्यतः श्रुतः । मुख्यो भगस्तु प्रकृतिर्भगवाञ्छिव उच्यते ॥ १०२ ॥ भगवान्भोगदाता हि नाऽन्यो भोगप्रदायकः । भगस्वामी च भगवान्भर्ग इत्युच्यते बुधैः ॥ १०३ ॥ भगेन सहितं लिङ्गं भगं लिङ्गेन संयुतम् । इहामुत्र च भोगार्थं नित्यभोगार्थमेव च ॥ १०४ ॥ भगवन्तं महादेवं शिवलिङ्गं प्रपूजयेत् । लोकप्रसविता सूर्यस्तच्चिह्नं प्रसवाद्भवेत् ॥ १०५ ॥ लिङ्गे प्रसूतिकर्तारं लिङ्गिनं पुरुषो यजेत् । लिङ्गार्थगमकं चिह्नं लिङ्गमित्यभिधीयते ॥ १०६ ॥ लिङ्गमर्थं हि पुरुषं शिवं गमयतीत्यदः । शिवशक्त्योश्च चिह्नस्य मेलनं लिङ्गमुच्यते ॥ १०७ ॥ स्वचिह्नपूजनात्प्रीतश्चिह्नकार्यं न विद्यते । चिह्नकार्यं तु जन्मादि जन्माद्यं विनिवर्तते ॥ १०८ ॥ प्राकृतः पुरुषश्चापि बाह्याभ्यन्तरसम्भवैः । षोशशैरुपचारैश्च शिवलिङ्गं प्रपूजयेत् ॥ १०९ ॥ एवमादित्यवारे हि पूजा जन्मनिवर्तिका । आदिवारे महालिङ्गं प्रणवेनैव पूजयेत् ॥ ११० ॥ आदिवारे पञ्चगव्यैरभिषेको विशिष्यते । गोमयं गोजलं क्षीरं दध्याज्यं पञ्चगव्यकम् ॥ १११ ॥ क्षीराद्यं च पृथक्च्चैव मधुना चेक्षुसारकैः । गव्यक्षीरान्ननैवेद्यं प्रणवेनैव कारयेत् ॥ ११२ ॥ प्रणवं ध्वनिलिङ्गं तु नादलिङ्गं स्वयम्भुवः । बिन्दुलिङ्गं तु यन्त्रं स्यान्मकारं तु प्रतिष्ठितम् ॥ ११३ ॥ उकारं चरलिङ्गं स्यादकारं गुरुविग्रहम् । षड्लिङ्गपूजया नित्यं जीवन्मुक्तोनसंशयः ॥ ११४ ॥ शिवस्य भक्त्या पूजा हि जन्ममुक्तिकरी नृणाम् । रुद्राक्षधारणात्पादमर्धं वै भूतिधारणात् ॥ ११५ ॥ त्रिपादं मन्त्रजाप्याच्च पूजया पूर्णभक्तिमान् । शिवलिङ्गं च भक्तं च पूज्यं मोक्षं लभेन्नरः ॥ ११६ ॥ य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः । तस्यैव शिवभक्तिश्च वर्धते सुदृढा द्विजाः ॥ ११७ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां पार्थिवपूजाप्रकारादिवर्णनं नाम षोडशोऽध्यायः श्रीगौरीशंकरार्पणमस्तु |