॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ पञ्चदशोध्यायः ॥

देवयज्ञादिषु देशकालपात्रादिवर्णनम् -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम ।
सूत उवाच -
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु ॥ १ ॥
ततो दशगुणं गोष्ठं जलतीरं ततो दश ।
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम् ॥ २ ॥
ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश ॥ ३ ॥
सप्तगङ्‌गानदीतीर्थं तस्या दशगुणं भवेत् ।
गङ्‌गा गोदावरी चैव कावेरी ताम्रपर्णिका ॥ ४ ॥
सिन्धुश्च सरयू रेवा सप्तगङ्‌गाः प्रकीर्तिताः ।
ततोऽब्धितीरे दश च पर्वताग्रे ततो दश ॥ ५ ॥
सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ।
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा ॥ ६ ॥
त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ।
कलौ पादं तु विज्ञेयं तत्पादोनं ततोऽर्धके ॥ ७ ॥
शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।
तस्माद्दशगुणं ज्ञेयं रविसङ्‌क्रमणे बुधाः ॥ ८ ॥
विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।
तद्दश मृगसङ्‌क्रान्तौ तच्चन्द्रग्रहणे दश ॥ ९ ॥
ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ।
जगद्‌रूपस्य सूर्यस्य विषयोगाच्च रोगदम् ॥ १० ॥
अतस्तद्‌विषशान्त्यर्थं स्नानदानजपां चरेत् ।
विषशान्त्यर्थकालत्वात्स कालः पुण्यदः स्मृतः ॥ ११ ॥
जन्मर्क्षे च व्रतान्ते च सूर्यरागोपमं विदुः ।
महतां सङ्‌गकालश्च कोट्यर्कग्रहणं विदुः ॥ १२ ॥
तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।
पूजायाः पात्रमेते हि पापसङ्‌क्षयकारणम् ॥ १३ ॥
चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।
ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम् ॥ १४ ॥
पतनात्‌त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते ॥ १५ ॥
गायकं त्रायते पाताद्‌गायत्रीत्युच्यते हि सा ।
यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति ॥ १६ ॥
अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।
स्वयं शुद्धो हि पूतात्मा नरान्सन्त्रातुमर्हति ॥ १७ ॥
गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।
तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि ॥ १८ ॥
दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोऽर्हति ।
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम् ॥ १९ ॥
ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ।
तदर्थं शब्दमर्थं वा सद्‌बोधकमभीष्टदम् ॥ २० ॥
इच्छावतः प्रदानं च सम्पूर्णफलदं विदुः ।
यत्प्रश्नानन्तरं दत्तं तदर्थफलदं विदुः ॥ २१ ॥
यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ।
जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः ॥ २२ ॥
दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ।
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम् ॥ २३ ॥
गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ।
विष्णुभक्तस्य विप्रस्य दत्तं वैकुण्ठदं विदुः ॥ २४ ॥
शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ।
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते ॥ २५ ॥
दशाङ्‌गमन्नं विप्रस्य भानुवारे ददन्नरः ।
परजन्मनि चारोग्यं दशवर्षं समश्नुते ॥ २६ ॥
बहुमानमथाह्वानमभ्यङ्‌गं पादसेवनम् ।
वासो गन्धाद्यर्चनं च घृतापूपरसोत्तरम् ॥ २७ ॥
षड्रसं व्यञ्जनं चैव तांबूलं दक्षिणोत्तरम् ।
नमश्चानुगमश्चैव स्वन्नदानं दशाङ्‌गकम् ॥ २८ ॥
दशाङ्‌गमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ।
अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते ॥ २९ ॥
सोमवारादिवारेषु तत्तद्वारगुणं फलम् ।
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि ॥ ३० ॥
सप्तस्वपि च वारेषु दशभ्यश्च दशाङ्‌गकम् ।
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते ॥ ३१ ॥
एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ।
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते ॥ ३२ ॥
सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ।
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता ॥ ३३ ॥
भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ।
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते ॥ ३४ ॥
अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ।
अन्नं दत्त्वा तु लक्षाणां रुद्रलोके समश्नुते ॥ ३५ ॥
बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ।
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः ॥ ३६ ॥
वृद्धानां रुद्रबुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ।
बालस्त्री भारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः ॥ ३७ ॥
लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ।
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः ॥ ३८ ॥
शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ।
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः ॥ ३९ ॥
ब्रह्मप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ।
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते ॥ ४० ॥
क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ।
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम् ॥ ४१ ॥
स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ।
गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम् ॥ ४२ ॥
सम्भूय वा पुण्यकाले दद्यादिष्टसमृद्धये ।
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ॥ ४३ ॥
रौप्यं लवणकूष्माण्डं कन्याद्वादशकं तथा ।
गोदानाद्‌दत्तगव्येन गोमयेनोपकारिणा ॥ ४४ ॥
धनधान्याद्याश्रितानां दुरितानां निवारणम् ।
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः ॥ ४५ ॥
कायिकादित्रयाणां तु क्षीरदध्याज्यकैस्तथा ।
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता ॥ ४६ ॥
भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ।
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः ॥ ४७ ॥
हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ।
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः ॥ ४८ ॥
धान्यमन्नंसमृद्ध्यर्थं मधुराहारदं गुढम् ।
रौप्यं रेतोऽभिवृद्ध्यर्थं षड्रसार्थं तु लावणम् ॥ ४९ ॥
सर्वं सर्वसमृद्ध्यर्थं कूष्माण्डं पुष्टिदं विदुः ।
प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः ॥ ५० ॥
यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ।
पनसाम्रकपित्थानां वृक्षाणां फलमेव च ॥ ५१ ॥
कदल्याद्यौषधीनां च फलं गुल्मोद्‌भवं तथा ।
माषादीनां च मुद्‌गानां फलं शाकादिकं तथा ॥ ५२ ॥
मरीचिसर्षपाद्यानां शाकोपकरणं तथा ।
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता ॥ ५३ ॥
श्रोत्रादीन्द्रियतृप्तिश्च सदा देया विपश्चिता ।
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा ॥ ५४ ॥
वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ।
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते ॥ ५५ ॥
बन्धुराजभयाद्‌बुद्धिः श्रद्धा सा च कनीयसी ।
सर्वाभावे दरिद्रस्तु वाचा वा कर्मणा यजेत् ॥ ५६ ॥
वाचिकं यजनं विद्यान्मन्त्रस्तोत्रजपादिकम् ।
तीर्थयात्रा व्रताद्यं हि कायिकं यजनं विदुः ॥ ५७ ॥
येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ।
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते ॥ ५८ ॥
तपश्चर्या च दानं च कर्तव्यमुभयं सदा ।
प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम् ॥ ५९ ॥
देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ।
इहाऽमुत्रोत्तमं जन्म सदा भोगं लभेद्‌बुधः ।
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत् ॥ ६० ॥
य इमं पठतेऽध्यायं यः शृणोति सदा नरः ।
तस्य वै धर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते ॥ ६१ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
देशकालपात्रादिवर्णनं नाम पञ्चदशोध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP