॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ चतुर्दशोऽध्यायः ॥

अग्नियज्ञादिवर्णनम् -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
अग्नियज्ञं देवयज्ञं ब्रह्मयज्ञं तथैव च ।
गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो ॥ १ ॥
सूत उवाच -
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ।
ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि ॥ २ ॥
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् ।
प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः ॥ ३ ॥
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः ।
हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः ॥ ४ ॥
औपासनाग्निसन्धानं समारभ्य सुरक्षितम् ।
कुण्डे वाप्यथ भाण्डे वा तदजस्रं समीरितम् ॥ ५ ॥
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् ।
अग्नित्यागभयादुक्तं समारोपितमुच्यते ॥ ६ ॥
सम्पत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः ।
आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा ॥ ७ ॥
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् ।
इन्द्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोति यत् ॥ ८ ॥
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् ।
चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम् ॥ ९ ॥
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ।
ब्रह्मयज्ञ इति प्रोक्तो वेदस्याऽध्ययनं भवेत् ॥ १० ॥
नित्यानन्तरमासोऽयं ततस्तु न विधीयते ।
अनग्नौ देवयजनं शृणुत श्रद्धयाऽऽदरात् ॥ ११ ॥
आदिसृष्टौ महादेवः सर्वज्ञः करुणाकरः ।
सर्वलोकोपकारार्थं वारान्कल्पितवान्प्रभुः ॥ १२ ॥
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ।
आदावारोग्यदं वारं स्ववारं कृतवान्प्रभुः ॥ १३ ॥
सम्पत्कारं स्वमायाया वरं च कृतवांस्ततः ।
जनने दुर्गतिक्रान्ते कुमारस्य ततः परम् ॥ १४ ॥
आलस्यदुरितक्रान्त्यै वारं कल्पितवान्प्रभुः ।
रक्षकस्य तथा विष्णोर्लोकानां हितकाम्यया ॥ १५ ॥
पुष्ट्यर्थं चैव रक्षार्थं वारं कल्पितवान्प्रभुः ।
आयुष्करं ततो वारमायुषां कर्तुरेव हि ॥ १६ ॥
त्रैलोक्यसृष्टिकर्तुर्हि ब्रह्मणः परमेष्ठिनः ।
जगदायुष्यसिद्ध्यर्थं वारं कल्पितवान्प्रभुः ॥ १७ ॥
आदौ त्रैलोक्यवृद्ध्यर्थं पुण्यपापे प्रकल्पिते ।
तयोः कर्त्रोस्ततो वारमिन्द्रस्य च यमस्य च ॥ १८ ॥
भोगप्रदं मृत्युहरं लोकानां च प्रकल्पितम् ।
आदित्यादीन्स्वस्वरूपान्सुखदुःखस्य सूचकान् ॥ १९ ॥
वारेशान्कल्पयित्वादौ ज्योतिश्चक्रेप्रतिष्ठितान् ।
स्वस्ववारे तु तेषां तु पूजा स्वस्वफलप्रदा ॥ २० ॥
आरोग्यं सम्पदश्चैव व्याधीनां शान्तिरेव च ।
पुष्टिरायुस्तथा भोगो मृतेर्हानिर्यथाक्रमम् ॥ २१ ॥
वारक्रमफलं प्राहुर्देवप्रीतिपुरःसरम् ।
अन्येषामपि देवानां पूजायाः फलदः शिवः ॥ २२ ॥
देवानां प्रीतये पूजा पञ्चधैव प्रकल्पिता ।
तत्तन्मन्त्रजपो होमो दानं चैव तपस्तथा ॥ २३ ॥
स्थण्डिले प्रतिमायां च ह्यग्नौ ब्राह्मणविग्रहे ।
समाराधनमित्येवं षोडशैरुपचारकैः ॥ २४ ॥
उत्तरोत्तरवैशिष्ट्यात् पूर्वाभावे तथोत्तरम् ।
नेत्रयोः शिरसो रोगे तथा कुष्ठस्य शान्तये ॥ २५ ॥
आदित्यं पूजयित्वा तु ब्राह्मणान्भोजयेत्ततः ।
दिनं मासं तथा वर्षं वर्षत्रयमथवापि वा ॥ २६ ॥
प्रारब्धं प्रबलं चेत्स्यान्नश्येद्‌रोगजरादिकम् ।
जपाद्यमिष्टदेवस्य वारादीनां फलं विदुः ॥ २७ ॥
पापशान्तिर्विशेषेण ह्यादिवारे निवेदयेत् ।
आदित्यस्यैव देवानां ब्राह्मणानां विशिष्टदम् ॥ २८ ॥
सोमवारे च लक्ष्म्यादीन्सम्पदर्थं यजेद्‌बुधः ।
आज्यान्नेन तथा विप्रान्सपत्‍नीकांश्च भोजयेत् ॥ २९ ॥
काल्यादीन्भौमवारे तु यजेद्‌रोगप्रशान्तये ।
माषमुद्‌गाढकान्नेन ब्राह्मणांश्चैव भोजयेत् ॥ ३० ॥
सौम्यवारे तथा विष्णुं दध्यन्नेन यजेद्‌बुधः ।
पुत्रमित्रकलत्रादिपुष्टिर्भवति सर्वदा ॥ ३१ ॥
आयुष्कामो गुरोर्वारे देवानां पुष्टिसिद्धये ।
उपवीतेन वस्त्रेण क्षीराज्येन यजेद्‌बुधः ॥ ३२ ॥
भोगार्थं भृगवारे तु यजेद्देवान्समाहितः ।
षड्रसोपेतमन्नं च दद्याद्‌ब्राह्मणतृप्तये ॥ ३३ ॥
स्त्रीणां च तृप्तये तद्वद्‌देयं वस्त्रादिकं शुभम् ।
अपमृत्युहरे मन्दे रुद्राददींश्च यजेद्‌बुधः ॥ ३४ ॥
तिलहोमेन दानेन तिलान्नेन च भोजयेत् ।
इत्थं यजेच्च विबुधानारोग्यादिफलं लभेत् ॥ ३५ ॥
देवानां नित्ययजने विशेषयजनेऽपि च ।
स्नाने दाने जपे होमे ब्राह्मणानां च तर्पणे ॥ ३६ ॥
तिथिनक्षत्रयोगे च तत्तद्देवप्रपूजने ।
आदिवारादिवारेषु सर्वज्ञो जगदीश्वरः ॥ ३७ ॥
ततद्ऽरूपेण सर्वेषामारोग्यादिफलप्रदः ।
देशकालानुसारेण तथा पात्रानुसारतः ॥ ३८ ॥
द्रव्यं श्रद्धानुसारेण तथा लोकानुसारतः ।
तारतम्यक्रमाद्देवस्त्वारोग्यादीन्प्रयच्छति ॥ ३९ ॥
शुभादावशुभान्ते च जन्मर्क्षेषु गृहे गृही ।
आरोग्यादिसमृद्ध्यर्थमादित्यादीन्‌ग्रहान्यजेत् ॥ ४० ॥
तस्माद्वै देवयजनं सर्वाभीष्टफलप्रदम् ।
समन्त्रकं ब्राह्मणानामन्येषां चैव तान्त्रिकम् ॥ ४१ ॥
यथाशक्त्यनुरूपेण कर्तव्यं सर्वदा नरैः ।
सप्तस्वपि च वारेषु नरैः शुभफलेप्सुभिः ॥ ४२ ॥
दरिद्रस्तपसा देवान्यजेदाढ्यो धनेन हि ।
पुनश्चैवंविधं धर्मं कुरुते श्रद्धया सह ॥ ४३ ॥
पुनश्च भोगान्विविधान्भुक्त्वा भूमौ प्रजायते ।
छायां जलाशयं ब्रह्मप्रतिष्ठां धर्मसञ्चयम् ॥ ४४ ॥
सर्वं च वित्तवान्कुर्यात्सदा भोगप्रसिद्धये ।
कालाच्च पुण्यपाकेन ज्ञानसिद्धिः प्रजायते ॥ ४५ ॥
य इमं शृणुतेऽध्यायं पठते वा नरो द्विजाः ।
श्रवणस्योपकर्ता च देवयज्ञफलं लभेत् ॥ ४६ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
अग्नियज्ञादिवर्णनं नाम चतुर्दशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP