|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ द्वादशोऽध्यायः ॥ शिवक्षेत्रवर्णनम् - [ Right click to 'save audio as' for downloading Audio ]
सूत उवाच -
शृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् । तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १ ॥ पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना । शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ २ ॥ तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् । मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ३ ॥ परिग्रहादृषीणां च देवानां च परिग्रहात् । स्वयम्भूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ४ ॥ तीर्थे क्षेत्रे सदा कार्यं स्नानदानजपादिकम् । अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ ५ ॥ अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः । स्वयम्भूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ६ ॥ क्षेत्रे पापस्य करणं दृढं भवति भूसुराः । पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ७ ॥ येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः । सिन्धोः शतनदीतीरे सन्ति क्षेत्राण्यनेकशः ॥ ८ ॥ सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा । तत्तत्तीरे वसेत्प्राज्ञः क्रमाद्ब्रह्मपदं लभेत् ॥ ९ ॥ हिमवद् गिरिजा गङ्गा पुण्या शतमुखा नदी । तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ १० ॥ तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ । शोणभद्रो दशमुखः पुण्योभीष्टफलप्रदः ॥ ११ ॥ तत्र स्नानोपवासेन पदं वैनायकं लभेत् । चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १२ ॥ तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् । तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १३ ॥ गोदावरी महापुण्या ब्रह्मगोवधनाशिनी । एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ १४ ॥ कृष्णवेणी पुण्यनदी सर्वपापक्षयावहा । साष्टादशमुखा प्रोक्ता विष्णुलोकप्रदायिनी ॥ १५ ॥ तुङ्गभद्रा दशमुखा ब्रह्मलोकप्रदायिनी । सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६ ॥ तत्रैव सुप्रजायन्ते ब्रह्मलोकच्युतास्तथा । सरस्वती च पम्पा च कन्या श्वेतनदी शुभा ॥ १७ ॥ एतासां तीरवासेन इन्द्रलोकमवाप्नुयात् । सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ १८ ॥ सप्तविंशमुखा प्रोक्ता सर्वाभीष्टप्रदायिनी । तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १९ ॥ शिवलोकप्रदा शैवास्तथाऽभीष्टफलप्रदाः । नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ २० ॥ ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा । सिन्धुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ २१ ॥ केदारोदकपानं च स्नानं च ज्ञानदं विदुः । गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ २२ ॥
शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा । यमुनाशोणयोः स्नायाद् गुरौ कन्यागते रवौ ॥ २३ ॥ धर्मलोके दन्तिलोके महाभोगप्रदं विदुः । कावेर्यां च तथा स्नायात्तुलागे तु रवौ गुरौ ॥ २४ ॥ विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः । वृश्चिके मासि सम्प्राप्ते तथार्के गुरुवृश्चिके ॥ २५ ॥ नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् । सुवर्णमुखरीस्नानां चापगे च गुरौ रवौ ॥ २६ ॥ शिवलोकप्रदमिति ब्राह्मणो वचनं यथा । मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ २७ ॥ शिवलोकप्रदमिति ब्रह्मणो वचनं यथा । ब्रह्मविष्ण्वोः पदे भुक्त्वा तदन्ते ज्ञानमाप्नुयात् ॥ २८ ॥ गङ्गायां माघमासे तु तथाकुम्भगते रवौ । श्राद्धं वा पिंडदानं वा तिलोदकमथापि वा ॥ २९ ॥ वंशद्वयपितॄणां च कुलकोट्युद्धरं विदुः । कृष्णवेण्यां प्रशंसन्ति मीनगे च गुरौ रवौ ॥ ३० ॥ तत्तत्तीर्थे च तन्मासि स्नानमिन्द्रपदप्रदम् । गङ्गां वा सह्यजां वापि समाश्रित्य वसेद्बुधः ॥ ३१ ॥ तत्कालकृतपापस्य क्षयो भवति निश्चितम् । रुद्रलोकप्रदान्येव सन्ति क्षेत्राण्यनेकशः ॥ ३२ ॥ ताम्रपर्णी वेगवती ब्रह्मलोकफलप्रदे । तयोस्तीरे हि सन्त्येव क्षेत्राणि स्वर्गदानि च ॥ ३३ ॥ सन्ति क्षेत्राणि तन्मध्ये पुण्यदानि च भूरिशः । तत्र तत्र वसन्प्राज्ञस्तादृशं च फलं लभेत् ॥ ३४ ॥ सदाचारेण सद्वृत्त्या सदा भावनयापि च । वसेद्दयालुः प्राज्ञो वै नान्यथा तत्फलं लभेत् ॥ ३५ ॥ पुण्यक्षेत्रे कृतं पुण्यं बहुधा ऋद्धिमृच्छति । पुण्यक्षेत्रे कृतं पापं महदण्वापि जायते ॥ ३६ ॥ तत्कालं जीवनार्थश्चेत्पुण्येन क्षयमेष्यति । पुण्यमैश्वर्यदं प्राहुः कायिकं वाचिकं तथा ॥ ३७ ॥ मानसं च तथा पापं तादृशं नाशयेद्द्विजाः । मानसं वज्रलेपं तु कल्पकल्पानुगं तथा ॥ ३८ ॥ ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति । वाचिकं जपजालेन कायिकं कायशोषणात् ॥ ३९ ॥ दानाद्धनकृतं नश्येन्नाऽन्यथा कल्पकोटिभिः । क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति ॥ ४० ॥ बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः । ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः ॥ ४१ ॥ भोगांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः । बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते ॥ ४२ ॥ देवानां पूजया चैव ब्रह्मणानां च दानतः । तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् । तस्मात्पापमकृत्वैव वस्तव्यं सुखमिच्छता ॥ ४३ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं नाम द्वादशोऽध्यायः श्रीगौरीशंकरार्पणमस्तु |