॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

विद्येश्वरसंहिता

॥ एकादशोऽध्यायः ॥

शिवलिंगपूजनदानप्रकाराः -



[ Right click to 'save audio as' for downloading Audio ]


ऋषय ऊचुः -
कथं लिङ्‌गं प्रतिष्ठाप्यं कथं वा तस्य लक्षणम् ।
कथं वा तत्समभ्यर्च्यं देशे काले च केन हि ॥ १ ॥
सूत उवाच -
युष्मदर्थं प्रवक्ष्यामि बुद्ध्यतामवधानतः ।
अनुकूले शुभे काले पुण्ये तीर्थे तटे तथा ॥ २ ॥
यथेष्टं लिङ्‌गमारोप्यं यत्र स्यान्नित्यमर्चनम् ।
पार्थिवेन तथाप्येनं तैजसेन यथारुचि ॥ ३ ॥
कलालक्षणसंयुक्तं लिङ्‌गं पूजाफलं लभेत् ।
सर्वलक्षणसंयुक्तं सद्यः पूजाफलप्रदम् ॥ ४ ॥
चरे विशिष्यते सूक्ष्मं स्थावरे स्थूलमेव हि ।
सलक्षणं सपीठं च स्थापयेन्निर्मितं शिवम् ॥ ५ ॥
मंडलं चतुरस्रं वा त्रिकोणमथवा तथा ।
खट्वाङ्‌गवन्मध्यसूक्ष्मं लिङ्‌गपीठं महाफलं ॥ ६ ॥
प्रथमं मृच्छिलादिभ्यो लिङ्‌गं लोहादिभिः कृतम् ।
येन लिङ्‌गं तेन पीठं स्थावरे हि विशिष्यते ॥ ७ ॥
लिङ्‌गं पीठं चरे त्वेकं लिङ्‌गं बाणकृतं विना ।
लिङ्‌गप्रमाणं कर्तॄणां द्वादशाङ्‌गुलमुत्तमम् ॥ ८ ॥
न्यूनं चेत्फलमल्पं स्यादधिकं नैव दुष्यते ।
कर्तुरेकाङ्‌गुलन्यूनं चरेपि च तथैव हि ॥ ९ ॥
आदौ विमानं शिल्पेन कार्ये देवगणैर्युतम् ।
तत्र गर्भगृहे रम्ये दृढे दर्पणसन्निभे ॥ १० ॥
भूषिते नवरत्‍नैश्च दिग्द्वारे च प्रधानके ।
नीलं रक्तं च वैदूर्यं श्यामं मारकतं तथा ॥ ११ ॥
मुक्ताप्रवालगोमेदवज्राणि नवरत्‍नकम् ।
मध्ये लिङ्‌गं महद्द्रव्यं निक्षिपेत्सह वैदिके ॥ १२ ॥
सम्पूज्य लिङ्‌गं सद्याद्यैः पञ्चस्थाने यथाक्रमम् ।
अग्नौ च हुत्वा बहुधा हविषा सकुलं च माम् ॥ १३ ॥
अभ्यर्च्य गुरुमाचार्यमर्थैः कामैश्च बान्धवम् ।
दद्यादैश्वर्यमर्थिभ्यो जडमप्यजडं तथा ॥ १४ ॥
स्थावरं जङ्‌गमं जीवं सर्वैः सन्तोष्य यत्‍नतः ।
सुवर्णपूरिते श्वभ्रं नवरत्‍नैश्च पूरिते ॥ १५ ॥
सद्यादि ब्रह्म चोच्चार्य ध्यात्वा देवं परं शुभम् ।
उदीर्य च महामन्त्रमोङ्‌कारं नादघोषितम् ॥ १६ ॥
लिङ्‌गं तत्र प्रतिष्ठाप्य लिङ्‌गं पीठेन योजयेत् ।
लिङ्‌गं सपीठं निक्षिप्य नित्यलेपेन बन्धयेत् ॥ १७ ॥
एवं वेरं च संस्थाप्य तत्रैव परमं शुभम् ।
पञ्चाक्षरेण वेरं तु उत्सवार्थं बहिस्तथा ॥ १८ ॥
वेरं गुरुभ्यो गृह्णीयात्साधुभिः पूजितं तु वा ।
एवं लिङ्‌गे च वेरे च पूजा शिवपदप्रदा ॥ १९ ॥
पुनश्च द्विविधं प्रोक्तं स्थावरं जङ्‌गमं तथा ।
स्थावरं लिङ्‌गमित्याहुस्तरुगुल्मादिकं तथा ॥ २० ॥
जङ्‌गमं लिङ्‌गमित्याहुः कृमिकीटादिकं तथा ।
स्थावरस्य च शुश्रूषा जङ्‌गमस्य च तर्पणम् ॥ २१ ॥
तत्तत्सुखानुरागेण शिवपूजां विदुर्बुधाः ।
पीठमंबामयं सर्वं शिवलिङ्‌गं च चिन्मयम् ॥ २२ ॥
यथा देवीमुमामङ्‌के धृत्वा तिष्ठति शङ्‌करः ।
तथा लिङ्‌गमिदं पीठं धृत्वा तिष्ठति सन्ततम् ॥ २३ ॥
एवं स्थाप्य महालिङ्‌गं पूजयेदुपचारकैः ।
नित्यपूजा यथा शक्ति ध्वजादिकरणं तथा ॥ २४ ॥
इति संस्थापयेल्लिङ्‌गं साक्षाच्छिवपदप्रदम् ।
अथवा चरलिङ्‌गे तु षोडशैरुपचारकैः ॥ २५ ॥
पूजयेच्च यथान्यायं क्रमाच्छिवपदप्रदम् ।
आवाहनं चासनं च अर्घ्यं पाद्यं तथैव च ॥ २६ ॥
तदङ्‌गाचमनं चैव स्नानमभ्यङ्‌गपूर्वकम् ।
वस्त्रं गन्धं तथा पुष्पं धूपं दीपनिवेदनम् ॥ २७ ॥
नीराजनं च ताम्बूलं नमस्कारो विसर्जनम् ।
अथवाऽर्घ्यादिकं कृत्वा नैवेद्यान्तं यथाविधि ॥ २८ ॥
अथाभिषेकं नैवेद्यं नमस्कारं च तर्पणम् ।
यथाशक्ति सदा कुर्यात्क्रमाच्छिवपदप्रदम् ॥ २९ ॥
अथवा मानुषे लिङ्‌गेऽप्यार्षे दैवे स्वयम्भुवि ।
स्थापितेऽपूर्वके लिङ्‌गे सोपचारं यथा तथा ॥ ३० ॥
पूजोपकरणे दत्ते यत्किञ्चित्फलमश्नुते ।
प्रदक्षिणानमस्कारैः क्रमाच्छिवपदप्रदम् ॥ ३१ ॥
लिङ्‌गं दर्शनमात्रं वा नियमेन शिवप्रदम् ।
मृत्पिष्टगोशकृत्पुष्पैः करवीरेण वा फलैः ॥ ३२ ॥
गुडेन नवनीतेन भस्मनाऽन्नैर्यथारुचि ।
लिङ्‌गं यत्‍नेन कृत्वाऽन्ते यजेत्तदनुसारतः ॥ ३३ ॥
अङ्‌गुष्ठादावपि तथा पूजामिच्छन्ति केचन ।
लिङ्‌गकर्मणि सर्वत्र निषेधोऽस्ति न कर्हिचित् ॥ ३४ ॥
सर्वत्र फलदाता हि प्रयासानुगुणं शिवः ।
अथवा लिङ्‌गदानं वा लिङ्‌गमूल्यमथापि वा ॥ ३५ ॥
श्रद्धया शिवभक्ताय दत्तं शिवपदप्रदम् ।
अथवा प्रणवं नित्यं जपेद्दशसहस्रकम् ॥ ३६ ॥
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ।
जपकाले मकारान्तं मनःशुद्धिकरं भजेत् ॥ ३७ ॥
समाधौ मानसं प्रोक्तमुपांशुसार्वकालिकम् ।
समानप्रणवं चेमं बिन्दुनादयुतं विदुः ॥ ३८ ॥
अथ पञ्चाक्षरं नित्यं जपेदयुतमादरात् ।
सन्ध्ययोश्च सहस्रं वा ज्ञेयं शिवपदप्रदम् ॥ ३९ ॥
प्रणवेनादिसंयुक्तं ब्राह्मणानां विशिष्यते ।
दीक्षायुक्तं गुरोर्ग्राह्यं मन्त्रं ह्यथ फलाप्तये ॥ ४० ॥
कुम्भस्नानं मन्त्रदीक्षां मातृकान्यासमेव च ।
ब्राह्मणः सत्यपूतात्मा गुरुर्ज्ञानी विशिष्यते ॥ ४१ ॥
द्विजानां च नमः पूर्वमन्येषां च नमोन्तकम् ।
स्त्रीणां च केचिदिच्छन्ति नमोऽन्तं च यथाविधि ॥ ४२ ॥
विप्रस्त्रीणां नमः पूर्वमिदमिच्छन्ति केचन ।
पञ्चकोटिजपं कृत्वा सदाशिवसमो भवेत् ॥ ४३ ॥
एकद्वित्रिचतुः कोट्या ब्रह्मादीनां पदं व्रजेत् ।
जपेदक्षरलक्षं वा अक्षराणां पृथक्पृथक् ॥ ४४ ॥
अथवाऽक्षरलक्षं वा ज्ञेयं शिवपदप्रदम् ।
सहस्रं तु सहस्राणां सहस्रेण दिनेन हि ॥ ४५ ॥
जपेन्मन्त्रादिष्टसिद्धिर्नित्यं ब्राह्मणभोजनात् ।
अष्टोत्तरसहस्रं वै गायत्रीं प्रातरेव हि ॥ ४६ ॥
ब्राह्मणस्तु जपेन्नित्यं क्रमाच्छिवपदप्रदाम् ।
वेदमन्त्रांश्च सूक्तानि जपेन्नियममास्थितः ॥ ४७ ॥
एकं दशार्णमन्त्रं च शतोनं च तदूर्ध्वकम् ।
अयुतं च सहस्रं च शतमेकं विना भवेत् ॥ ४८ ॥
वेदपारायणं चैव ज्ञेयं शिवपदप्रदम् ।
अन्यान्बहुतरान्मन्त्राञ्जपेदक्षरलक्षतः ॥ ४९ ॥
एकाक्षरांस्तथा मन्त्राञ्जपेदक्षरकोटितः ।
ततः परं जपेच्चैव सहस्रं भक्तिपूर्वकम् ॥ ५० ॥
एवं कुर्याद्यथाशक्ति क्रमाच्छिवपदं लभेत् ।
नित्यं रुचिकरं त्वेकं मन्त्रमामरणान्तिकम् ॥ ५१ ॥
सहस्रमोमिति जपेत्सर्वाभीष्टं शिवाज्ञया ।
पुष्पारामादिकं वापि तथा संमार्जनादिकम् ॥ ५२ ॥
शिवाय शिवकार्यार्थे कृत्वा शिवपदं लभेत् ।
शिवक्षेत्रे तथा वासं नित्यं कुर्याच्च भक्तितः ॥ ५३ ॥
जडानामजडानां च सर्वेषां भुक्तिमुक्तिदम् ।
तस्माद्वासं शिवक्षेत्रे कुर्यादामरणं बुधः ॥ ५४ ॥
लिङ्‌गाद्धस्तशतं पुण्यं क्षेत्रे मानुषके विदुः ।
सहस्रारत्‍निमात्रं तु पुण्यक्षेत्रे तथार्षके ॥ ५५ ॥
दैवलिङ्‌गे तथा ज्ञेयं सहस्रारत्‍निमानतः ।
धनुःप्रमाणसाहस्रं पुण्यं क्षेत्रे स्वयम्भुवि ॥ ५६ ॥
पुण्यक्षेत्रे स्थिता वापी कूपाद्यं पुष्कराणि च ।
शिवगङ्‌गेति विज्ञेयं शिवस्य वचनं यथा ॥ ५७ ॥
तत्र स्नात्वा तथा दत्त्वा जपित्वा हि शिवं व्रजेत् ।
शिवक्षेत्रं समाश्रित्य वसेदामरणं तथा ॥ ५८ ॥
दाहं दशाहं मास्यं वा सपिंडीकरणं तु वा ।
आब्दिकं वा शिवक्षेत्रे क्षेत्रे पिंडमथापि वा ॥ ५९ ॥
सर्वपापविनिर्मुक्तः सद्यः शिवपदं लभेत् ।
अथवा सप्तरात्रं वा वसेद्वा पञ्चरात्रकम् ॥ ६० ॥
त्रिरात्रमेकरात्रं वा क्रमाच्छिवपदं लभेत् ।
स्ववर्णानुगुणं लोके स्वाचारात्प्राप्नुते नरः ॥ ६१ ॥
वर्णोद्धारेण भक्त्या च तत्फलातिशयं नरः ।
सर्वं कृतं कामनया सद्यः फलमवाप्नुयात् ॥ ६२ ॥
सर्वं कृतमकामेन साक्षाच्छिवपदप्रदम् ।
प्रातर्मध्याह्नसायाह्नमहस्त्रिष्वेकतः क्रमात् ॥ ६३ ॥
प्रातर्विधिकरं ज्ञेयं मध्याह्नं कामिकं तथा ।
सायाह्नं शान्तिकं ज्ञेयं रात्रावपि तथैव हि ॥ ६४ ॥
कालो निशीथो वै प्रोक्तो मध्ययामद्वयं निशि ।
शिवपूजा विशेषेण तत्कालेऽभीष्टसिद्धिदा ॥ ६५ ॥
एवं ज्ञात्वा नरः कुर्वन्यथोक्तफलभाग्भवेत् ।
कलौ युगे विशेषेणफलसिद्धिस्तु कर्मणा ॥ ६६ ॥
उक्तेन केनचिद्वापि अधिकारविभेदतः ।
सद्वृत्तिः पापभीरुश्चेत्तत्तत्फलमवाप्नुयात् ॥ ६७ ॥
ऋषय ऊचुः
अथ क्षेत्राणि पुण्यानि समासात्कथयस्व नः ।
सर्वाः स्त्रियश्च पुरुषा यान्याश्रित्य पदं लभेत् ॥ ६८ ॥
सूत योगिवरश्रेष्ठ शिवक्षेत्रागमांस्तथा ।
सूत उवाच
शृणुत श्रद्धया सर्वक्षेत्राणि च तदागमान् ॥ ६९ ॥
इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां
शिवलिङ्‍गपूजादिवर्णनं नाम एकादशोऽध्यायः



श्रीगौरीशंकरार्पणमस्तु


GO TOP