|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ दशमोऽध्यायः ॥
॥ ब्रह्मविष्णुभ्यां पंचकृत्यमोंकारमंत्रं
ब्रह्मविष्णू ऊचतुः -
सर्गादिपञ्चकृत्यस्य लक्षणं ब्रूहि नौ प्रभो । शिव उवाच - मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् ॥ १ ॥ सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः । पञ्चैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ ॥ २ ॥ सर्गः संसारसंरम्भस्तत्प्रतिष्ठा स्थितिर्मता । संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ॥ ३ ॥ तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पञ्चकम् । कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ॥ ४ ॥ सर्गादि यच्चतुःकृत्यं संसारपरिजृम्भणम् । पञ्चमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ॥ ५ ॥ तदिदं पञ्चभूतेषु दृश्यते मामकैर्जनैः । सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ॥ ६ ॥ तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे । सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्धते ॥ ७ ॥ अर्द्यते तेजसा सर्वं वायुना चापनीयते । व्योम्नाऽनुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ॥ ८ ॥ पञ्चकृत्यमिदं वोढुं ममास्ति मुखपञ्चकम् । चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पञ्चमं मुखम् ॥ ९ ॥ युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ । सृष्टिस्थित्यभीधं भाग्यं मत्तः प्रीतादतिप्रियम् ॥ १० ॥ तथा रुद्रमहेशाभ्यामन्यत्कृत्यद्वयं परम् । अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ॥ ११ ॥ तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम् । न तद्रुद्रमहेशाभ्यां विस्मृतं कर्म तादृशम् ॥ १२ ॥ रूपे वेशे च कृत्ये च वाहने चासने तथा । आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् ॥ १३ ॥ मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम् । मज्ज्ञाने सति मैवं स्यान्मानं रूपं महेशवत् ॥ १४ ॥ तस्मान्मज्ज्ञानसिद्ध्यर्थं मन्त्रमोङ्कारनामकम् । इतः परं प्रजपतं मामकं मानभञ्जनम् ॥ १५ ॥ उपादिशं निजं मन्त्रमोङ्कारमुरुमङ्गलम् । ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः ॥ १६ ॥ वाचकोऽयमहं वाच्यो मन्त्रोऽयं हि मदात्मकः । तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् ॥ १७ ॥ अकार उत्तरात्पूर्वमुकारः पश्चिमाननात् । मकारो दक्षिणमुखाद्बिन्दुः प्राङ्मुखतस्तथा ॥ १८ ॥ नादो मध्यमुखादेवं पञ्चधाऽसौ विजृम्भितः । एकीभूतः पुनस्तद्वदोमित्येकाक्षरोऽभवत् ॥ १९ ॥ नामरूपात्मकं सर्वं वेदभूतकुलद्वयम् । व्याप्तमेतेन मन्त्रेण शिवशक्त्योश्च बोधकः ॥ २० ॥ अस्मात्पञ्चाक्षरं जज्ञे बोधकं सकलस्य तत् । आकारादिक्रमेणैव नकारादि यथाक्रमम् ॥ २१ ॥
अस्मात्पञ्चाक्षराज्जाता मातृकाः पञ्चभेदतः । तस्माच्छिवश्चतुर्वक्त्रात्त्रिपाद्गायत्रिरेव हि ॥ २२ ॥ वेदः सर्वस्ततो जज्ञे ततो वै मन्त्रकोटयः । तत्तन्मन्त्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् ॥ २३ ॥ अनेन मन्त्रकन्देन भोगो मोक्षश्च सिद्ध्यति । सकला मन्त्रराजानः साक्षाद्भोगप्रदाः शुभाः ॥ २४ ॥ नन्दिकेश्वर उवाच - पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मन्त्रं च समादिशत्परम् । निधाय तच्छीर्ष्णि कराम्बुजं शनै- रुदङ्मुखं संस्थितयोः सहाम्बिकः ॥ २५ ॥ त्रिरुच्चार्याग्रहीन्मन्त्रं यन्त्रतन्त्रोक्तिपूर्वकम् । शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् ॥ २६ ॥ प्रबद्धहस्तौ किल तौ तदन्तिके तमूचतुर्देववरं जगद्गुरुम् ॥ २७ ॥ ब्रह्माच्युतावूचतुः - नमो निष्कलरूपाय नमो निष्कलतेजसे । नमः सकलनाथाय नमस्ते सकलात्मने ॥ २८ ॥ नमः प्रणववाच्याय नमः प्रणवलिङ्गिने । नमः सृष्ट्यादिकर्त्रे च नमः पञ्चमुखाय ते ॥ २९ ॥ पञ्चब्रह्मस्वरूपाय पञ्चकृत्याय ते नमः । आत्मने ब्रह्मणे तुभ्यमनन्तगुणशक्तये ॥ ३० ॥ सकलाकलरूपाय शम्भवे गुरवे नमः । इति स्तुत्वा गुरुं पद्यैर्ब्रह्माविष्णू च नेमतुः ॥ ३१ ॥ ईश्वर उवाच - वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम् । जपतं प्रणवं मन्त्रं दिव्यमिष्टं मदात्मकम् ॥ ३२ ॥ ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम् । आर्द्रायां च चतुर्दश्यां तज्जप्यं त्वक्षयं भवेत् ॥ ३३ ॥ सूर्यगत्या महार्द्रायामेकं कोटिगुणं भवेत् । मृगशीर्षान्तिमो भागः पुनर्वस्वादिमस्तथा ॥ ३४ ॥ आर्द्रासमः सदा ज्ञेयः पूजाहोमादितर्पणे । दर्शनं तु प्रभाते च प्रातः सङ्गमकालयोः ॥ ३५ ॥ चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत् । प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ॥ ३६ ॥ लिङ्गवेरं च मे तुल्यं यजतां लिङ्गमुत्तमम् । तस्माल्लिङ्गं परं पूज्यं वेरादपि मुमुक्षुभिः ॥ ३७ ॥ लिङ्गमोङ्कारमन्त्रेण वेरं पञ्चाक्षरेण तु । स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ॥ ३८ ॥ पूजयेदुपचारैश्च मत्पदं सुलभं भवेत् । इति शास्य तथा शिष्यौ तत्रैवान्तर्हितः शिवः ॥ ३९ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां ओङ्कारोपदेशवर्णनं नाम दशमोऽध्यायः श्रीगौरीशंकरार्पणमस्तु |