|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम्
॥ षष्ठोऽध्यायः ॥ ॥ शिवपुराणश्रवणविधिः ॥ [ Right click to 'save audio as' for downloading Audio ]
सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
धन्यस्त्वं शैववर्योऽसि वर्णनीयमहद्गुणः ॥ १ ॥ श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद । येन सर्वं लभेच्छ्रोता सम्पूर्णं फलमुत्तमम् ॥ २ ॥ सूत उवाच - अथ ते सम्प्रवक्ष्यामि सम्पूर्णफलहेतवे । विधिं शिवपुराणस्य शौनक श्रवणे मुने ॥ ३ ॥ दैवज्ञं च समाहूय सन्तोष्य च जनान्वितः । मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये ॥ ४ ॥ वार्ता प्रेष्या प्रयत्नेन देशे देशे च सा शुभा । भविष्यति कथा शैवी आगन्तव्यं शुभार्थिभिः ॥ ५ ॥ दूरे हरिकथाः केचिद्दूरे शङ्करकीर्तनाः । स्त्रियः शूद्रादयो ये च बोधस्तेषां भवेद्यतः ॥ ६ ॥ देशे देशे शाम्भवा ये कीर्तनश्रवणोत्सुकाः । तेषामानयनं कार्यं तत्प्रकारार्थमादरात् ॥ ७ ॥ भविष्यति समाजोऽत्र साधूनां परमोत्सवः । पारायणे पुराणस्य शैवस्य परमाद्भुतः ॥ ८ ॥ श्रीमच्छिवपुराणाह्वरसपानाय चादरात् । आयान्त्वरं भवन्तश्च कृपया प्रेमतत्पराः ॥ ९ ॥ नावकाशो यदि प्रेम्णागन्तव्यं दिनमेककम् । सर्वथाऽऽगमनं कार्यं दुर्लभा च क्षणस्थितिः ॥ १० ॥ तेषामाह्वानमेवं हि कार्यं सविनयं मुदा । आगतानां च तेषां हि सर्वथा कार्य आदरः ॥ ११ ॥ शिवालये च तीर्थे वा वने वापि गृहेऽथवा । कार्यं शिवपुराणस्य श्रवणस्थलमुत्तमम् ॥ १२ ॥ कार्यं संशोथनं भूमेर्लेपनं धातुमण्डनम् । विचित्रा रचना दिव्या महोत्सवपुरःसरम् ॥ १३ ॥ गृहोपस्करमुद्धृत्य निखिलं तदयोग्यकम् । एकान्ते गृहकोणे चादृश्ये यत्नान्निवेशयेत् ॥ १४ ॥ कर्तव्यो मण्डपोऽत्युच्चैः कदलीस्तम्भमण्डितः । फलपुष्पादिभिः सम्यग्विष्वग्वैतानराजितः ॥ १५ ॥ चतुर्द्दिक्षु ध्वजारोपः सपताकः सुशोभनः । सुभक्तिः सर्वथा कार्या सर्वानन्दविधायिनी ॥ १६ ॥ सङ्कल्प्यमासनं दिव्यं शङ्करस्य परात्मनः । वक्तुश्चापि तथा दिव्यमासनं सुखसाधनम् ॥ १७ ॥ श्रोतॄणां कल्पनीयानि सुस्थलानि यथार्हतः । अन्येषां च स्थलान्येव साधारणतया मुने ॥ १८ ॥ विवाहे यादृशं चित्ते तादृशं कार्यमेव हि । अन्या चिन्ता विनिर्वार्य्या सर्वा शौनक लौकिकी ॥ १९ ॥ उदङ्मुखो भवेद्वक्ता श्रोता प्राग्वदनस्तथा । व्युत्क्रमः पादयोर्ज्ञेयो विरोधो नास्ति कश्चन ॥ २० ॥ अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः । अथवा सम्मुखं वक्तुः श्रोतॄणामाननं स्मृतम् ॥ २ १ ॥ व्यासासनसमारूढो यदा पौराणिको द्विजः । असमाप्तौ प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ २२ ॥ बालो युवाऽथ वृद्धो वा दरिद्रो वाऽपि दुर्बलः । पुराणज्ञः सदा वन्द्यः पूज्यश्च सुकृतार्थिभिः ॥ २३ ॥ नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन । यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ २४ ॥ गुरुवत्सन्ति बहवो जन्मतो गुणतश्च वै । परो गुरुः पुराणज्ञस्तेषां मध्ये विशेषतः ॥ २५ ॥ भवकोटिसहस्रेषु भूत्वा भूत्वाऽवसीदताम् । यो ददाति परां मुक्तिं कोऽन्यस्तस्मात्परो गुरुः ॥ २६ ॥ पुराणज्ञः शुचिर्दक्षः शान्तो विजितमत्सरः । साधुः कारुण्यवान्वाग्मी वदेत्पुण्यकथामिमाम् ॥ २७ ॥ आसूर्योदयमारभ्य सार्द्धद्विप्रहरान्तकम् । कथा शिवपुराणस्य वाच्या सम्यक् सुधीमता ॥ २८ ॥ ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः । तेषां कुटिलवृत्तीनामग्रे नैव वदेत्कथाम् ॥ २९ ॥ न दुर्जनसमाकीर्णे न तु दस्युसमावृते । देशे न धूर्तसदने वदेत्पुण्यकथामिमाम् ॥ ३० ॥ कथाविरामः कर्तव्यो मध्याह्ने हि मुहूर्त्तकम् । मलमूत्रोत्सर्जनार्थं तत्कथाकीर्तनान्नरैः ॥ ३१ ॥ वक्त्रा क्षौरं हि सङ्कार्यं दिनादर्वाग्व्रताप्तये । कार्यं सङ्क्षेपतो नित्यकर्म सर्वं प्रयत्नतः ॥ ३२ ॥ वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः । पण्डितः संश्यच्छेत्ता लोकबोधनतत्परः ॥ ३३ ॥
कथाविघ्नविनाशार्थं गणनाथं प्रपूजयेत् । कथाधीशं शिवं भकथा पुस्तकं च विशेषतः ॥ ३४ ॥ कथां शिवपुराणस्य शृणुयादादरात्सुधीः । श्रोता सुविधिना शुद्धः शुद्धचित्तः प्रसन्नधीः ॥ ३५ ॥ अनेककर्मविभ्रान्तः कामादिषड्विकारवान् । स्त्रैणः पाखण्डवादी च वक्ता श्रोता न पुण्यभाक् ॥ ३६ ॥ लोकचिन्तां धनागारपुत्रचिन्तां व्युदस्य च । कथाचित्तः शुद्धमतिः स लभेत् फलमुत्तमम् ॥ ३७ ॥ श्रद्धाभक्तिसमायुक्तो नान्यकार्येषु लालसः । वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३८ अभक्ता ये कथां पुण्यां शृण्वन्तीमां नराधमाः । तेषां श्रवणजं नास्ति फलं दुःखं भवे भवे ॥ ३९ ॥ असम्पूज्य पुराणं ये यथाशक्त्या ह्युपायनैः । शृण्वन्तीमां कथां मूढाः स्युर्दरिद्रा न पावनाः ॥ ४० ॥ कथायां कथ्यमानायां गच्छन्त्यन्यत्र ये नराः । भोगान्तरे प्रणश्यन्ति तेषां दारादिसम्पदः ॥ ४१ ॥ सोष्णीषमस्तका ये च शृण्वन्तीमां कथां नराः । तत्पुत्रश्च प्रजायन्ते पापिनः कुलदूषकाः ॥ ४२ ॥ ताम्बूलं भक्षयन्तो ये शृण्वन्तीमां कथां नराः । स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ॥ ४३ ॥ ये च तुङ्गासनारूढाः शृण्वन्तीमां कथां नराः । भुक्त्वा ते नरकान्सर्वांस्ततः काका भवन्ति हि ॥ ४४ ॥ ये वीराद्यासनारूढाः शृण्वन्तीमां कथां शुभाम् । भुक्त्वा ते नरकान् सर्वान्विषवृक्षा भवन्ति वै ॥ ४५ ॥ असम्प्रणम्य वक्तारं कथां शृण्वन्ति ये नराः । भुक्त्वा ते नरकान्सर्वान्भवन्त्यर्जुन पादपाः ॥ ४६ ॥ अनातुराः शयाना ये शृण्वन्तीमां कथां नराः । भुक्त्वा ते नरकान्सर्वान्भवन्त्यजगरादयः ॥ ४७ ॥ वक्तुः समासनारूढा ये शृण्वन्ति कथामिमाम् । गुरुतल्पसमं पापं प्राप्यते नारकैः सदा ॥ ४८ ॥ ये निन्दन्ति च वक्तारं कथां चेमां सुपावनीम् । भवन्ति शुनका भुक्त्वा दुःखं जन्मशतं हि ते ॥ ४९ ॥ कथायां वर्तमानायां दुर्वादं ये वदन्ति हि । भुक्त्वा ते नरकान्घोरान्भवन्ति गर्दभास्ततः ॥ ५० ॥ कदाचिन्नापि शृण्वन्ति कथामेतां सुपावनीम् । भुक्त्वा ते नरकान् घोरान् भवन्ति वनसूकराः ॥ ५१ ॥ कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये खलाः । कोट्यब्दं नरकान् भुक्त्वा भवन्ति ग्रामसूकराः ॥ ५२ ॥ एवं विचार्य शुद्धात्मा श्रोता वक्तृसुभक्तिमान् । कथाश्रवणहेतोर्हि भवेत्प्रीत्योद्यतः सुधीः ॥ ५३ ॥ कथाविघ्नविनाशार्थं गणेशं पूजयेत्पुरा । नित्यं सम्पाद्य सङ्क्षेपात् प्रायश्चित्तं समाचरेत ॥ ५४ ॥ नवग्रहांश्च सम्पूज्य सर्वतोभद्रदैवतम् । शिवपूजोक्तविधिना पुस्तकं तत्समर्चयेत् ॥ ५५ ॥ पूजनान्ते महाभक्त्या करौ बद्ध्वा विनीतकः । साक्षाच्छिवस्वरूपस्य पुस्तकस्य स्तुतिं चरेत् ॥ ५६ ॥ श्रीमच्छिवपुराणाख्यः प्रत्यक्षस्त्वं महेश्वरः । श्रवणार्थं स्वीकृतोऽसि सन्तुष्टो भव वै मयि ॥ ५७ ॥ मनोरथो मदीयोऽयं कर्तव्यः सफलस्त्वया । निर्विघ्नेन सुसम्पूर्णं कथाश्रवणमस्तु मे ॥ ५८ ॥ भवाब्धिमग्नं दीनं मां समुद्धर भवार्णवात् । कर्मग्राहगृहीताङ्गो दासोऽहं तव शङ्कर ॥ । ५९ ॥ एवं शिवपुराणं हि साक्षाच्छिवस्वरूपकम् । स्तुत्वा दीनवचः प्रोच्य वक्तुः पूजां समारभेत् ॥ ६० ॥ शिवपूजोक्तविधिना वक्तारं च समर्चयेत् । सपुष्पवस्त्रभूषाभिर्धूपदीपादिनाऽर्चयेत् ॥ ६१ ॥ तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा । आसमाप्ति यथाशक्त्या धारणीयः सुयत्नतः ॥ ६२ ॥ व्यासरूप प्रबोधाग्र्य शिवशास्त्रविशारद । एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ६३ ॥ वरणं पञ्चविप्राणां कार्यं वैकस्य भक्तितः । शिवपञ्चार्णमन्त्रस्य जपः कार्यश्च तैः सदा ॥ ६४ ॥ इत्युक्तस्ते मुने भक्त्या कथाश्रवणसद्विधिः । श्रोतॄणां चैव भक्तानां किमन्यच्छ्रोतुमिच्छसि ॥ ६५ ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये श्रवणविधिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥ श्रीगौरीशंकरार्पणमस्तु |