॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

श्रीशिवपुराणमाहात्म्यम्

॥ सप्तमोऽध्यायः ॥

॥ शिवपुराणश्रवणव्रतिनां विधिनिषेधावक्तृपूजनवर्णनम् ॥



[ Right click to 'save audio as' for downloading Audio ]


शौनक उवाच -
सूत सूत महाप्राज्ञ धन्यस्त्वं शैवपुङ्‌गव ।
श्रावितेयं कथाऽस्माकमद्भुता च शुभावहा ॥ १ ॥
पुंसां शिवपुराणस्य श्रवणव्रतिनां मुने ।
सर्वलोकहितार्थाय दयया नियमं वद ॥ २ ॥
सूत उवाच -
नियमं शृणु सद्‌भक्त्या पुंसां तेषां च शौनक ।
नियमात्सत्कथां श्रुत्वा निर्विघ्नफलमुत्तमम् ॥ ३ ॥
पुंसां दीक्षाविहीनानां नाधिकारः कथाश्रवे ।
श्रोतुकामैरतो वक्तुर्दीक्षा ग्राह्या च तैर्मुने ॥ ४ ॥
ब्रह्मचर्यमधःसुप्तिः पत्रावल्यां च भोजनम् ।
कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ॥ ५ ॥
आसमाप्तपुराणं हि समुपोष्य सुशक्तिमान् ।
शृणुयाद्‌भक्तितः शुद्धः पुराणं शैवमुत्तमम् ॥ ६ ॥
घृतपानं पयःपानं कृत्वा वा शृणुयात्सुखम् ।
फलाहारेण वा श्राव्यमेकभुक्तं न वा हि तत् ॥ ७ ॥
एकवारं हविष्यान्नं भुञ्ज्यादेतत् कथाव्रती ।
सुखसाध्यं यथा स्यात्तच्छ्रवणं कार्यमेव च ॥ ८ ॥
भोजनं सुकरं मन्ये कथासु श्रवणप्रदम् ।
नोपवासो वरश्चेत् स्यात् कथाश्रवणविघ्नकृत् ॥ ९ ॥
गरिष्ठं द्विदलं दग्धं निष्पावांश्च मसूरिकाम् ।
भावदुष्टं पर्युषितं जग्ध्वा नित्यं कथाव्रती ॥ १० ॥
वार्ताकं च कलिन्द च पिचण्डं मूलकं तथा ।
मूष्माण्डं नालिकेरं च मूलं जग्ध्वा कथाव्रती ॥ ११ ॥
पलाण्डु लशुनं हिङ्‌गुं गृञ्जनं मादकं हि तत् ।
वस्तून्यामिषसंज्ञानि वर्जयेद्यः कथावती ॥ १२ ॥
कामादिषड्विकारं च द्विजानां च विनिन्दनम् ।
पतिव्रताऽसतां निन्दां वर्जयेद्यः कथाव्रती ॥ १३ ॥
रजस्वलां न पश्येच्च पतितान्न वदेत्कथाम् ।
द्विजद्विषो वेदवर्ज्यान्न वदेद्यः कथव्रती ॥ १४ ॥
सत्यं शौचं दयां मौनमार्जवं विनयं तथा
औदार्यं मनसश्चैव कुर्यान्नित्यं कथाव्रती ॥ १५ ॥
निष्कामश्च सकामश्च नियमाच्छ्रुणुयात्कथाम् ।
सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् ॥ १६ ॥
दरिद्रश्च क्षयी रोगी पापी निर्भाग्य एव च ।
अनपत्योऽपि पुरुषः शृणुयात् सत्कथामिमाम् ॥ १७ ॥
काकवन्ध्यादयः सप्तविधा अपि खलस्त्रियः ।
स्रवद्‌गर्भा च या नारी ताभ्यां श्राव्या कथा परा ॥ १८ ॥
सर्वैश्च श्रवणं कार्यं स्त्रीभिः पुम्भिश्च यत्नतः ।
एतच्छिवपुराणस्य विधिना च कथां मुने ॥ १९ ॥
एतच्छिवपुराणस्य पारायणदिनानि वै ।
अत्युत्तमानि बोध्यानि कोटियज्ञसमानि च ॥ २० ॥
एतेषु विधिना दत्तं यदल्पमपि वस्तु हि ।
दिवसेषु वरिष्ठेषु तदक्षय्यफलं लभेत् ॥ २१ ॥
एवं कृत्वा व्रतविधिं श्रुत्वेमां परमां कथाम् ।
परानन्तयुतः श्रीमानुद्यापनमथाचरेत् ॥ २२ ॥
एतदुद्यापनविधिश्चतुर्दश्याः समो मतः ।
कार्यस्तद्वद्धनाढ्यैश्च तदुक्तफलकाङ्‌क्षिभिः ॥ २३ ॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः ।
श्रवणेनैव पूतास्ते निष्कामाः शाम्भवा मताः ॥ २४ ॥
एवं शिवपुराणस्य पारायणमखोत्सवे ।
समाप्ते श्रोतृभिर्भक्त्या पूजा कार्या प्रयत्नतः ॥ २५ ॥
शिवपूजनवत्सम्यक्पुस्तकस्य पुरो मुने ।
पूजा कार्या सुविधिना वक्तुश्च तदनन्तरम् ॥ २६ ॥
पुस्तकाच्छादनार्थं हि नवीनं चासनं शुभम् ।
समर्चयेद् दृढं दिव्यं बन्धनार्थं च सूत्रकम् ॥ २७ ॥
पुराणार्थं प्रयच्छन्ति ये सूत्रं वसनं नवम् ।
योगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ॥ २८ ॥
वक्त्रे दद्यान्महार्हाणि वस्तूनि विविधानि च ।
वस्त्रभूषणपात्राणि द्रव्यं बहु विशेषतः ॥ २९ ॥
आसनार्थं प्रयच्छन्ति पुराणस्य च ये नराः ।
कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥ ३० ॥
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ।
स्थित्वा ब्रह्मपदे कल्पं यान्ति शैवपदं ततः ॥ ३१ ॥
एवं कृत्वा विधानेन पुस्तकस्य प्रपूजनम् ।
वक्तुश्च भुवि शार्दूल महोत्सवपुरःसरम् ॥ ३२ ॥
सहायार्थं स्थापितस्य पण्डितस्य प्रपूजनम् ।
कुर्यात्तदनुसारेण किञ्चिदूनं धनादिभिः ॥ ३३ ॥
समागतेभ्यो विप्रेभ्यो दद्यादन्नं धनादिकम् ।
महोत्सवः प्रकर्तव्यो गीतैर्वाद्यैश्च नर्तनैः ॥ ३४ ॥
विरक्तश्च भवेच्छ्रोता परेऽहनि विशेषतः ।
गीता वाच्या शिवेनोक्ता रामचन्द्राय या मुने ॥ ३५ ॥
गृहस्थश्चेद्‌भवेच्छ्रोता कर्तव्यस्तेन धीमता ।
होमः शुद्धेन हविषा कर्मणस्तस्य शान्तये ॥ ३६ ॥
रुद्रसंहितया होमः प्रतिश्लोकेन वा मुने ।
गायत्र्यास्तन्मयत्वाच्च पुराणस्यास्य तत्त्वतः ॥ ३७ ॥
अथवा मूलमन्त्रेण पञ्चवर्णेन शैवतः ।
होमाशक्तो बुधो हौम्यं हविर्दद्याद्‌द्विजाय तत् ॥ ३८ ॥
दोषयोः प्रशमार्थं च न्यूनताधिकताख्ययोः ।
पठेच्च शृणुयाद्‌भक्त्या शिवनामसहस्रकम् ॥ ३९ ॥
तेन स्यात्सफलं सर्वं सुफलं नात्र संशयः ।
यतो नास्त्यधिकं त्वस्मात्त्रैलोक्ये वस्तु किञ्जन ॥ ४० ॥
एकादशमितान्विप्रान् भोजयेन्मधुपायसैः ।
दद्यात्तेभ्यो दक्षिणां च व्रतपूर्णत्वसिद्धये ॥ ४१ ॥
शक्तौ पलत्रयमितस्वर्णेन सुन्दरं मुने ॥
सिंहं विधाय तत्रास्य पुराणस्य शुभाक्षरम् ॥ ४२ ॥
लेखितं लिखितं वापि संस्थाप्य विधिना पुमान् ।
सप्पूज्य वाहनाद्यैश्च ह्युपचारैः सदक्षिणम् ॥ ४३ ॥
वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ।
आचार्याय सुधीर्दद्याच्छिवसन्तोषहेतवे ॥ ४४ ॥
तेन दानप्रभावेण पुराणस्यास्य शौनक ।
सम्माप्यानुग्रह शैवं मुक्तः स्याद्‌भवबन्धनात् ॥ ४५ ॥
एवं कृते विधाने च श्रीमच्छिवपुराणकम् ।
सम्पूर्णफलदं स्याद्वै भुक्तिमुक्तिप्रदायकम् ॥ ४६ ॥
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
श्रीमच्छिवपुराणस्य माहात्म्यं सर्वकामदम् ॥ ४७ ॥
श्रीमच्छिवपुराणं तु पुराणतिलकं स्मृतम् ।
महच्छिवप्रियं रम्यं भवरोगनिवारणम् ॥ ४८ ॥
ये जन्मभाजः खलु जीवलोके
     ये वै सदा ध्यानरताः शिवस्य ।
वाणी गुणान्स्तौति कथां शृणोति
     श्रोत्रद्वयं ते भवमुत्तरन्ति ॥ ४९ ॥
सकलगुणविभेदैर्नित्यमस्पष्टरूपं
     जगति च बहिरन्तर्भासमानं महिम्‍ना ।
मनसि च बहिरन्तर्वाङ्‌मनोवृत्तिरूपं
     परमशिवमनन्तानन्दसान्द्रं प्रपद्ये ॥ ५० ॥
इति श्रीस्कान्दे महापुराणे सनत्कुमारसंहितायां
श्रीशिवपुराणश्रवणव्रतिनां विधिनिषेधपुस्तकवक्तृपूजनवर्णनं
नाम सप्तमोऽध्यायः ॥ ७ ॥
॥ समाप्तमिदं श्रीशिवपुराणमाहाम्यम् ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP