|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम्
॥ पञ्चमोऽध्यायः ॥ ॥ बिन्दुगसद्गतिः ॥ [ Right click to 'save audio as' for downloading Audio ]
शौनक उवाच -
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः । श्रावितेयं कथास्माकमद्भुता भक्तिवर्द्धिनी ॥ १ ॥ तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्गतिः । तत्त्वं वद विशेषेण तत्पतेश्च महामते ॥ २ ॥ सूत उवाच - सा कदाचिदुमां देवीमुपगम्य प्रणम्य च । सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३ ॥ चञ्चुलोवाच - गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः । सर्वसौख्यप्रदे शम्भुप्रिये ब्रह्यस्वरूपिणि ॥ । ४ ॥ विष्णुब्रह्मादिभिः सेव्या सगुणा निर्गुणापि च । त्वमाद्या प्रकृतिः सूक्ष्मा सच्चिदानन्दरूपिणी ॥ ५ ॥ सष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया । ब्रह्मविष्णुमहेशानां सुप्रतिष्ठाकरा परा ॥ ६ ॥ सूत उवाच इति स्तुत्वा महेशीं तां चञ्चुला प्राप्तसद्गतिः । विरराम नतस्कन्धा प्रेमपूर्णाश्रुलोचना ॥ ७ ॥ ततः सा करुणाविष्टा पार्वती शङ्करप्रिया । तामुवाच महाप्रीत्या चञ्चुलां भक्तवत्सला ॥ ८ ॥ पार्वत्युवाच - चञ्चुले सखि सुप्रीतानया स्तुतास्मि सुन्दरि । किं याचसे वरं ब्रूहि नादेयं विद्यते तव ॥ ९ ॥ सूत उवाच - इत्युक्ता सा गिरिजया चञ्चुला सुप्रणम्य ताम् । पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका ॥ १० ॥ चञ्चुलोवाच - मम भर्ताऽधुना क्वाऽऽस्ते नैव जानामि तद्गतिम् । तेन युक्ता यथाऽहं वै भवामि गिरिजेऽनघे ॥ ११ ॥ तथैव कुरु कल्याणि कृपया दीनवत्सले । महादेवि महेशानि भर्ता मे वृषलीपतिः । मत्तः पूर्वं मृतः पापी न जाने कां गतिं गतः ॥ १२ ॥ सूत उवाच - इत्याकर्ण्य वचस्तस्याश्चञ्चुलाया हि पार्वती । प्रत्युवाच सुसम्प्रीत्या गिरिजा नयवत्सला ॥ १३ ॥ गिरिजोवाच - सुते भर्ता बिन्दुगाह्वो महापापी दुराशयः । वेश्याभोगी महामूढो मृत्वा स नरकं गतः ॥ १४ ॥ भुक्त्वा नरकदुःखानि विविधान्यमिताः समाः । पापशेषेण पापात्मा विन्ध्ये जातः पिशाचकः ॥ १५ ॥ इदानीं स पिशाचोऽस्ति नानाक्लेशसमन्वितः । तत्रैव वातभुग्दुष्टः सर्वकष्टवहः सदा ॥ १६ ॥ सूत उवाच - इति गौर्या वचः श्रुत्वा चञ्चुला सा शुभव्रता । पतिदुःखेन महता दुःखिताऽऽसीत्तदा किल ॥ १७ ॥ समाधाय ततश्चित्तं सुप्रणम्य महेश्वरीम् । पुनः पप्रच्छ सा नारी हृदयेन विदूयता ॥ १८ ॥ चञ्चुलोवाच - महेश्वरि महादेवि कृपां कुरु ममोपरि । समुद्धर पतिं मेऽद्य दुष्टकर्मकरं खलम् ॥ १९ ॥ केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् । सद्गतिं प्राप्नुयाद्देवि तद्वदाशु नमोऽस्तु ते ॥ २० ॥ सूत उवाच - इत्याकर्ण्य वचस्तस्याः पार्वती भक्तवत्सला । प्रत्युवाच प्रसन्नात्मा चञ्चुलां स्वसखीं च ताम् ॥ २१ ॥ पार्वत्युवाच - शृणुयाद्यदि ते भर्ता पुण्यां शिवकथां पराम् । निस्तीर्य दुर्गतिं सर्वां सद्गतिं प्राप्नुयादिति ॥ २२ ॥ इति गौर्य्या वचः श्रुत्वाऽमृताक्षरमथादरात् । कृताञ्जलिर्नतस्कन्धा प्रणनाम पुनः पुनः ॥ २३ ॥ तत्कथाश्रवणं भर्तुः सर्वपापविशुद्धये । सद्गतिप्राप्तये चैव प्रार्थयामास तां तदा ॥ २४ ॥ सूत उवाच - तया मुहुर्मुहुर्नार्या प्रार्थ्यमाना शिवप्रिया । गौरी कृपान्वितासीत्सा महेशी भक्तवत्सला ॥ २५ ॥ अथ तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् । प्रीत्या गन्धर्वराजं हि गिरिकन्येदमब्रवीत् ॥ २६ ॥ गिरिजोवाच - हे तुम्बुरोः शिवप्रीत मम मानसकारक । सहानया विन्ध्यशैलं भद्रं ते गच्छ सत्वरम् ॥ २७ ॥
आस्ते तत्र महाघोरः पिशाचोऽतिभयङ्करः । तद्वृत्तं शृणु सुप्रीत्याऽऽदितः सर्वं ब्रवीमि ते ॥ २८ ॥ पुराभवे पिशाचः स बिन्दुगाह्वोऽभवद्द्विजः । अस्या नार्याः पतिर्दुष्टो मत्सख्या वृषलीपतिः ॥ २९ ॥ स्नानसन्ध्याक्रियाहीनोऽशौचः क्रोधविमूढधीः । दुर्भक्षो सज्जनद्वेषी दुष्परिग्रहकारकः ॥ ३० ॥ हिंसकः शस्त्रधारी च सव्यहस्तेन भोजनी । दीनानां पीडकः क्रूरः परवेश्मप्रदीपकः ॥ ३१ ॥ चाण्डालाभिरतो नित्यं वेश्याभोगी महाखलः । स्वपत्नीत्यागकृत्पापी दुष्टसङ्गरतस्तदा ॥ ३२ ॥ तेन वेश्याकुसङ्गेन सुकृतं नाशितं महत् । वित्तलोभेन महिषी निर्भया जारिणी कृता ॥ ३३ ॥ आमृत्योः स दुराचारी कालेन निधनं गतः । ययौ यमपुरं घोरं भोगस्थानं हि पापिनाम् ॥ ३४ ॥ तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च । इदानीं स पिशाचोऽस्ति विन्ध्येऽद्रौ पापभुक्खलः ॥ तस्याग्रे परमां पुण्यां सर्वपापविनाशिनीम् । दिव्यां शिवपुराणस्य कथाङ्कथय यत्नतः ॥ ३६ ॥ द्रुतं शिवपुराणस्य कथाश्रवणतः परात् । सर्वपापविशुद्धात्मा हास्यति प्रेततां च सः ॥ ३७ ॥ मुक्तं च दुर्गतेस्तं वै बिन्दुगं त्वं पिशाचकम् । मदाज्ञया विमानेन समानय शिवान्तिकम् ॥ ३८ ॥ सूत उवाच - इत्यादिष्टो महेशान्या गन्धर्वेन्द्रश्च तुम्बुरुः । मुमुदेऽतीव मनसि भाग्यं निजमवर्णयत् ॥ ३९ ॥ आरुह्य सुविमानं स सत्या तत्प्रियया सह । ययौ विन्ध्याचलं सोऽरं यत्रास्ते नारदप्रियः ॥ ४० ॥ तत्रापश्यत्पिशाचं तं महाकायं महाहनुम् । प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिम् ॥ ४१ ॥ बलाज्जग्राह तं पाशैः पिशाचं चातिभीकरम् । तुम्बुरुश्शिवसत्कीर्तिगायकश्च महाबली ॥ ४२ ॥ अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः । निश्चित्य रचनां चक्रे महोत्सवसमन्विताम् ॥ ४३ ॥ पिशाचं तारितुं देव्याः शासनात्तुम्बुरुर्गतः । विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् ॥ ४४ ॥ इति कोलाहलो जातः सर्वलोकेषु वै महान् । तत्र तच्छ्रवणार्थाय ययुर्देवर्षयो द्रुतम् ॥ ४५ ॥ समाजस्तत्र परमोऽद्भुतश्चासीच्छुभावहः । तेषां शिवपुराणस्यागतानां श्रोतुमादरात् ॥ ४६ ॥ पिशाचमथ तं पाशैर्बद्ध्वा समुपवेश्य च । तुम्बुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥ ४७ ॥ आरभ्य संहितामाद्यां सप्तमीसंहितावधि । स्पष्टं शिवपुराणं हि समाहात्म्यं समावदत् ॥ ४८ ॥ श्रुत्वा शिवपुराणं तु सप्तसंहितमादरात् । बभुवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि ॥ ४९ ॥ स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् । विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः ॥ ५० ॥ दिव्यरूपो बभूवाशु गौरवर्णः सितांशुकः । सर्वालङ्कारदीप्ताङ्गस्त्रिनेत्रश्चन्द्रशेखरः ॥ ५१ ॥ दिव्यं दिव्यवपुर्भूत्वा तया स निजकान्तया । जगौ स्वयमपि श्रीमांश्चरितं पार्वतीपतेः ॥ ५२ ॥ तद्वधूमिति सन्दृष्ट्वा सर्वे देवर्षयश्च ते । बभूवुर्विस्मिताश्चित्ते परमानन्दसंयुताः ॥ ५३ ॥ सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् । स्वं स्वं धाम ययुः प्रीत्या शंसन्तः शाङ्करं यशः ॥ ५४ ॥ बिन्दुगः सोऽपि दिव्यात्मा सुविमानस्थितः सुखी । स्वकान्तापार्श्वगः श्रीमाञ्छुशुभेऽतीव खस्थितः ॥ ५५ ॥ अथ गायन्महेशस्य सुगुणान्सुमनोहरान् । स तुम्बुरुर्जगामाशु सकान्तः शाङ्करं पदम् ॥ ५६ ॥ सुसत्कृतो महेशेन पार्वत्या च स बिन्दुगः । स्वगणश्च कृतः प्रीत्या साऽभवद्गिरिजासखी ॥ ५७ ॥ तस्मिँल्लोके परानन्दे घनज्योतिषि शाश्वते । लब्ध्वा निवासमचलं लभेते परमं सुखम् ॥ ५८ ॥ इत्येतत्कथितं पुण्यमितिहासमघापहम् । शिवाशिवपरानन्दं निर्मलं भक्तिवर्द्धनम् ॥ ५९ ॥ य इदं शृणुयाद्भक्त्या कीर्तयेद्वा समाहितः । स भुक्त्वा विपुलान्भोगानन्ते मुक्तिमवाप्नुयात् ॥ ६० ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहाम्ये बिन्दुसद्गतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |