|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
श्रीशिवपुराणमाहात्म्यम्
॥ चतुर्थोऽध्यायः ॥ ॥ चंचुलायाः सद्गतिः ॥ [ Right click to 'save audio as' for downloading Audio ]
ब्राह्मण उवाच -
दिष्ट्या काले प्रबुद्धासि शिवानुग्रहतो वराम् । इमां शिवपुराणस्य श्रुत्वा वैराग्यवत्कथाम् ॥ १ ॥ मा भैषीर्द्विजपत्नि त्वं शिवस्य शरणं व्रज । शिवानुग्रहतः सर्वं पापं सद्यो विनश्यति ॥ २ ॥ वक्ष्यामि ते परं वस्तु शिवकीर्तिसमन्वितम् । भविष्यति गतिर्येन सर्वदा ते सुखावहा ॥ ३ ॥ सत्कथाश्रवणादेव जाता ते मतिरीदृशी । पश्चात्तापान्विता शुद्धा वैराग्यं विषयेषु च ॥ ४ ॥ पश्चात्तापः पापकृतां पापानां निष्कृतिः परा । सर्वेषां वर्णितं सद्भिः सर्वपापविशोधनम् ॥ ५ ॥ पश्चात्तापेनैव शुद्धिः प्रायश्चित्तं करोति सः । यथोपदिष्टं सद्भिर्हि सर्वपापविशोधनम् ॥ ६ ॥ प्रायश्चित्तमधीकृत्य विधिवन्निर्भयः पुमान् । स याति सुगतिं प्रायः पश्चात्तापी न संशयः ॥ ७ ॥ एतच्छिवपुराणस्य कथाश्रवणतो यथा । जायते चित्तशुद्धिर्हि न तथान्यैरुपायतः ॥ ८ ॥ शोध्यमानं दर्पणं हि यथा भवति निर्मलम् । तथैतत्कथया चेतो विशुद्धिं यात्यसंशयम् ॥ ९ ॥ विशुद्धे चेतसि शिवो नृणां तिष्ठति साम्बिकः । ततो याति विशुद्धात्मा साम्बशम्भोः परं पदम् ॥ १० ॥ अतः सर्वस्य वर्गस्यैतत्कथासाधनं मतम् । एतदर्थं महादेवो निर्ममे त्वाग्रहादिमाम् ॥ ११ ॥ कथया सिद्ध्यति ध्यानमनया गिरिजापतेः । ध्यानाज्ज्ञानं परं तस्मात्कैवल्यं भवति ध्रुवम् ॥ १२ ॥ असिद्धशङ्करध्यानः कथामेव शृणोति यः । स प्राप्यान्यभवे ध्यानं शम्भोर्याति परां गतिम् ॥ १३ ॥ एतत्कथाश्रवणतः कृत्वा ध्यानमुमापतेः । ते पश्चात्तापिनः पापा बहवः सिद्धिमागताः ॥ १४ ॥ सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् । यथावर्त्मसमाराध्यं भवबन्धगदापहम् ॥ १५ ॥ कथाश्रवणतः शम्भोर्मननाच्च ततो हृदा । निदिध्यासनतश्चैव चित्तशुद्धिर्भवत्यलम् ॥ १६ ॥ अतो भक्तिर्महेशस्य पुत्राभ्यां भवति ध्रुवम् । तदनुग्रहतो दिव्या ततो मुक्तिर्न संशयः ॥ १७ ॥ तद्विहीनः पशुर्ज्ञेयो मायाबन्धनसक्तधीः । संसारबन्धनान्नैव मुक्तो भवति स ध्रुवम् ॥ १८ ॥ अतो हि द्विजपत्नि त्वं विषयेभ्यो निवृत्तधीः । शृणु शम्भोः कथां चैतां भक्त्या परमपावनीम् ॥ १९ ॥ शृण्वन्त्याः सत्कथामेतां शङ्करस्य परात्मनः । शुद्धिमेष्यति चेतस्ते ततो मुक्तिमवाप्स्यसि ॥ २० ॥ ध्यायतः शिवपादाब्जं चेतसा निर्मलेन वै । एकेन जन्मना मुक्तिः सत्यं सत्यं वदाम्यहम् ॥ २१ ॥ सूत उवाच - इत्युक्त्वा स द्विजवरो वरः शैवः कृपार्द्रधीः । तूष्णीं बभूव शुद्धात्मा शिवध्यानपरायणः ॥ २२ ॥ अथ बिन्दुगपत्नी सा चञ्चुलाह्वा प्रसन्नधीः । इत्युक्ता तेन विप्रेण समासीद्बाष्पलोचना ॥ २३ ॥ पपातारं द्विजेन्द्रस्य पादयोस्तस्य हृष्टधीः । चञ्चुला साञ्जलिः सा च कृतार्थास्मीत्यभाषत ॥ २४ ॥ चञ्चुलोवाच - अथ सोत्थाय सातङ्का साञ्जलिर्गद्गदाक्षरम् । तमुवाच महाशैवं द्विजं वैराग्ययुक्सुधीः ॥ २५ ॥
ब्रह्मञ्छैववर स्वामिन्धन्यस्त्वं परमार्थदृक् । परोपकारनिरतो वर्णनीयः सुसाधुषु ॥ २६ ॥ उद्धरोद्धर मां साधो पतन्तीं नरकार्णवे । श्रुत्वा यां सुकथां शैवीं पुराणार्थविजृम्भिताम् ॥ २७ ॥ विरक्तधीरहं जाता विषयेभ्यश्च सर्वतः । सुश्रद्धा महती ह्येतत्पुराणश्रवणेऽधुना ॥ २८ ॥ सूत उवाच - इत्युक्त्वा साञ्जलिः सा वै सम्प्राप्य तदनुग्रहम् । तत्पुराणं श्रोतुकामाऽतिष्ठत्तत्सेवने रता ॥ २९ ॥ अथ शैववरो विप्रस्तस्मिन्नेव स्थले सुधीः । सत्कथां श्रावयामास तत्पुराणस्य तां स्त्रियम् ॥ ३० ॥ इत्थं तस्मिन्महाक्षेत्रे तस्मादेव द्विजोत्तमात् । कथां शिवपुराणस्य सा शुश्राव महोत्तमाम् ॥ ३१ ॥ भक्तिज्ञानविरागाणां वर्द्धिनीं मुक्तिदायिनीम् । बभूव सुकृतार्था सा श्रुत्वा तां सत्कथां पराम् ॥ ३२ ॥ सद्गुरोस्तस्य कृपया शुद्धचित्ता च सा द्रुतम् । शिवानुग्रहतः शम्भोः रूपध्यानमवाप ह ॥ ३३ ॥ इत्थं सद्गुरुमाश्रित्य सा प्राप्तशिवसन्मतिः । दध्यौ मुहुर्मुहुः शम्भोश्चिदानन्दमयं वपुः ॥ ३४ ॥ स्नात्वा तीर्थजले नित्यं जटावल्कलधारिणी । भस्मोद्धूलितसर्वाङ्गी रुद्राक्षकृतभूषणा ॥ ३५ ॥ शिवनामजपासक्ता वाग्यता मितभोजना । गुरूपदिष्टमार्गेण सा शिवं समतोषयत् ॥ ३६ ॥ एवं तस्याचञ्चुलायाः कुर्वन्त्या ध्यानमुत्तमम् । बहुकालो व्यतीयाय शम्भोस्तत्रैव शौनक ॥ ३७ ॥ अथ कालेन पूर्णेन भक्तित्रिकसमन्विता । समुत्ससर्ज देहं स्वमनायासेन चञ्चुला ॥ ३८ ॥ विमानं द्रुतमायान्तं प्रेषितं त्रिपुरारिणा । दिव्यं स्वगणसंयुक्तं नानाशोभासमन्वितम् ॥ ३९ ॥ अथ तत्र समारूढा महेशानुचरैर्वरैः । नीता शिवपुरीं सद्यो ध्वस्तसर्वमला च सा ॥ ४० ॥ दिव्यरूपधरा दिव्या दिव्यावयवशालिनी । चन्द्रार्द्धशेखरा गौरी विलसद्दिव्यभूषणा ॥ ४१ ॥ गत्वा तत्र महादेवं सा ददर्श त्रिलोचनम् । विष्णुब्रह्मादिभिर्देवैः सेव्यमानं सनातनम् ॥ ४२ ॥ गणेशभृङ्गिनन्दीशवीरभद्रेश्वरादिभिः । उपास्यमानं सद्भक्त्या कोटिसूर्यसमप्रभम् ॥ ४३ ॥ नीलग्रीवं पञ्चवक्त्रं त्र्यम्बकं चन्द्रशेखरम् । वामाङ्गे बिभ्रतं गौरीं विद्युत्पुञ्जसमप्रभाम् ॥ ४४ ॥ कर्पूरगौरं गौरीशं सर्वालङ्कारधारिणम् । सितभस्मलसद्देहं सितवस्त्रं महोज्जलम् ॥ ४५ ॥ दृष्ट्वैवं शङ्करं नारी सा मुमोदातिचञ्चुला । सुसम्भ्रमान्महाप्रीता प्रणनाम पुनः पुनः ॥ ४६ ॥ साञ्जलिः सा मुदा प्रेम्णा सन्तुष्टा च विनीतका । आनन्दाश्रुजलैर्युक्ता रोमहर्षसमन्विता ॥ ४७ ॥ अथ सा वै करुणया पार्वत्या शङ्करेण च । समानीतोपकण्ठं हि सुदृष्ट्या च विलोकिता ॥ ४८ ॥ पार्वत्या सा कृता प्रीत्या स्वसखी दिव्यरूपिणी । दिव्यसौख्यान्विता तत्र चञ्चुला बिन्दुगप्रिया ॥ ४९ ॥ तस्मिंल्लोके परानन्दघनज्योतिषि शाश्वते । लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥ ५० ॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये चञ्चुलावैराग्यवर्णनं नाम चतुर्थोऽध्यायः ॥ श्रीगौरीशंकरार्पणमस्तु |